भारतीयसंस्कृतिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

वेदकालीनभारतम्

पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।

धर्मः[सम्पादयतु]

हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् । तत्रापि हिन्दुधर्मः जगति एव तृतीयः महाधर्मः । चतुर्थे स्थाने अस्ति बौद्धधर्मः । एतयोः द्वयोः धर्मयोः अनुयायिनः १.४ शतकोट्यपेक्षया अधिकाः सन्ति । भारतं विश्वे एव महान् धार्मिकवैविद्यतायाः देशः । अत्रत्यानां जनानां जीवने अद्यापि धर्मः निर्णायकं पात्रं निर्वहति । भारतस्य पमुखः धर्मः हिन्दुधर्मः । यतः अत्रत्यायाः जनसंख्यायाः ८०.४ % अपेक्षया अपि अधिकाः हिन्दुधर्मम् अनुसरन्ति । १३.४% जनाः इस्लां धर्मम् अनुसरन्ति । सिख्-जैन-बौद्धधर्माणां जनाः न केवलं भारते अपि तु विश्वस्य सर्वेषु भागेषु व्याप्ताः सन्ति । विश्वस्य अन्येषां मतानां क्रैस्त-झोराश्ट्रियन्-यहूद्य-बहायि-मतानाम् अनुयायिनः अपि अल्पप्रमाणेन सन्ति अत्र । तैः सह एव नास्तिकाः आज्ञेयतावादिनः अपि सन्ति भारते ।

समाजः[सम्पादयतु]

स्थूलपरिचयः[सम्पादयतु]

भारतीयसंस्कृतिः व्यवस्थितां सामाजिकश्रेणीव्यवस्थाम् अनुसरति इति वदति यूजिन्मेकरः । अत्रतान् बालान् बाल्यारभ्य एव कर्तव्यविषये, स्थानमानविषये च बोधयन्ति इति वदति सः । देवः अथवा काचित् अतीतशक्तिः अस्माकं जीवनस्य निर्णयं करोति इति भारतीयानां विश्वासः । धर्मसदृशाः बहवः विभिन्नाः विषयाः समाजस्य विभागं कुर्वन्ति । पवित्राः अपवित्राः च वृत्तयः एतेषां विभागस्य प्रबलम् आयुधम् अस्ति । इदमिदानीं नगरप्रदेशेषु तादृशाः विभागाः न्यूनाः जाताः सन्ति । विभक्तकुटुम्बम् इदानीं भारतीयसमाजस्य केन्द्रं जायमानम् अस्ति । हिन्दुधर्मे “गोत्रम्” इत्येतत् अनुसृत्य विशिष्टाः कौटुम्बिकसम्बन्धाः निर्मिताः भवन्ति । पितृवंशस्य क्रमेण “कुलम्” इत्येतत् अपि जन्मनः समनन्तरम् एव प्राप्यते । ग्रामीणेषु प्रदेशेषु एकस्य कुटुम्बस्य ३-४ वंशश्रेण्याः (Generation) जनाः एकत्र एव वसन्ति । तत्र गृहस्य ज्येष्ठः गृहस्य समस्याः परिहरति । भारते भौगोलिकचलनं न्यूनम् एव । पोषकाणाम् उद्योगम् एव पुत्राः अनुसरन्ति । अनिवार्यतां विना व्ययम् अथवा प्रदर्शनार्थं क्रियमाणं व्ययं न इच्छन्ति भारतीयाः । ते तं “दुर्गुणः” इति वदन्ति । समानतां समाजसेवां च भारते प्रोत्साहयन्ति ।

कुटुम्बव्यवस्था[सम्पादयतु]

हिन्दुविवाहे वधूवरौ

भारते बहुभ्यः शतकेभ्यः अविभक्तकुटुम्बपद्धतिः आसीत् । परन्तु इदानीं नगरप्रदेशेषु विभक्तकुटुम्बपद्धतिः अनुस्रियमाणा अस्ति । मता-पिता, पुत्राः, स्नुषाः, पौत्राः, प्रपौत्राः – एवं क्रमेण सर्वे अपि एकत्र एव वसन्ति । कुटुम्बस्य ज्येष्ठः एव अस्य अविभक्तकुटुम्बस्य प्रमुखः । सः एव कुटुम्बसम्बद्धेषु विषयेषु निर्णयान् स्वीकरोति । सः एव कुटुम्बस्य नीतिनियमान् निरूपयति च । कुटुम्बस्य अन्ये सर्वे सदस्याः तान् नियमान् पालयन्ति ।

