भीमा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Bhima River
River
Country India
States Maharashtra, Karnataka, Andhra Pradesh
Tributaries
 - left Ghod, Sina, Kagini
 - right Bhama, Indrayani, Mula-Mutha, Nira
Source Bhimashankar
 - elevation फलकम्:Unit height
 - coordinates १९°४′१९″ उत्तरदिक् ७३°३२′९″ पूर्वदिक् / 19.07194°उत्तरदिक् 73.53583°पूर्वदिक् / १९.०७१९४; ७३.५३५८३
Mouth Krishna River
 - elevation फलकम्:Unit height
 - coordinates १६°२४′३६″ उत्तरदिक् ७७°१७′६″ पूर्वदिक् / 16.41000°उत्तरदिक् 77.28500°पूर्वदिक् / १६.४१०००; ७७.२८५००
Length ८६१ km (५३५ mi)
Basin ७०,६१४ km2 (२७,२६४ sq mi)
उत्तरार्धे दृश्यमानं भीमानदीपात्रम्.

महाराष्ट्रस्य पुणेपत्तनस्य समीपे भीमाशङ्करवनप्रदेशात् उद्भवति एषा नदी । महाराष्ट्रकर्णाटकयोः प्रवहति एषा नदी । कृष्णया मेलनात् पूर्वं ८६१ किलोमीटर् दूरं प्रवह्य्य रायचूरु-उपमण्डलस्य कुड्लु इति स्थाने कृष्णया सम्मिलति ।

उगमः सङ्गमः च[सम्पादयतु]

भीमानदी महाराष्ट्रस्य पुणेसमीपे भीमाशङ्कर-अरण्यप्रदेशे जायते । कर्णाटकराज्ये रायचुरुमण्डलस्य कडलूरुसमीपे आन्ध्रप्रदेशस्य सीमायाः समीपे भीमानदी कृष्णानद्या मिलति । कर्णाटके अस्य विस्तारः ३०० कि.मी यावत् ।

उपनद्यः[सम्पादयतु]

कर्णाटके अमरजा, मुल्लामरी, गण्डोरि, कागिना एवं बेण्णेतोरा एते भीमानद्याः उपनद्यः ।

जलबन्धः[सम्पादयतु]

गुल्बर्गामण्डले सोन्नग्रामस्य समीपे जलबन्धनिर्माणस्य योजना अस्ति । भीमानद्याः उपनद्योः तत्र तत्र जलबन्धाः निर्मिताः सन्ति ।

भीमातीरस्य प्रसिध्दानि यात्रास्थलानि[सम्पादयतु]

भीमानद्याः तीरस्थं पण्ढरपुरस्य विठलदेवस्थानम्

भीमानद्याः उगमस्थाने (भीमाशङ्करः) द्वादशज्योतिर्लिङ्गेषु अन्यतमः भीमशङ्करः भीमाशङ्करे अस्ति । अष्टविनायकेषु अन्यतमः विनायकदेवालयः सिध्दटेके अस्ति । सुप्रसिध्दस्य पण्ढरपुरस्य विठलदेवालयः सोलापुरमण्डले अस्ति । प्रसिद्धं दत्तपीठं गाणगापुरं भीमनद्याः उपनद्याः अमरजायाः तीरे वर्तते । प्रसिद्धशक्तिपीठेषु अन्यतमं शक्तिपीठं चन्द्रलापरमेश्वरीदेवस्थानं सन्नतिग्रामे अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=भीमा&oldid=367310" इत्यस्माद् प्रतिप्राप्तम्