भुजङ्गासनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

योगासनेषु प्रधानं भवति भुजङ्गासनम् । अनेनासनेन कशेरुकापेशीनां - विशिष्य उदरस्थानां पेशीनां स्नायूनां च विकासः सिद्ध्यति । पुष्टिः, बलं च प्राप्यते । पृष्ठवेदना, स्कन्धवेदना, गलवेदना इत्यादीनां शमनार्थमपि आसनमिदं सहकरोति । पृष्ठभागे रक्तचंक्रमणस्य वेगः वर्धते । उरसः विकासः सम्भवति । मूत्राशयरोगाणां कासरोगस्य च शमनार्थमपि आसनमिदम् उपकरोति ।

सूर्यनमस्कारेषु दशमम् आसनमस्ति भुजङ्गासनम्

आसनकरणविधिः[सम्पादयतु]

  • उदरमवलम्ब्य भूमौ शयनं करोतु ।
  • करतलद्वयं वक्षस्थलमुभयतः भूमौ स्थापयतु ।
  • पादौ ऋजुतया परस्परं संयोज्य भूमौ स्थापयतु ।
  • मस्तकं, वक्षस्थलं च नाभिं यावत् उत्थापयतु ।
  • नाभितः आरभ्य गलदेशं यावत् नाडीनां सम्प्रसारणम् अनुभवतु ।
  • शरीरं भुजङ्गवत् शोभते ।
  • पुनः रेचकेण मस्तकं भूमौ स्थापयतु ।
  • अनेन क्रमेण त्रिचतुर्वारम् अभ्यासः करणीयः ।

लाभः[सम्पादयतु]

अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ निर्माणे सहायकः भवति । मूत्रग्रन्थिः क्रियाशीलो भवति । मेरुदण्डः दृढः भवति ।

सम्बन्धितपुस्तकानि[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

[[en: Bhujangasa]na]

"http://sa.wikipedia.org/w/index.php?title=भुजङ्गासनम्&oldid=270279" इत्यस्माद् पुनः प्राप्तिः