नियोजितः विवाहः भारतीयसमाजस्य अन्यदेकं वैशिष्ट्यम् । अयं सम्प्रदायः अनेकेभ्यः शतकेभ्यः आचरणपथे अस्ति । इदानीम् अपि भारतीयेषु कुटुम्बेषु नियोजिताः विवाहाः एव भवन्ति अधिकसंख्यया । वधू-वरयोः पोषकाः वा कुटुम्बस्य यजमानः वा एतादृशान् विवाहान् निश्चिनोति । तत्र यद्यपि वधू-वरयोः अभिप्रायं पृच्छन्ति तथापि कौटुम्बिकपृष्ठभूमिका, जातिः, जातकम्, सामाजिकस्थानम् इत्यादयः विषयः अपि परिगण्यन्ते । विवाहः तदनन्तरस्य समग्रस्य जीवनस्य प्रक्रिया इति चिन्तयन्ति भारतीयाः । तस्मादेव कारणात् भारते विच्छेदनस्य प्रमाणम् अत्यल्पम् । “युनैटेड् स्टेट्स्” इत्यनेन सह तोलयामः चेत् भारते जायमानां विच्छेदनानां प्रमाणं केवलं १.१% । तत्रापि नियोजितविवाहेषु विच्छेदनस्य प्रमाणम् इतोऽपि अल्पम् ।

भारतीयानां नाम्नि अपि वैविध्यम् अस्ति । अस्य पृष्ठभूमिका अपि महती भवति । भारतीये समाजे जन्मनः अनन्तरं नामकरणम् इति कुर्वन्ति । सोऽपि नामकरणकार्यक्रमः प्रदेशानुगुणं विभिन्नः भवति । भारतीयानां नाम्नि अपि धर्मस्य जातेः च प्रभावः महान् अस्ति ।

भारतीयाः विभिन्नानां भाषाणाम् उपयोगं कुर्वन्ति । यद्यपि भारतीये समाजे स्त्रीपुरुषौ समानौ इति शासनेन परिगण्यते तथापि तै विभिन्नानि कार्याणि एव निर्वहतः । सामान्यतया महिलाः गृहकार्याणि निर्वहन्ति, पुरुषाः च धनसम्पादनस्य वा कुटुम्बनिर्वहणस्य वा कार्यं कुर्वन्ति । बहुषु भारतीयकुतुम्बेषु स्त्रीणां नाम्ना कापि सम्पत्तिः न भवति । महिलासम्बद्धाः नियतकालिकाः अपि प्रकाश्यन्ते भारते । तासु फेमिना, गृहशोभा, वुमन्स एरा च सुप्रसिद्धाः ।

प्राणिवैविध्यम्[सम्पादयतु]

कश्चन सिंहः

प्राणिवैविध्यम् अपि भारतीयसंस्कृतेः उपरि महान्तं प्रभावण् जनयति । भारते प्रसिद्धाः पञ्चतन्त्रकथाः, जातककथाः च प्राणिनां द्वारा एव अस्मान् नीतिं बोधयन्ति । एताः कथाः उपयुज्य भारते बालान् बाल्यादारभ्य एव नीतिमार्गयुतान् कुर्वन्ति । हिन्दुधर्मे धेनुः अहिंसायाः प्रतीका । सा गोमाता इत्येव उक्तम् अस्ति । प्राणिहिंसा महापापम् इति चिन्तयन्ति भारतीयाः । सर्वेऽपि प्राणिनः भगवतः एव सृष्टिः इति चिन्त्यते भारते ।

उत्सवाः[सम्पादयतु]

विविधानां धर्माणाम् आश्रयभूमिः भारतम् । अतः एव अत्रत्या संस्कृतिः अपि वैविध्यमयी एव । तस्मात् कारणात् एव भारते विभिन्नाः उत्सवाः आचर्यन्ते । तादृशाः उत्सवाः चतुर्धा विभज्यन्ते । धार्मिकपर्वाणि, प्रादेशिकपर्वाणि, राष्ट्रियपर्वाणि, जयन्त्युत्सवाः च इति ।

स्वातन्त्र्यदिनं, गणतन्त्रदिनम् इत्यादीनि राष्ट्रियपर्वाणि । दीपावली, नवरात्रं, गणेशचतुर्थी, क्रिस्मस्, गुड्-फ्रैडे, रम्जान्, ईद्-उल-फितर् इत्यादीनि धार्मिकपर्वाणि, बुद्धजयन्ती, महावीरजयन्ती, बसवजयन्ती, गुरुनानकजयन्ती, दत्तजयन्ती इत्यादयः जयन्त्युत्सवाः । ओणम् (केरले आचर्यते), द्रीपर्व (अरुणाचलप्रदेशस्य जैरोखातप्रदेशे निवसन्तः अपाटानिस्-जनाः आचरन्ति), बोणम् (तेलङ्गाणप्रदेशे आचर्यते),राजप्रभा (ओरिस्साराज्ये आचर्यते) इत्यादीनि प्रादेशिकपर्वाणि ।

आहारपद्धतिः[सम्पादयतु]

भारतीयव्यञ्जनानि

विभिन्नानां सस्यमूलनाम् उपस्करपदार्थाणाम् उपयोगेन वैविध्यमयः आहारः सज्जीक्रियते भारते । प्रायः जगति अन्यत्र कुत्रापि एतावन्तः आहारपदार्थाः वा सिद्धाः आहारप्रकाराः वा न सन्ति । भारतस्य वैशिष्ट्यम् एतदपि । प्रतिराज्यम् अपि विभिन्नाः आहारपदार्थाः निर्मीयन्ते भारते । तत्रापि राज्येषु अपि प्रतिमण्डलम् उपमण्डलं वा पुनः विभिन्नाः आहारपदार्थाः निर्मीयन्ते । एकस्मिन्नेव राज्ये विभिन्नेषु प्रदेशेषु विभिन्नाः आहारपदार्थाः वर्धन्ते, निर्मीयन्ते च । अतः भारतस्य आहारसम्पत्तिः विभिन्ना विशिष्टा वैज्ञानिकी च ।

