भूमालिन्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भूभागस्य भौतिक- रासायनिव – जैविकगुणेषु केषुचिद् एवं प्रकारक-मवाञ्छितं परिवर्त्तनं, येन परिवर्त्तनेन जनाः जीवाश्च प्रभाविताः भवन्ति, येन भूभागस्य गुणवत्ता उपयोगिता च नष्टं भवतः, तं परिवर्त्तनं भूप्रदूषणमिति कथ्यते ।

कारणानि[सम्पादयतु]

भूप्रदूषण- समस्या नाम भूमौ अवशिष्टपदार्थानां निक्षेपणमिति । वस्तुतः मृतिकाक्षरणेन, विविधस्त्रोतादागतैः रासायनिकप्रदूषणैः भू- उत्खननेन, ज्वालामुख्यद्गारेण वा भू-प्रदूषणं भवति । सामान्यदृष्ट्या निम्नलिखित- कारणेन भूप्रदूषणं भवति ।

  • गृहावशिष्टेन- Domestic Wastes
  • नगरपालिकाऽवशिष्टेन – Municipal Wastes
  • औद्योगिकावशिष्टेन – Industrial Wastes
  • कृष्यवशिष्टेन - Agricultural Wastes
  • अन्य प्रकारेण – Other Wastes

गृहावशिष्टम्[सम्पादयतु]

प्रायः गृहेषु बहुप्रकारकमवशिष्टं भवति । यथा गृहमार्जनात्परं बहुप्रकारकमवशिष्टं बहिः आगच्छति । अपि च महानसगृहादपि बहुप्रकारकमवशिष्टं वहिरागच्छति । एषु अपरिष्टेषु मुख्यताः धूलिः, कर्कटं, कर्गजं, काष्ठकणं, पत्रादिकं, खण्डितं, भोजनमित्यादिकं भवति , अपि च महानसगृहावशिष्टेषु द्विदलं, चायं, डीम्बावरणं, फलावरणं, उच्छ्रिष्ट- भोजनावशिष्टं, अवशिष्टं नष्टं भोजनं वा भवति । एतेषा निस्तारणं प्रायः जनाः गृहं परितः एव कुर्वन्ति । अस्योदाहरणं ग्रामेषु द्रष्टुं शक्यते यत् गृहं परितः एव कर्कट –भण्डारः पर्वताकारः भवति । अनेन भूप्रदूषणं नूनं भवति । फलतः नागरिकाणां कर्त्तव्यमिदं भवति यत् ते गृहावशिष्टानां निस्तारणं समुचिते स्थाने कुर्युः येन भूप्रदूषणं निवारितं भविष्यति । अनवधानेनेदं प्रदूषणं भवति । अतः सर्वेषामवशिष्टानां निस्तारणं सावधानेन करणीयम् ।

नगरपरिपालिकापरिशिष्टम्[सम्पादयतु]

अवशिष्टेऽस्मिन् सर्वाणि नगरपालिकाऽवशिष्टानि आगच्छन्ति । यथा नगरस्य कर्कटं, मानव विसर्जितमवशिष्टं, पशूनां मृतशरीरं, औद्योगिकाय शिष्टञ्च । एतेषां निस्तारणं नगरं परितः क्रियते । फलतः अनेन नगरस्य पार्श्ववर्ति – भूभागः प्रदूषितः भवति । अनेन नगरस्य वायुमण्डलमपि प्रदूषितं भवति । अतः अस्य नगरपालिकावशिष्टस्य निस्तारणं सावधानेन करणीयम् । अस्य शोधनं यन्त्रमाध्यमेन करणीयम् । अनेन उर्वरकानां निर्माणं करणीयम् । अनेन ऊर्जीनिर्माणं करणीयम् । यथा पाटलिपुत्रनगरे शुलभशौचालयात् ऊर्जां प्राप्य मार्गप्रदीपः प्रज्वाल्यते । अतः अस्य निस्तारणं एवं करणीयं येन प्रदूषणस्यापेक्षया कश्चन सदुपयोगः भवेत् ।

औद्योगिकावशिष्टम्[सम्पादयतु]

