भीखाइजी कामा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Madam Bhikaiji Cama
मेडम भीखाईजी कामा

भारतमातुः प्रियपुत्री
जननम् १/१०/१८६१
मुम्बई-महानगरं, महाराष्ट्रराज्यम्
(ब्रिटिशकालीने बॉम्बे-राज्ये)
मरणम् १६/८/१९३६ (७५ वयसि)
मुम्बई-महानगरं, महाराष्ट्रराज्यम्
(ब्रिटिशकालीने बॉम्बे-राज्ये)
प्रख्यातिः वन्दे मातरम्-ध्वजस्य रचना,
लेखिका
पतिः/पत्नी रुस्तम कामा

मेडम भीखाईजी कामा (मराठी: भिकाईजी कामा, आङ्ग्ल: Madam Bhikaiji Cama) भारतीयस्वतन्त्रतायाः मुख्यक्रान्तिकारिणी आसीत् । तस्याः स्मरणं भारतीयराष्ट्रध्वजस्य निर्माणार्थं वयं कुर्मः । भारतीयराष्ट्रध्वजस्य विषये गहनतया विचिन्त्य 'वन्दे मातरम्'-ध्वजस्य सा रचनाम् अकरोत् । भारतमातुः सेवायै, स्वतन्त्रतायै च सा पञ्चत्रिंशत् (३५) वर्षाणि देशात् बहिः निवासम् अकरोत् । आङ्ग्लानां विरोधं कृतवत्यै तस्यै आङ्ग्लाः देशनिर्वासनस्य (Exile) दण्डम् अयच्छन् । परन्तु भिन्नेषु देशेषु भ्रमन्ती सा अविरतं देशस्वतन्त्रतायै कार्यम् अकरोत् ।

जन्म, परिवारश्च[सम्पादयतु]

१८६१ तमस्य वर्षस्य 'सितम्बर'-मासस्य चतुर्विंशतितमे (२४/९/१९६१) दिनाङ्के महाराष्ट्रराज्यस्य मुम्बई-महानगरे (ब्रिटिशकालीने बोम्बे-राज्ये) भीखाईजी इत्यस्याः जन्म अभवत् । तस्याः पितुः नाम सोराबजी आसीत् । सोराबजी मुम्बई-महानगरस्य प्रतिष्ठितः, धनवान् व्यक्तिः आस्ति । देशं प्रति अधिका श्रद्धा तस्मिन् नासीत् । सः तु आङ्ग्लजनान् स्वादर्शत्वेन पश्यति स्म । अतः सः पाश्चात्यसंस्कृत्यानुगुणं स्वजीवनं यापयति स्म । तस्य नव सन्तानाः आसन् । तेषु भीखाईजी अन्यतमा । गृहे सर्वे भीखाईजी इत्येनां ‘मुन्नी’ इति लालितक(pet)नाम्ना आह्वयन्ति स्म ।

बाल्यं, शिक्षणञ्च[सम्पादयतु]

यतः सोरबजी पाश्चात्यसंस्कृत्याः अनुगामी आसीत्, अतः तेन स्वपुत्र्याः शिक्षणव्यवस्था ‘अलेक्ज़ाण्ड्रा’-कन्याविद्यालये कृता । तस्य विद्यालयस्य सञ्चालनं 'क्रिस्तिमिशनरी'-द्वारा भवति स्म । स्वपुत्री स्वसदृशा पाश्चात्यसंस्कृत्याः अनुगामिनी स्यात् इति तस्योद्दशः आसीत् । परन्तु भारतमातुः सेवायै जन्मधृता भीखाईजी परिवारस्य इच्छाविरुद्धं भारतस्वतन्त्रतायै स्वयोगदानम् अयच्छत् ।