अत्रत्यः आहारः द्विधा विभक्तः । शाकाहारः मांसाहारः चेति । सस्यजन्याः आहारपदार्थाः शाकाहारः इति, प्राणिजन्याः आहारपदार्थाः च मांसाहारः इति उच्यते सामान्यतया । तत्रापि पुनः अपवादाः सन्ति एव । उदाहरणार्थं – दुग्धं यद्यपि प्राणिजन्यः आहारः तथापि मांसाहारत्वेन न परिगण्यते । भारते पाकशास्त्रं किञ्चित् शास्त्रत्वेन परिगणितम् अस्ति । स्थूलतया अत्रत्या आहारपद्धतिः पञ्चधा विभज्यते । औत्तरेया आहारपद्धतिः, दाक्षिणात्या आहारपद्धतिः, पौर्वीया आहारपद्धतिः, पाश्चिमात्या आहारपद्धतिः, ऐशान्या आहारपद्धतिः चेति । भारतीयाः आहाराः जगति एव सुप्रसिद्धाः सन्ति ।

भारतीयेषु भोजनेषु अन्यतमम्

भारतस्य उपरि आक्रमणं कृत्वा शासनं कृतवतां पर्षियन्नानां, मुघलानाम्, ब्रिटिशानां, फ्रेञ्च्-डच्-जनानां प्रभावः भारतस्य आहारस्य उपरि अपि जातः अस्ति । “तन्दूररोतिका” इत्याख्यस्य खाद्यविशेषस्य मुलस्थानम् अस्ति मध्य-एष्या । भारते वर्धताम् उपस्करपदार्थाणां वाणिज्यं जगति सर्वत्र प्रचलति । तादृशानाम् उपस्कराणां वाणिज्येन एव अरब्-जनाः धनिकाः सञ्जाताः । वास्कोडगामः, क्रिस्टोफर्-कोलम्बससदृशानां नूतनजलमार्गस्य अन्वेषणस्य अपि प्रेरणा अभवत् सः एव वाणिज्यव्यवहारः । भारतीयमूलीयः “करि” (सारः) इत्याख्यः खाद्यविशेषः समग्रे एष्याखण्डे एव प्रसिद्धः अस्ति । सः अद्यतनजगति “प्यान्-एषियन्” इत्येव उच्यते ।

वेषभूषणम्[सम्पादयतु]

विभिन्नाः शाटिकाधरणशैल्यः

भारतीयानां वेषभूषणम् अत्यन्तं विशिष्टम् अस्ति जगति एव । जगति अन्यत्र कुत्रापि एतावन्ति वेषभूषणानि न सन्ति एव । दक्षिणभारतीयानां वेषं भिन्नम्, उत्तरभारतीयानां वेषं भिन्नम् । “शाटिका” भारतीयमहिलनां साम्प्रदायिकं वेषम् । उत्तरभारते गाघ्रचोली (लेहेङ्ग) अपि महता प्रमाणेन उपयुज्यते । वेष्टिः पुरुषाणां साम्प्रदायिकं वेषम् अस्ति । उत्तरभारते पादांशुकं, करांशुकं च उपयुज्यते महता प्रमाणेन । तत्रापि दक्षिणभारते अपि केरलीयानां शाटिका भिन्ना । महाराष्ट्रियाणां शाटिका भिन्ना । कर्णाटकस्य शाटिका भिन्ना । कदाचित् शाटिका समाना चेदपि धरणशैली विभिन्ना भवति । इदानीं भारतस्य साम्प्रदायिकानां वेषाणां स्थानम् आधुनिकवेषैः अलङ्कृतम् अस्ति । इदानीम् अपि ग्रामीणप्रदेशेषु साम्प्रदायिकं वेषमेव धरन्ति सामान्यतया । भारते प्रायः सर्वविधम् अपि वेषं प्राप्यते । विश्वस्य सर्वेषां देशाणां वस्त्राणि प्राप्यन्ते भारते । वार्षिकीं फ्याषन्मेलाम् आयोजयत् देहलीनगरं भारतस्य फ्याषन्-राजधानी इत्येव उच्यते । देहली, चेन्नै, अहमदाबाद्, पुणे इत्यादीनि जनप्रियाणि वस्त्रक्रयणस्य स्थानानि ।