देशेऽस्मिन् विभिन्नेषु नगरेषु विविध-प्रकारकानि औद्योगिकप्रतिष्ठानानि स्थापितानि सन्ति । यथा –विद्युत्प्रतिष्ठानं, लौहप्रतिष्ठानं, तैलशोधकप्रतिष्ठानं, उर्वरकप्रतिष्ठानं, विविधप्रकारकानां यौगिकानां प्रतिष्ठान् , द्रव्यानां प्रतिष्ठानं, औषध-प्रतिष्ठानमित्यादीनि । एभिः प्रतिष्ठनैः पर्यावरणं प्रदूषितं भवति । यथा एभ्यः विविधप्रकारकाणि अवशिष्टानि बहिरागत्य वायुं, जलं पृथ्वीञ्च प्रदूषयन्ति । वस्तुतः एतेषु कानिचन प्रतिष्ठानानि एवं सन्ति येभ्यः अधिकाधिकमात्राषु लौहकणं, द्रव्यमिश्रितं जलं,ऊष्णकणञ्च बहिरागत्य प्रतिष्ठानं परितः स्थितमधिकाधिकं भूभागं प्रदूषयन्ति । अस्योदाहरणं भवितुमर्हति लौह-प्रतिष्ठानम्, विद्युत्तापगृहमित्यादिकम् । अत्र औद्योगिकावशिष्टानां विशालभण्डारः द्र्ष्टुं शक्यते । इमं परितः स्थितः विशालभूभागः नष्टप्राय दृश्यते । अतः भूप्रदूषणस्य कारणमिदं महत्त्वपूर्णं प्रतिभाति । एतदर्थं चेष्टा कर्त्तव्या । सम्प्रति सन्दर्भेऽस्मिन् चेष्टा प्रचलति । यथा अवशिष्टस्य जलस्य शोधनाय सांयन्त्रं संस्थापनीयम् । विसृज्यमानेभ्यः लौहकणेभ्यः इष्टिका (ईट)निर्माणं कर्त्तव्यम् , येन निस्तारणसमस्यामपि समाधिता भविष्यति, तेषां सदुपयोगोऽपि भविष्यति । एवं प्रकारेण मूलतः औद्योगिकावशिष्टानां निस्तारणस्य प्रायशः कर्त्तव्यः न तु भण्डारणस्य । भण्डारणे समस्यावृध्दिरेव भविष्यति न तु समाधानम् । अनेन भूप्रदूषणस्य निवारणं भविष्यति ।

कृष्यवशिष्टम्[सम्पादयतु]

प्रायः दृष्यते यत् क्षेत्रेषु येषां केषामपि शस्यानामुत्पादनं यदा भवति, तदा कृषकाः शस्यकर्तनमेव कुर्वन्ति न तु मूलात् शस्यपादपकर्तनं कुर्वन्ति । फलतः शस्यकर्तनात् परं शस्यपादपाः क्षेत्रेष्वेव तिष्ठति । यथा गोधूमक्षेत्रेषु, धान्यक्षेत्रेषु, मक्काक्षेत्रेषु, अन्येषु च क्षेत्रेषु दृश्यते यत् शस्यकर्तनं तु जातं परं तेषां पादपाः क्षेत्रेष्वेव राजन्ते । ते पादपाः वर्षर्तौ जलं सम्प्राप्य विगलिताः भवन्ति । तथा विगलिताः पादपाः तं क्षेत्रं प्रदूषयन्ति । अपि च सम्प्रति क्षेत्रेषु उर्वरकाणां बहुप्रयोगं कुर्वन्ति कृषकाः । यतः न्यूनेऽपि क्षेत्रे ते अधिकं शस्यं वाञ्छन्ति । फलतः क्षेत्राणां प्राकृतिकी उर्वराशक्तिः नष्टा भवति । अपि च कृषिसंरक्षणार्थं कृषकाः क्षेत्रेषु कीटनाशकौषधीनामुपयोगः कुर्वन्ति । फलतः अनेनापि भूप्रदूषणं भवति । अतः एतेभ्यःभूसंरक्षणार्थमुपायः कर्त्तव्यः । यतोहि भारतवर्षे कृषियोग्यानां क्षेत्राणां महत्यावश्यकता वर्तते । अतः यदा क्षेत्रेषु शस्यकर्तनं भवति । तदा अवशिष्टानां शस्यपादपानां निस्तारणमवश्यं कर्त्तव्यः । क्षेत्रेषु प्राकृतिकोर्वरकाणां प्रयोगेऽधिकधिकः कर्त्तव्यम् । समये –समये क्षेत्रेषु मृत्तिकापरिवर्तनं, कर्तनं, पुरणमपि करणीयम् । क्षेत्रेभ्यः विश्रामः अपि दातव्यः ।