१८६१ तमे वर्षे यदा भीखाईजी इत्यस्याः जन्म अभवत्, तदा भारतस्वतन्त्रतायाः प्रप्रथमान्दोलनस्य प्रभावः सर्वत्र आसीत्, यतो हि १८५७ तमस्य वर्षस्य विप्लवस्य अनन्तरं चत्वारि वर्षाणि एव व्यतीतानि आसन् । सर्वत्र तस्य विप्लवस्य विषये चर्चाः भवन्ति स्म । मङ्गल पाण्डे, तात्या तोपे, राज्ञी लक्ष्मीबाई इत्यादीनां बलिदानस्य विषये सा बाल्यकालात् शृणोति स्म । अतः तस्यां देशं प्रति संवेदनायाः भावः उद्भूतः । सा ध्यानं दत्वा क्रान्तिकारिणां जीवनविषये शृणोति स्म । आङ्ग्लाः भारतीयानां कथम् अपमानं कुर्वन्तः सन्ति ? ते कथं देशं स्वाधीनं कुर्वन्तः सन्ति ? इत्यादयः विषयाः तस्याः सम्मुखं हस्तामलकवत् आसन् । आङ्ग्लानाम् अत्याचारात् देशस्य मुक्तिः भवेत् इति तस्याः बाल्यकालादेव लक्ष्यम् आसीत् ।

भीखाईजी अध्ययने चतुरा, श्रेष्ठा च आसीत् । सा नित्यं गृहकार्यं कृत्वैव भोजनं करोति स्म । सद्ग्रन्थानां सेवनं, सन्मित्रैः सह सम्बन्धः इत्यादयः तस्याः मुख्यगुणाः आसन् । भारतीयभाषाणाम् अध्ययनेन सह वैदेशिकभाषाणाम् अध्ययने अपि तस्याः रुचिः आसीत् । विद्यार्थिकालादेव तस्यां देशसेवायाः भावना दृढा आसीत् । यद्यपि तस्याः विद्यालये क्रान्तिकारिणां विषये शिक्षकाः न पाठयन्ति स्म, तथापि सा इतराध्ययनमाध्यमेन क्रान्तिकारिणां वषये पठति स्म ।

भारतस्वतन्त्रतायां योगदानं, विवाहश्च[सम्पादयतु]

१८८५ तमे वर्षे ‘भारतीय-राष्ट्रिय-कोङ्ग्रेस’-पक्षस्य यदा स्थापना अभवत्, तदा भीखाईजी चतुर्विंशति(२४)वर्षीया आसीत् । देशसेवायै रतेन अनेन पक्षेन सह मिलित्वा सा भारतस्वतन्त्रतायै युद्धं प्रारभत । भारतीयमहिलानां सङ्गटनं तस्याः सर्वप्रथमं दायित्वम् आसीत् । ग्रामं ग्रामम् अटन्ती देशस्वतन्त्रतायै स्वयोगदानाय सा महिलाः निवेदयति स्म । सभा-पदयात्रा-प्रवचनमाध्यमेन सा स्वकार्यं बहुपरिश्रमेण करोति स्म । परन्तु तस्याः पित्रे भीखाईजी इत्यस्याः देशसेवायाः कार्यं न रोचते स्म । सः आङ्ग्लजनेभ्यः भयभीतः आसीत् । तस्य पुत्र्याः देशस्वतन्त्रतायाः कार्येण आङ्ग्लाः तस्मात् रुष्टाः न भवेयुः इति तस्य चिन्तनम् आसन् । अतः आङ्ग्लविरोधं त्यजतु इति सः पौनःपुन्येन स्वपुत्रीम् अबोधयत् । परन्तु देशसेवायै दृढमना भीखाईजी सर्वदा पितुः अयोग्यायाः आज्ञायाः उल्लङ्घनं करोति स्म । ततः पिता अन्तिमशस्त्रत्वेन भीखाईजी इत्यस्याः विवाहस्य आयोजनम् अकरोत्, येन तस्याः विचाराणां दमनं भवेत् । गृहस्थायाः दायित्वे आपतिते सति सा अन्यानि कार्याणि न करिष्यति इति तस्य चिन्तनम् आसीत् । अतः तस्याः विवाहः रुस्तम कामा नामकेन युवकेन सह अकारयत् सः । रुस्तम आङ्ग्लनिष्ठः, पाश्चात्यसंस्कृत्याः अनुगामी च आसीत् । तस्य दृष्ट्या आङ्ग्लाः सर्वश्रेष्ठजनाः, सर्वश्रेष्ठशासकाश्च आसन् । परन्तु भीखाईजी इत्यस्याः दृष्ट्याम् आङ्ग्लाः पाखण्डिनः, शोषकाश्च आसन् । अतः तयोः गृहस्थजीवनं कलहपीडितम् अभवत् । परन्तु सा देशसेवायाः स्वभगीरथं कार्यं नात्यजत् ।