भारतीयाः महिलाः अलङ्कारप्रियाः प्राचीनकालादारभ्य अपि । ताः सौन्दर्यवर्धनार्थं बहूनि भूषणानि धरन्ति । वज्रेण, मणिना, स्वर्णेन, रजतेन, अन्यलोहेन वा निर्मितानि आभूषणानि प्रसिद्धानि । इदानीम् अन्यविधानि आभूषणानि अपि धरन्ति । तादृशेषु आभूषणेषु कण्ठहाराः, कङ्कणानि, कर्णाभरणानि, अङ्गुलीयकानि, नूपुराणि, केयूराणि, मेखलाः, चूडामणिः, नासाभरणानि च सामान्यतया भारते सर्वत्र महिलाः धरन्ति । भारतीयानां भूषणेषु प्रमुखं स्थानं वहति “तिलकम्” । तत्रापि महिलानां विषये तिलकस्य प्रामुख्यम् अधिकम् । पूर्वं भारते विवाहिताः महिलाः केवलं ललाटे रक्तवर्णस्य कुङ्कुमं धरन्ति स्म । परन्तु इदानीं सर्वाः महिलाः (अविवाहिताः अपि) धरन्ति । तिलकम् अपि इदानीं विभिन्नानां वर्णानाम् आकाराणां च भवति । तत् तिलकं महिलानां तृतीयं नेत्रम् इति मन्यते ।

साहित्यम्[सम्पादयतु]

इतिहासः[सम्पादयतु]

प्राचीनं भारतीयं साहित्यं मौखिकरूपेण एव प्रसारितम् अभवत् । भारतस्य सर्वप्रथमं लिखितं साहित्यम् ऋग्वेदमन्त्राः । अयं ऋग्वेदः संस्कृतभाषया एव लिखितः वर्तते । १५०० तः १२०० (BCE) अवधौ लिखितः वर्तते ऋग्वेदः । संस्कृतस्य महाकाव्ये इति प्रख्याते रामायणं महाभारतं च प्रथमशतकस्य अन्तिमभागे रचिते । प्राचीनं संस्कृतसाहित्यं प्रथमशतकस्य आरम्भवर्षेषु समृद्धरूपेण वर्धितम् । तमिळुभाषायाः “सङ्गम”साहित्यम् अपि अस्मिन् एव अवधौ रचितम् । मध्यकालावधौ कन्नडभाषायाः, तेलुगुभाषायाः च साहित्यकृषिः आरब्धा । ९ शतके कन्नडस्य, ११ शतके तेलुगुभाषायाः च साहित्यकृतयः रचिताः अभवन् । १२ शतके मलयालभाषया अपि साहित्यं रचितम् । अस्मिन् एव अवधौ बङ्गालभाषायाः, मराठीभाषायाः, हिन्दीभाषायाः, पर्षियन्भाषायाः, उर्दुभाषायाः च साहित्यरचना आरब्धा । ज्ञानपीठप्रशस्तिः, केन्द्रसाहित्य-अकादमी-फेलोषिप् च भारते साहित्यक्षेत्रे कृतभूरिपरिश्रमाणां कृते दीयमाना अत्युत्तमा प्रशस्तिः । कन्नडभाषया समग्रे भारते एव अत्यधिकसंख्यया ज्ञानपीठप्रशस्तिः प्राप्ता अस्ति । एतावता कन्नडे अष्ट साहित्यकाराः ज्ञानपीठप्रशस्तिं प्राप्तवन्तः सन्ति । तथैव हिन्दीभाषया ६, बङ्गालीभाषया ५, मलयालभाषया ४, मराठी, गुजराती, उर्दु, ओडिसी भाषाभिः ३ ज्ञानपीठप्रशस्तयः प्राप्ताः सन्ति ।

काव्यम्[सम्पादयतु]

ऋग्वेदस्य कालादारभ्य भारतस्य काव्यपरम्परा बलिष्ठा एव अस्ति । काव्यस्य सङ्गीतप्रकारकैः सह महान् सम्बन्धः आसीत् । धार्मिकजागरणाय अस्य उपयोगः महता प्रमाणेन कृतः दृश्यते भारतस्य इतिहासस्य अवलोकनेन । भारतीयाः लेखकाः तत्त्वज्ञानिनः च महान्तः प्रतिभावन्तः कवयः अपि आसन् । भारतस्य स्वातन्त्र्यान्दोलनावसरे काव्येन राष्ट्रियतायाः अहिंसायाः अस्त्ररूपेण महत्त्वभूतं पात्रं निरूढम् आसीत् । आधुनिककाले रवीन्द्रनाथठाकूरस्य तथा के.एस्. नरसिंहस्वामिनः काव्ये सः एव सम्प्रदायः दृश्यते । तथैव बसवण्णस्य वचनानि, कबीरस्य पदानि, पुरन्दरदासस्य देवनामानि च मध्यकालस्य उत्तमानि उदाहरणानि ।

महाकाव्यानि[सम्पादयतु]

रामायणं महाभारतं च भारतस्य अत्यन्तं प्राचीने तथा अद्यापि जनप्रिये महाकाव्ये स्तः । एतयोः ग्रन्थयोः विविधाः आवृत्तयः थाय्लेण्ड्, मलेष्या, इण्डोनेष्या प्रभृतिषु देशेषु सन्ति । तेषु देशेषु रामायणं महाभारतं च आग्नेय-एष्याराष्ट्राणां महाकाव्ये इत्येव वर्णिते स्तः । एताभ्यां महाकाव्याभ्यां सहैव तमिळुभाषायाः “शिलप्पदिगारं, मणिमेगलै, सिवकचिन्तामणि, तिरुटक्कतेवर्, कुन्दलकेसि इति पञ्च महाकाव्यानि अपि सन्ति ।

