भारतीयसांख्यिकसंस्था
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
भारतीयसांख्यिकसंस्था (Indian Statistical Institute) एषा सार्वजनिका संशोधनसंस्था तथा विश्वविद्यालयः च अस्ति । अस्याः संस्थापकः प्रशान्तचन्द्रमहलनोबिस् अस्ति । १९३१ तमे वर्षे अस्याः आरम्भः अभवत् । एषा सांख्यिकसंस्थासु प्राचीनतमा अस्ति । प्रथमतः कोलकताविश्वविद्यालयेन सम्बद्धा आसीत् । १९५९ तमे वर्षे एषा राष्ट्रस्य प्रमुखसंस्थारूपेण उद्घोषिता अभवत् । अस्याः अङ्गसंस्थाः देहल्यां बेङ्गळूरुनगरे अपि स्तः । कोलकता देहली बेङ्गळूरु एतेषु स्थानेषु अध्यापने अवधानं दीयते । अन्यत्र हैदराबाद्नगरे मन्त्रणे संशोधने च कार्यं प्रचलति । सांख्यिकशास्त्रे, गणिते, सङ्गणकविज्ञाने, अर्थशास्त्रे, प्रबन्धविषये, तन्त्रांशाध्ययने च अध्ययनं अध्यापनं च भवति । अत्र स्नातकपूर्वस्तरे स्नातकोत्तरस्तरे च अध्यापनं प्रचलति । अस्याः ध्येयवाक्यमस्ति – भिन्नेष्वैक्यस्य दर्शनम्
बाह्यानुबन्धः [सम्पादयतु]
Campus links [सम्पादयतु]
- Kolkata (location: 22°38′56″N 88°22′37″E / 22.648810°N 88.377058°E)
- Delhi (location: 28°32′22″N 77°11′08″E / 28.539436°N 77.185494°E)
- Bangalore (location: 12°55′57″N 77°30′12″E / 12.932468°N 77.503196°E)
- Chennai
- Pune
- Tezpur