तस्मिन् काले मुम्बई-महानगरे 'प्लेग'-रोगस्य ताण्डवः आसीत् । देशवासिनः बहुपीडया मरन्तः आसन् । रोगभयेन पिता पुत्रस्य, भगिनी भ्रातुः च समीपं न गच्छति स्म । एकः अपरस्य विषये न विचिन्त्य स्वस्वास्थ्यस्यैव चिन्तां करोति स्म । परिवार-समाज-मित्रादीनां व्यवस्था ईश्वरेण न कृता इत्येव प्रतीयते स्म । जनाः जलबुद्बुदवत् मरन्तः आसन् । सर्वे बहुकष्टम् अनुभवन्तः पीडामुक्त्यै प्रार्थनां कुर्वन्ति स्म । एतादृश्यां विकटपरिस्थित्यां स्वप्राणस्य विषये अविचार्य सा रोगिणां सेवाकार्ये आत्मानम् अयोजयत् । रोगिसेवाकार्यसमये अनेकैः स्वतन्त्रताक्रान्तिकारिभिः सह तस्याः सम्पर्कः अभवत् । बहुदिनानि यावत् रोगिणाम् अविरतं सेवाम् अकरोत् सा । परन्तु अन्येषां सेवां कर्वन्ती सा स्वयमेव 'प्लेग'-रोगेण ग्रस्ता अभवत् । समये औषधसेवनेन तस्याः रक्षणम् अभवत् । 'प्लेग'-रोगस्य अतिमारकत्वात् तस्यां पूर्ववत् स्फूर्तिः नासीत् । "इतोऽपि रोगस्य कारणानि तव शरीरे विद्यन्ते" इत्युक्त्वा तस्याः पतिः तां नीत्वा विदेशम् अगच्छत् । भारतात् यदि भीखाईजी दूरं भविष्यति, तर्हि सा स्वतः राजकीयप्रवृतेः दूरीभविष्यति इति तस्य चिन्तनम् आसीत् ।

१९०५ तमे वर्षे इङ्ग्लैण्ड-देशे रुस्तम तस्याः शल्यक्रियाम् अकारयत् । तत एव सा स्वस्था अभवत् । परन्तु देशात् दूरं स्थिता अपि सा देशसेवाकार्यं नात्यजत् । सा स्वतन्त्रक्रान्तिकारिणः दादाभाई नवरोजी इत्यस्य निजसचिवत्वेन कार्यं प्रारभत । कालान्तरे सा पुनः भारतं गन्तुम् उद्युक्ता । परन्तु क्रान्तिकारी श्यामाजी कृष्णवर्मा भीखाईजी इत्येनाम् अबोधयत्, “भारतगमनापेक्षया अत्र स्थित्वा भारतस्वतन्त्रतायै अधिकवेगेन कार्यं कर्तुं शक्ष्यति” इति । भारतमातुः स्वतन्त्रतायै सा भारतात् दूरं स्थित्वा स्वकार्याणि प्रारभत । ततः श्यामाजी इत्यनेन सह अपि भीखाईजी कार्यं प्रारभत । एकदा यदा श्यामाजी इत्येनन सह सा एकां सभाम् अगच्छत्, तदा सा आङ्ग्लविरुद्धम् अत्युग्रं भाषणम् अकरोत् । तदारभ्य आङ्ग्लसर्वकारस्य दृष्टिपथि भीखाईजी कामा शत्रुः आसीत् । ते वारं वारं तस्याः विरुद्धम् अभियोगादि कुर्वन्ति स्म । परन्तु भीखाईजी कामा आङ्ग्लानां कूटतायाः निर्भीकतया प्रत्युत्तरं ददाति स्म ।

१९०५ तमे वर्षे भारते बङ्गप्रदेशस्य आन्दोलनं चलदासीत् । तस्य आन्दोलनस्य प्रत्याघाताः विदेशपर्यन्तं गताः । विदेशे निवसन्तः भारतीयक्रान्तिकारिणः लोर्ड कर्जन् इत्यस्य नीतेः निन्दाम् अकुर्वन् । तेषु क्रान्तिकारिषु भीखाईजी अन्यतमा आसीत् । ततः भीखाईजी इत्यस्याः अथकप्रयासेन दादाभाई ब्रिटन्-संसदि विजयं प्रापत् । तेन क्रुद्धाः आङ्ग्लाः भीखाईजी इत्यस्याः उपरि हत्यायाः आरोपम् अकुर्वन् । परन्तु आङ्ग्लाः किमपि कुर्युः, तस्मात् पूर्वमेव भीखाईजी इङ्ग्लैण्ड-देशं त्यक्त्वा फ्रांस्-देशम् अगच्छत् ।