यद्यपि रामायणमहाभारतविषये स्थानीयभाषाभिः लिखितः बह्व्यः कृतयः सन्ति तथापि ताः महाकाव्यत्वेन न परिगण्यन्ते । उदाहरणार्थं – तमिळुभाषायाः “कम्बरामायणम्”, कन्नडस्य आदिकविना पम्पेन रचितं “पम्पभारतं”, कुमारवाल्मीकिना लिखितं “तोरवे रामायणं”, कुमारव्यासेन रचितं “कर्नाटभारतकथामञ्जरी”, हिन्दीभाषायाः “रामचरितमानसं”, मलयालभाषायाः “अध्यात्मरामायणम्” इत्यादयः ।

प्रदर्शककलाः[सम्पादयतु]

सङ्गीतम्[सम्पादयतु]

भारते बहुविधानि सङ्गीतप्रकाराणि सन्ति । जानपदसङ्गीतं, धार्मिकसङ्गीतं, सुगमसङ्गीतं, शास्त्रीयसङ्गीतं, पाप्-सङ्गीतम् इत्यादीनि । सामवेदः भारतीयपरम्परयाः प्राचीनतमं सङ्गीतम् । श्रौतयज्ञादिषु सामवेदस्य मन्त्राः सङ्गीतक्रमेण गीयन्ते । भारतस्य शास्त्रीयसङ्गीतस्य उपरि हिन्दुग्रन्थानां प्रभावः महान् अस्ति । शास्त्रीयसङ्गीतं कर्नाटिक् तथा हिन्दुस्तानी इति द्विधा विभक्तम् अस्ति । भारतीयसङ्गीतस्य सहस्रशः वर्षाणाम् इतिहासः अस्ति । दासश्रेष्ठः पुरन्दरदासः कर्नाटिकसङ्गीतस्य पितामहः इति उच्यते । पुरन्दरदासेन “पुरन्दरविठल” इति अङ्कितनाम्ना ४,७५,००० कीर्तनानि रचितानि सन्ति इति विश्वासः । किन्तु इदानीं वयं केवलं १००० कीर्तनानि केवलं प्राप्तवन्तः स्मः ।

नृत्यम्[सम्पादयतु]

भारतीये नृत्यप्रकारे अपि जानपदं, शास्त्रीयं चेति विधद्वयम् अस्ति । पञ्जाबस्य भाङ्ग्रा, अस्सामस्य बिहु, जार्खण्डस्य तथा ओरिस्सायाः छौ, राजस्थानस्य घूमर्, गुजरातस्य दाण्डिया, गर्बा च, कर्णाटकस्य यक्षगानं, महाराष्ट्रस्य लावणी, गोवायाः देखनी इत्येतानिप्रसिद्धानि जानपदनृत्यप्रकारकाणि ।


निरूपणतन्त्रयुक्तान्, पौराणिकांशयुक्तान् च भारतस्य अष्टविधान् नृत्यप्रभेदान् “राष्ट्रिय-सङ्गीत-नृत्य-नाटक-अकादमी” शास्त्रीयनृत्यत्वेन परिगणितवती अस्ति । ते च प्रभेदाः – तमिळुनाडुराज्यस्य भरतनाट्यम्, उत्तरप्रदेशस्य कथक्, केरळस्य कथाकेळी, मोहिनीआट्टं च, आन्ध्रप्रदेशस्य कूचुपुडि, मणिपुरस्य मणिपुरि, ओडिशायाः ओडिस्सि, अस्सामराज्यस्य सात्रिया च ।


विश्वस्य अत्यन्तं पुरातनयुद्धकला अस्ति कलारियप्पट्टु अथवा कलारि । “मल्लपुराणम्” इति कृतौ तस्याः युद्धकलायाः विषयः पठ्यरूपेण संरक्षितः अस्ति । बौद्धधर्मः यथा भारततः चीनादेशं प्रति प्रसृतः तथैव कलारियुद्धकला अपि भारततः चीनादेशं प्रति गत्वा कालान्तरे सः नृत्यप्रभेदः “कुङ्ग्-पू” इति युद्धकलारूपेण विश्वप्रसिद्धः सञ्जातः । “गट्क”, “पेहल्वानि”, मल्लयुद्धम्” इत्यादीनि अनन्तरकाले उद्भूताः युद्धकलाः । एताः विहाय अपि बह्व्यः सुप्रसिद्धाः युद्धकलाः सन्ति ।

नाटकं तथा रङ्गभूमिः[सम्पादयतु]

नृत्यस्य तथा सङ्गीतस्य इव भारतीयस्य नाटकस्य अपि सुदीर्घः इतिहासः अस्ति । भासस्य नाटकानि एव भारतस्य अत्यन्तं पुरातनानि नाटकानि । कालिदासस्य शाकुन्तलं, मेघदूतं च तदानीन्तनं सुप्रसिद्धं नाटकम् ।


