भारतीयराष्ट्रियकाङ्ग्रेस्
भारतीयराष्ट्रियकाङ्ग्रेस् इति कश्चन राजकीयपक्षः भारते अस्ति । एषः भारतसय् प्राचीनतमः राजतन्त्रपक्षः अस्ति । क्रि.श.१८८५तमे वर्षे प्रतिष्ठापितः अयं पक्षः ब्रिटिष् प्रशासनं विरुध्य अन्दोलनकर्तृषु प्रथमः । स्वातन्त्र्योत्तरम् अधिककालं प्रशसनसूत्रम् अस्य पक्षस्य एव आसीत् । चतुर्दशे लोकसाभायां (क्रि.श.२००४-२००९) १४५स्थानेषु अस्य पक्षस्य प्रतिनिधयः विजयं प्राप्नुवन् । किन्तु तत् बहुमतं नाभवत् इतिकारणेन वामपथीयानाम् समालम्बनेन युपिए सर्वकारं रचितवन्तः ।
स्वातन्त्र्यपूर्वम् [सम्पादयतु]
भारतीयराष्ट्रियकाङ्ग्रेस् इति पक्षं क्रि.श.१८५५तमे वर्षे डिसेम्बर् मासस्य २८तमे दिने स्थापितः । अस्य स्थापकः ब्रिटन् देशीयः आङ्ग्लाधिकारी ए.ओ.ह्यूम् (Allan Octavian Hume) । तेन सह दादाबायी नवरोजी (Dadabhai Naoroji), दिन्शाव् वाचा (Dinshaw Wacha), वोमेश् चन्द्र बेनर्जी (Womesh Chandra Bonnerjee), सुरेन्द्रनाथ बेनर्जी (Surendranath Banerjee), मनमोहन घोष् (Monomohun Ghose),महदेव गोविन्द रनडे (Mahadev Govind Ranade), विल्लियं वेड्डर्बन् (William Wedderburn) इत्यादयः आसन् । सुशिक्षितभारतीयानां सर्वकारे अवकाशपरिकल्पनार्थं स्थापितवन्तः । आरम्भकाले अयं पक्षः ब्रिटिष्प्रशासनस्य विरोधी नासीत् । अस्य प्रथमा सभा स्काट्लेण्ड्देशस्य अलन् आक्टेवियन् ह्यूम् इति प्रदेशे तदानीन्तन वैस्राय् लार्ड् डफरिन् इत्यस्य अनुमत्या व्यवस्थापितम् । तदनन्तरदिनेषु ब्रिटिष् सर्वकारेण अनादृतः पक्षः भारतस्य स्वातन्त्र्यसङ्ग्रामे सक्रियः अभवत् । तस्मिन् काले अस्मिन् काङ्ग्रेस् पक्षे दलद्वयम् आसीत् । एकः क्रान्तिदलः अपरः शान्तदलः । ब्रिटिष् अधिकारिणां विषये प्रतिक्रियानुगुणम् एवं वर्गीकरणम् अभवत् । काङ्ग्रेस् पक्षस्य स्वातन्त्र्यपूर्वनेतृषु महात्मा गान्धिः सुभाष्चन्द्र बोस् च परिगणनीयौ ।
स्वातन्त्र्योत्तरम् [सम्पादयतु]
गान्धिमहोदयस्य अनेकेषां नेतॄणाम् अभिप्रायः एवमासीत् यत् भारतस्य स्वातन्त्र्योत्ततम् अयं पक्षः विगलितः भवेत् । किन्तु स्वातन्त्र्योत्तरम् अनेकवर्षाणि काङ्ग्रेस् पक्षः जवाहर लाल नेह्रू इत्यस्य नेतृत्वे केन्द्रसर्वकारे अधिकारारूढः आसीत् । तदुत्तरनेतारः लालबहाद्दूर सास्त्री, इन्दिरा गेण्डिः, पि.वि.नरसिंह राव्, राजीव गेण्डिः मनमोहन सिंहः (सध्यः कालीनः प्रधानमन्त्री) इत्यादयः । ८०तमे दशके प्रधानस्य काङ्ग्रेस् पक्षस्य काङ्ग्रेस् ऐ (I) इति नामाङ्कितम् । आङ्ग्लभाषायाः ऐ इत्यक्षरम् अत्र इन्दिरा इति पदं सूचयति । तदनन्तरकाले काङ्गेस् पक्षा बहुधा विभक्तः प्रत्येकतां सूचयितुम् एवमेव आवरणे आङ्ग्लाक्षरेण सूचनस्य पद्धतिः उपयुक्तः । क्रि.शा.१९९०तमे वर्षे निर्वाचनायुक्तः टि.एन्.शेषन् महोदयः काङ्ग्रेस् (ऐ) पक्षस्य ऐ निष्कासयितुम् असूचयत् । अतः पुनः भारतीयराष्ट्रियकाङ्रेस् इत्येव नामाङ्कितम् अभवत् । काङ्ग्रेस् पक्षस्य विभागेन अस्य मूलशक्तिः क्षीणा भूत्वा निर्वाचनेषु बहुमतं प्राप्तुम् अशक्यम् अभवत् । अतः बहुधा अन्यैः वामपथस्य पक्षाणां समवलम्बनेन सर्वकारस्य रचनं सञ्जातम् । अस्य काङ्ग्रेस् पक्षस्य प्रकृता नेत्री सोनिया गेण्डिः। इयं भूतपूर्वप्रधानमन्त्रिणः राजीव गेण्डिमहोदयस्य पत्नी । तस्याः मूलः देशः इटली ।
काङ्ग्रेस्पक्षस्य प्रसक्तसर्वकारः [सम्पादयतु]
क्रि.श.२००९तमे वर्षे सम्भूते लोकसभायाः निर्वाचने भारतीयराष्ट्रियकाङ्ग्रेस् २०६स्थानेषु स्वप्रतिनिधीन् प्राप्त अतिबृहत् पक्षः भूत्वा अधिकारसूत्रम् अगृह्णात् । डा.मनमोहन सिंहः द्वितीयवारं प्रधानमन्त्री अभवत् ।