पेरिस-महानगरे स्थित्वा भीखाईजी 'बोर्डिंग हाउस'-इत्यस्य प्रारम्भम् अकरोत्, येन आजीविका उद्भवेत्, क्रान्तिकारिणां कृते आवासव्यवस्था अपि स्यात् । तस्याः गृहं क्रान्तिकारिणाम् आश्रयस्थानम् आसीत् । तत्र श्यामजी कृष्णवर्मा, सरदारसिंह राणा, लाला हरदयाळ, सावरकर, वीरेन्द्रनाथ चट्टोपाध्याय, सेनापति बापट इत्यादयः क्रान्तिकारिणः निवसन्ति स्म । तस्याः गृहे एव आङ्ग्लविरोधियोजनानां चर्चाः भवन्ति स्म ।

भीखाईजी-द्वारा चालितेन आङ्ग्लविरोधिकार्येण आङ्ग्लाधिकारिणां निद्रा एव नष्टा । अतः तैः भारतं प्रत्यागमनाय भीखाईजी इत्येषा आदिष्टा । परन्तु आङ्ग्लानाम् आदेशस्य उपहासं कुर्वन्ती भीखाईजी तेषाम् आदेशस्य उल्लङ्घनम् अकरोत् । भीखाईजी इत्यस्याः उपरि स्वेषां नियन्त्रणं नास्ति इति पश्यन्तः आङ्ग्लाः भारते स्थिताम् एकलक्षरूप्यकाणां भीखाईजी इत्यस्याः सम्पत्तिं स्वाधीनाम् अकुर्वन् । परन्तु अनेन भीखाईजी इत्यस्याः प्रसिद्धिः इतोऽपि अवर्धत । ततः भीखाईजी वन्दे मातरम्-नामकस्य क्रान्तिकारिसामयिकस्य आरम्भम् अकरोत् । तस्य समायिकस्य सम्पादन-दायित्वं लाला हरदयाळ इत्यस्य आसीत् ।

१९०८ तमे वर्षे जर्मनी-देशस्य स्टुट्गार्ट्-नगरे अन्ताराष्ट्रिय-समाजवादि-सम्मेलनम् आसीत् । तस्मिन् सम्मेलने फ्रांस-समाजवादिनः भारतस्य प्रतिनिधित्वेन भीखाईजी इत्यस्यै आमन्त्रणम् अयच्छन् । भीखाईजी तस्मिन् सम्मेलने प्रप्रथमवारं भारतस्य प्रतीकं राष्ट्रध्वजं जगतः सम्मुखम् उपास्थायत् । सः राष्ट्रध्वजः वन्दे मातरम्-ध्वजत्वेन अद्यापि प्रसिद्धः अस्ति । वन्दे मातरम्-ध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः आसन् । तासु पट्टिकासु सर्वोपरि हरितवर्णीया, मध्ये पीतवर्णीया, अन्तिमे रक्तवर्णीया च पट्टिका आसीत् । हरितपट्टिकायाम् अष्टकमलचिह्नानि आसन् । पीतपट्टिकायाः मध्यभागे वन्दे मातरम् इति लिखितम् आसीत् । रक्तपट्टिकायां दक्षिणे सूर्यस्य, वामे चन्द्रस्य च चिह्नमासीत् ।

वन्देमातरम्-ध्वजधृता मेडम कामा

१९१४ तमे वर्षे यदा विश्वयुद्धम् अभवत्, तदा इङ्ग्लैण्ड-फ्रांस-देशौ मित्रे अभवताम् । इङ्ग्लैण्ड-सर्वकारस्य आदेशेन फ्रांस-सर्वकारेण भीखाईजी इत्यस्याः उपरि बहवः प्रतिबन्धाः आरोपिताः । प्रति सप्ताहे आरक्षकालयं (police station) गत्वा स्वोपस्थितेः प्रमाणं दातव्यम् इत्यादयः बहवः नवीननियमाः भीखाईजी इत्यस्याः उपरि आपतिताः । तेन तस्याः क्रान्तिकार्यं मन्दम् अभवत् । परन्तु युद्धे समाप्ते सति सर्वेऽपि प्रतिबन्धाः अपाकृताः फ्रांस-सर्वकारेण