माकिं २००० वर्षाणि यावत् पुरातनं केरलस्य कुटियाट्टं रङ्गकला इदानीमपि अस्तित्वे विद्यमाना अत्यन्तं पुरातनरङ्गकला । एषा रङ्गकला भरतमुनेः नाट्यशास्त्रम् एव पूर्णतया अनुसरति । भासस्य नाटकानि अनया रङ्गकलया प्रदर्शितानि सुप्रसिद्धानि नाटकानि । कालिदासस्य अभिज्ञानशाकुन्तलं, विक्रमोर्वशीयं, मालविकाग्निमित्रं च, हर्षस्य नागानन्दम् इत्यादीनि अपि नाटकानि कुटियाट्टं-रङ्गकलामाध्यमेन सुचारुतया प्रदर्शितानि ।

भारते सर्वत्र अपि प्रायः जानपदनाटकानि बहु जनप्रियाणि सन्ति । तेन सहैव ग्रामीणप्रदेशेषु पाञ्चालिकाभिः एव नट्यमाना “........” इत्याख्या रङ्गकला अस्ति । एषा रङ्गकला द्वितीयशतके एव आसीत् । एषा अपि अत्यन्तं प्राचीना रङ्गकला अस्ति । पाणिनीयकृतेः पतञ्जलिभाष्ये अपि अस्याः रङ्गकलायाः उल्लेखः अस्ति ।

दृश्यकलाः[सम्पादयतु]

चित्रकला[सम्पादयतु]

अजन्तागुहासु विद्यमानं जातककथायाः चित्रम्

भारतीयचित्रकलायाः प्रथमं पदचिह्नं प्रगैतिहासिककाले शिलानाम् उपरि उत्कीर्णेषु चित्रेषु दृश्यते । “पेट्रोग्लिप्” इति उच्यमानानि शिलासु उत्कीर्णानि चित्राणि “भीमबेट्क” इति स्थाने प्राप्तानि सन्ति । तेषु कानिचित् शिलायुगीयानि । गृहस्य प्रवेशद्वारं तथा अतिथिप्रकोष्ठस्य भित्तयः च बहुविधैः चित्रैः अलङ्करणं तदानीन्तनकाले सामान्यं गृहकार्यम् इव आसीत् इति वदति “डराग्” इत्यस्य पठ्यसिद्धान्तः, उपाख्यानविचारः च । अजन्ता, बाग्, एल्लोरा, सिट्टनवासल् इत्यादिषु गुहासु, देवालयेषु च लिखितानि चित्राणि तदानीन्तलजनानां प्रकृतिप्रीतिं प्रदर्शयन्ति । भारतस्य आरम्भिकमध्यकालीना कला हिन्दु-बौद्ध-जैनजनैः अभिव्यक्ता । इदानीमपि भारते प्रतिदिनं गृहात् बहिः रङ्गवल्लीलेखनम् अस्ति एव । राजा रविवर्मा भारतस्य मध्यकालीनः श्रेष्ठः चित्रकारः । मधुबनिचित्रकला, मैसूरुचित्रकला, रजपूतचित्रकला, तञ्जावूरुचित्रकला, मोघलचित्रकला – इत्यादयः भारतीयचित्रकलायाः केचन पभेदाः । महाराष्ट्रस्य मुम्बयीनगरे विधमानं जहाङ्गीर-आर्ट-ग्यालरी, कर्णाटकस्य मैसूरुनगरे विद्यमानः प्रासादः च भारतीयचित्रकलायाः उत्कृष्टानि उदाहरणानि । नन्दलालबोसः, एस्.एच्.राझा, गीतावधेरी, जैमिनीराय्, अतुलदोडिया, बोसकृष्णमाचारी देवज्योती रे, शिबुनटेशन् बि वेङ्कटेशप्पः इत्यादयः भारतीयाः आधुनिकचित्रकाराः ।


शिल्पकला[सम्पादयतु]

एल्लोरागुहायां विद्यमानं बुद्धशिल्पम्
राजस्थाने विद्यमानं महिलाशिल्पम्

भारते शिल्पकला सिन्धुखातसंस्कृतिकाले एव आसीत् । तत्र प्राप्तानि शिलाशिल्पानि, कांस्यशिल्पानि च एतम् अंशं दृढीकुर्वन्ति । अतः शिल्पकला भारतस्य अत्यन्तं प्राचीनकलासु अन्यतमा । हिन्दु-बौद्ध-जैन-धर्माणां वृद्ध्यनुगुणं भारते अत्यन्तं कठिना कांस्यशिल्पकला अपि संवृद्धा । अजन्ता-एल्लोरा-देवालयाः महाशिलाभिः एव निर्मिताः । तासां शिलानाम् उपरि एव चित्राणि उत्कीर्णानि । तेषां देवालयानां निर्माणार्थम् इष्टिका वा वज्रचूर्णं वा न उपयुक्तम् एव ।

गुप्तानां काले ( ४ शतकतः ६ शतकाभ्यन्तरे) शिल्पकला अत्यन्तम् उन्नतस्थितिं प्राप्नोत् । अस्य कालस्य शिल्पानि अत्यन्तं सूक्ष्मविन्यासयुक्तानि, कलानिपुणनि च आसन् । एषा शैली तथा च भारतस्य अन्यभागस्य शिल्पकलाशैल्यः च भारतस्य शास्त्रीयकलायाः उदयस्य कारणीभूताः अभवन् । आग्नेय-एष्या, केन्द्रीय-एष्या, पूर्व-एष्याप्रदेशेषु विकसिता शिल्पकला अपि बौद्ध-हिन्दुशिल्पकलायै अद्भुतं योगदानम् अयच्छत् ।



