भीमा
| Source | Bhimashankar |
|---|---|
| - coordinates | फलकम्:IndAbbr 19°4′19″N 73°32′9″E / 19.07194°N 73.53583°E |
| Mouth | Krishna_River |
| - coordinates | फलकम्:IndAbbr 16°24′36″N 77°17′6″E / 16.41°N 77.285°E |
महाराष्ट्रस्य पुणेपत्तनस्य समीपे भीमाशङ्करवनप्रदेशात् उद्भवति एषा नदी । महाराष्ट्रकर्णाटकयोः प्रवहति एषा नदी । कृष्णया मेलनात् पूर्वं ८६१ किलोमीटर् दूरं प्रवह्य्य रायचूरु-उपमण्डलस्य कुड्लु इति स्थाने कृष्णया सम्मिलति ।
अन्तर्विषयाः |
[सम्पादयतु] उगमः सङ्गमः च
भीमानदी महाराष्ट्रस्य पुणेसमीपे भीमाशङ्कर-अरण्यप्रदेशे जायते । कर्णाटकराज्ये रायचुरुमण्डलस्य कडलूरुसमीपे आन्ध्रप्रदेशस्य सीमायाः समीपे भीमानदी कृष्णानद्या मिलति । कर्णाटके अस्य विस्तारः ३०० कि.मी यावत् ।
[सम्पादयतु] उपनद्यः
कर्णाटके अमरजा, मुल्लामरी, गण्डोरि, कागिना एवं बेण्णेतोरा एते भीमानद्याः उपनद्यः ।
[सम्पादयतु] जलबन्धः
गुल्बर्गामण्डले सोन्नग्रामस्य समीपे जलबन्धनिर्माणस्य योजना अस्ति । भीमानद्याः उपनद्योः तत्र तत्र जलबन्धाः निर्मिताः सन्ति ।
[सम्पादयतु] भीमातीरस्य प्रसिध्दानि यात्रास्थलानि
भीमानद्याः उगमस्थाने (भीमाशङ्करः) द्वादशज्योतिर्लिङ्गेषु अन्यतमः भीमशङ्करः भीमाशङ्करे अस्ति । अष्टविनायकेषु अन्यतमः विनायकदेवालयः सिध्दटेके अस्ति । सुप्रसिध्दस्य पण्ढरपुरस्य विठलदेवालयः सोलापुरमण्डले अस्ति । प्रसिद्धं दत्तपीठं गाणगापुरं भीमनद्याः उपनद्याः अमरजायाः तीरे वर्तते । प्रसिद्धशक्तिपीठेषु अन्यतमं शक्तिपीठं चन्द्रलापरमेश्वरीदेवस्थानं सन्नतिग्रामे अस्ति ।