प्रतिबन्धाः यदा अपाकृताः फ्रांस-सर्वकारेण, तदा भीखाईजी सप्तति(७०)वर्षीया आसीत् । तस्याः स्वास्थ्यमपि समीचीनं नासीत् । भारतमातुः सेवायै स्वजीवनस्य महत्वपूर्णानि वर्षाणि तया भारतात् बहिः यापितानि । परन्तु "मम प्राणत्यागः तु मम मातुः कुक्षौ (भारतमातुः कुक्षौ) एव भवेत्" इति तस्याः अन्तिमा इच्छा आसीत् । अतः सा भारतस्य ‘वायसराय’-इत्येनं पत्रम् अलिखत्, “पराधीने भारते न निवसामि इति प्रतिज्ञां कृतवती अहम् आजीवनं विदेशेषु अटनम् अकर्वम् । परन्तु मम मृत्युः निकटे अस्ति, अहं मम मातृभूमौ एव प्राणत्यागं कर्तुम् इच्छामि । अतः भारतप्रवेशे यः मयि प्रतिबन्धः अस्ति, तं भवान् अपाकरिष्यति किम् ?" एतादृशं प्रश्नात्मकं पत्रं भीखाईजी प्रेषितवती इति आङ्ग्लसर्वकारस्य विश्वासः एव नाभवत्, यतो हि भीखाईजी आङ्ग्लसर्वकारस्य अनुमतिं स्वीकुर्यात् इति तैः न चिन्तितम् आसीत् । ते भयभीताः अपि आसन् यत्, सा अत्र आगत्य सर्वकारविरोधिकार्याणि करिष्यति इति । “अहं राजकीयप्रवृत्तिं न करिष्यामि” इति निवेदनम् भीखाईजी इत्यस्याः आङ्ग्लसर्वकारेण स्वीकृतम् । ततः एव भारतप्रवेशाय अनुमतिः प्रदत्ता ।

मृत्युः[सम्पादयतु]

अन्तिदिनेषु मेडम कामा

१९३५ तमस्य वर्षस्य 'नवम्बर'-मासे भीखाईजी मुम्बई-महानगरं प्राप्तवती । तस्याः स्वास्थ्यम् एवावत् असमीचीनम् आसीत् यत्, परिवारजनाः तां साक्षात् चिकित्सालयम् एव अनयन् । अष्टमासाः सा औषधालये मौनस्थित्यां यापितवती । असह्यपीडायाः कारणेन तस्याः स्वास्थ्यं प्रतिदिनं असमीचीनम् एव भवति स्म । १९३६ तमस्य वर्षस्य 'अगस्त'-मासस्य षोडशे (१६/८/१९३६) दिनाङ्के भीखाईजी कामा देहत्यागम् अकरोत् ।

भारतमातुः सेवायै या महिला स्वस्य सर्वस्वम् अर्पणम् अकरोत्, तस्याः मृत्योः समाचारपत्रेषु अन्यत्र वा लघूल्लोखोऽपि नाभवत् (इति तत्कालीनेभ्यः समाचारपत्रेभ्यः ज्ञायते ।) । परन्तु स्वपिरवार-सुख-मातृभूमि-इत्यादीनां त्यागं कृत्वा पञ्चत्रिंशत् (३५) वर्षाणि यावत् या महिला देशसेवाम् अकरोत्, तस्याः बलिदानाय यावतीं कृतज्ञताम् अनुभवामः, तावत्यः अपि न्यूनाः एव ।





सम्बद्धाः लेखाः[सम्पादयतु]

राष्ट्रध्वजः

दादाभाई नवरोजि

वन्दे मातरम्

बाह्यानुबन्धाः[सम्पादयतु]

http://www.outlookindia.com/printarticle.aspx?277742

http://www.hindujagruti.org/articles/44_madam-cama.html

http://www.kamat.com/kalranga/itihas/cama.htm

http://www.iloveindia.com/indian-heroes/madam-cama.html

http://indiansbiography.hpage.co.in/madam-cama_72055200.html

http://freeindia.org/biographies/freedomfighters/madamecama/index.htm

http://www.vandemataram.com/biographies/patriots/bcama.htm

"http://sa.wikipedia.org/w/index.php?title=भीखाइजी_कामा&oldid=278256" इत्यस्माद् पुनः प्राप्तिः