वास्तुशिल्पकला[सम्पादयतु]

राजस्थाने विद्यमानः उम्मैदभवनप्रासादः

भारतीयायाः वास्तुशिल्पकलायाः देशस्य कालस्य च बहुमुखाभिव्यक्तिः अस्ति । तथैव निरन्तरं नूतनान् अंशान् आत्मसात् कुर्वती एव वर्धिता । अस्य परिणामरूपेण अत्यद्भुताः वास्तुकृतयः निर्मिताः अभवन् । भारतीयवास्तुशिल्पकलायाः मूलं सिन्धुखातसंस्कृतिः (२६००-१९००) । तदवधौ निर्मितानि सुसज्जितानि नगराणि गृहाणि च अस्य उदाहरणरूपेण सन्ति । तेषां निर्माणे धर्मस्य वा प्रभुत्वस्य वा पात्रं न दृश्यते । मौर्यशासनकाले, गुप्तसाम्राज्यकाले च अजन्ता, एल्लोरा, साञ्चीस्तूपसदृशाणि बहूनि बौद्धवास्तुसङ्कीर्णानि निर्मितानि अभवन् । अनन्तरं दक्षिणभारते अपि बहवः देवालयाः निर्मिताः । ते च कर्णाटकस्य बेलूरुनगरे विद्यमानः चेन्नकेशवदेवालयः, हळेबीडुनगरे विद्यमानं होय्सलेश्वरदेवालयः, सोमनाथपुरे विद्यमानः केशवदेवालयः, तञ्जावूरुनगरे विद्यमानः बृहदेश्वरदेवालयः, कोनार्कनगरे विद्यमानः सूर्यदेवालयः, श्रीरङ्गे विद्यमानः श्रीरङ्गनाथस्वामीदेवालयः, भट्टिप्रोलुनगरे विद्यमानः बुद्धस्तूपः इत्यादयः ।


भारतस्य वास्तुशास्त्रस्य पारम्परिकशैली “फेङ्ग् शु” शैल्याः भारतीयं रूपम् । एतया एव शैल्या भारते तदानीन्तनकाले नगरगोजना कृता दृश्यते । का शैली प्रथमा, का च कां शैलीम् अनुसृता इति इदानीमपि अस्पष्टम् अस्ति । “फेङ्ग् शु” शैली समग्रे विश्वे सर्वत्र उपयुज्यते । यद्यपि वास्तुकलायाः फेङ्ग् शुशैल्याः च साम्यता अस्ति तथापि द्वे अपि शैल्यौ भिन्ने एव । वास्तुकला गृहे शक्तिसञ्चारस्य समन्वयं करोति । गृहे कानि कानि वस्तूनि कुत्र कुत्र भवेयुः, के च प्रकोष्ठाः कुत्र भवेयुः इति वदति वास्तुशास्त्रम् । फेङ्ग् शुशैली एतं विचारं न वदति ।

बौद्धदेवालयः


कालान्तरे पश्चिमस्य इस्लामिक्-शैली अपि भारतस्य वास्तुकलायाम् अन्तर्भूता । अनेन नूतनस्य सम्प्रदायस्य उदयः अभवत् । फतेपुर् सिक्रि, ताज् महल्, गोल् गुम्बज़, कुतुब् मिनार्, देहल्यां विद्यमानं रक्तवर्णस्य दुर्गम् इत्यादीनि अस्याः शैल्याः उदाहरणानि । तदनन्तरं ब्रिटिशजनानां शासनकाले इण्डोसार्सेनिक्, युरोपियन् गोथिक् शैल्यौ अपि भारतस्य वास्तुकलायाम् अन्तर्भूतम् । विक्टोरिया मेमोरियल् अथवा विक्टोरिया टिर्मिनल् अस्य उत्तमम् अदाहरणम् ।


एष्याखण्डस्य बहुषु देशेषु बौद्धधर्म: व्यापकरूपेण प्रसृतः इति कारणात् तत्र सर्वत्र भारतस्य वास्तुकला अपि प्रसृता अभवत् । देवालयस्य पुरतः विद्यमानः उन्नतः भागः – स्तूपः, देवालयस्य उपरि विद्यमानः उन्नतः भागः – शिखरम्, गोपुरम्, द्वारम् अथवा तोरणम् इत्यादिकं सर्वम् अपि भारतीयवास्तुकलायाः एव उदाहरणम् । मुम्बईनगरे विद्यमानं “नारिमन् पाइण्ट्” आर्ट्-डेको-शैल्याः उदाहरणम् ।


विहारः तथा क्रीडा[सम्पादयतु]

ओणं पर्वावसरे पम्बानद्याम् आयोजिता सर्पनौकाचालनस्पर्धा
१९२८तमस्य वर्षस्य भारतीयः हाकीगणः

भारते बहुविधाः क्रीडाः विकसिताः सन्ति । आधुनिके काले “मार्षल् आर्ट्” इति यत् उच्यते तदपि भारतस्य पुरातनक्रीडासु अन्ततमा क्रीडा । युद्धकलाः सर्वाः अपि भारते एव जन्म प्राप्य विदेशेषु प्रसृताः । ताः एव युद्धकलाः इदानीं बहुविधानि परिवर्तनानि प्राप्य तत्र प्रसिद्धाः सन्ति । भारतस्य ग्रामप्रदेशेषु याः क्रीडाः क्रीड्यन्ते ताः एव भारतस्य साम्प्रदायिकक्रीडाः । ब्रिटिशानां शासनकाले परिचिताः यष्टिकन्दुकक्रीडा, पादकन्दुकक्रीडा, पट्टिकाकन्दुकक्रीडा च इदानीं भारते जनप्रियाः सन्ति ।

हाकीक्रीडा भारतस्य राष्ट्रियक्रीडा अस्ति । क्रिकेट्-क्रीडा न केवलं भारते अपि तु समग्रे उपखण्डे एव प्रसिद्धा अस्ति । अद्य क्रिकेट् मनरञ्जनमाध्यमत्वेन, वृत्तिरूपेण चापि प्रसिद्धा अस्ति । फोलो-क्रीडा अपि भारते जनप्रिया जाता अस्ति । भारते पुरातनकालतः अपि प्रसिद्धाः सन्ति काश्चन क्रीडाः याः अद्यापि क्रीड्यन्ते । उदाहरणार्थं – द्यूतक्रीडा (अक्षक्रीडा), अश्वचालनं, भारोन्नयनं, मृगया, तरणं, धावनकला, मल्लयुद्धं, रथचालनं, धनुर्बाणस्पर्धा इत्यादयः । चतुरङ्गक्रीडा (चेस्) भारते प्राचीनकालादारभ्य अपि अस्ति । अस्याः जन्म अभवत् भारते एव । एताः विहाय अपि भारते इस्पीट्, केरं, काष्ठपीठफलककन्दुकक्रीडा, करण्डककन्दुकक्रीडा , करकन्दुकक्रीडा, बैडमिण्टन्, विविधयष्टिकन्दुकक्रीडा अपि इदानीं क्रीड्यन्ते ।

जनप्रियाः माध्यमाः[सम्पादयतु]

दूरदर्शनम्[सम्पादयतु]

किञ्चित् दूरदर्शनम्

१९५९तमे वर्षे देहल्यां शिक्षणोद्देशस्य प्रायोगोकप्रसारार्थं प्रथमवारं भारते दूरदर्शनस्य आरम्भः अभवत् । भारतीया दूरदर्शनवाहिनी १९७०तमे दशके आरब्धा । १९८२तमे वर्षे पवृत्तम् एषियन् गेम्स् भारतस्य दूरदर्शनस्य प्रसारे महाक्रान्तिम् एव अकरोत् । तस्मिन्नेव वर्षे दूरदर्शनस्य प्रसारः वर्णयुतः सञ्जातः । रामायणं, महाभारतं च तदवधौ प्रसारिताः जनप्रियाः कार्यक्रमाः । तावत्पर्यन्तं दूरदर्शनस्य एका एव वाहिनी कार्यं करोति स्म । तदनन्तरम् अपरा DD2 इति वाहिनी आरब्धा । तस्यां वाहिन्यां प्रादेशिकाः कार्यक्रमाः अपि प्रसार्यन्ते स्म । १९९१तमे वर्षे सर्वकारः दूरदर्शनक्षेत्रं केबल् टेलिविषन् प्रसारार्थं मुक्तम् अकरोत् । तदनन्तरं वाहिनीनां संख्या अधिका जाता । तासु वाहिनीषु प्रसार्यमाणाः कुटुम्बकेन्द्रिताः धारावाहिन्यः बहु जनप्रियाः सन्ति ।

भारतीयचलच्चित्रम्


चलनचित्रम्[सम्पादयतु]

भारते मुम्बयीमूलीयं हिन्दी-चित्रोद्यमं बालिवुड् इत्येव प्रसिद्धम् अस्ति । बङ्गाली, कन्नड, मलयाली, मराठी, तमिल्, तेलुगु चित्रोद्यमानि अपि भारतीयं चित्रोद्यमं वैविद्यमयम् अकुर्वन् । चलनचित्राणां निर्माणस्य संख्यानुगुणं, विक्रियमाणानां चिटिकानां संख्यानुगुणं च भारतीयं चित्रोद्यमं विश्वे एव अत्यधिकानां चित्राणां निर्माणस्य उद्यमम् इति प्रसिद्धम् अस्ति । भारतीयं चित्रोद्यमं विश्वप्रसिद्धान् निदेशकान्, निर्मापकान् च परिचाययत् । तेषु प्रसिद्धाः सत्यजित् रे, रित्विक् घटक्, गुरुदत्, के. विश्वनाथः, अदूर् गोपालकृष्णन्, गिरीशकासरवळ्ळि, शेखरकपूर्, हृषीकेशमुखर्जी, गिरीशकार्नाड्, जि.वि.अय्यर्, शङ्करनाग् इत्यादयः ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=भारतीयसंस्कृतिः&oldid=271022" इत्यस्माद् पुनः प्राप्तिः