अन्ये प्रकाराः[सम्पादयतु]

कृषिकार्यस्य कृते मृत्तिका एकं वरसदृश –मुर्व्रकमस्ति । फलतः भूमौ कश्चन अपि समागतः विकारः कृष्यै हानिकरः भवति । भूभागस्याम्लता, क्षारीयता च तस्य विकारः भवति । अपि च अनुपयुक्तं जलमपि क्षेत्रेषु विकारः मन्यते । यतः जले रासायनिकानां, कीटनाशकानामौषधीनाञ्च मिश्रणं भवति । अतः आम्लता, क्षारीयता, जलभण्डारणञ्च क्षेत्रस्य विकारः भवति । एभिः क्षेत्रस्योपयोगिता पूर्णरुपेणांशिकरुपेण वा नष्टयति । कृष्यै तत् क्षेत्रमनुपयुक्तं भवति । इदमेव भवति भूप्रदूषणम् । एतेषां पृथकतया विवरणं सम्प्रत्युपस्थाप्यते

आम्लीयविकार:[सम्पादयतु]

अयं विकारः आर्द्रतायुक्तेषु क्षेत्रेषु प्राप्यते । वस्तुतः एवं प्रकारकेषु क्षेत्रेषु आर्द्रता अधिका भवति, फलतः यदा भूमौ हायड्रोजन (h2) आयन्स इत्यस्य आण्विकप्रगाढता अधिका भवति, तथा हायड्रोवशील (hc1) ००.२३ PH मानं सदा ७ तः न्यूनं भवति । एवम् एल्यूमीनियम् लौह- इत्यादिकं द्रव्यमयं भूत्वा पादपेभ्यः विषसदृशं भवति । अपि च मैंगनीजयौगिकस्य मात्रावध्द्या पादपानामपचयनक्रियाऽपि अवरुध्दा भवति । मृत्तिकायाः जीवाणवः अपि निष्क्रियाः भवन्ति । शस्येभ्यः कैल्शीयम-मैग्नीशियम्- मोब्लीडन्- फासफोरस – इत्यादिकानां पर्याप्तमात्रा नोपलभ्यते । फलतः शस्योत्पादनं न्यूनमेव भवति । भूमौ शीलिका क्वार्टजेत्यनयोः आधिक्येन, जैविक-पदार्थानामपघटनेन, क्षारनिक्षालनेन, अमोनियमसल्फेट् सदृशोर्वरकाणां निरन्तरप्रयोगेण भमौ आम्लतत्त्वस्य मात्रा अधिकायते । अतः भूमौ कैल्शियमित्यस्य (चूना) प्रयोगः, क्षारीयोर्वरकाणां प्रयोगः, समुचितजलनिष्काशनव्यवस्था, पोटाशयुक्तोर्वरकाणां प्रयोगश्च करणीयः । यदा कदा सहिष्णु-शस्यानामुत्पादनमपि करणीयम् । अनेन भूमिः आम्लीयविकारेभ्यः मुक्ता भवितुमर्हति ।

क्षारीयविकारः[सम्पादयतु]

अयं विकारः शुष्कार्ध्दशुष्केषु क्षेत्रेषु अधिकवष्पीकरणेन जायते । अनेन भूभागस्य वाह्यावरणे सोडियम- कैल्शीयम- मैग्नीशियम् पोटाश- क्लोराईड्स – कार्बोनेट्स-बाइकार्बिनेट्स्- नाईट्रेट्स – इत्यादयः प्राप्यन्ते । क्षारीयविकाराः भवन्ति । अस्यां मृत्तिकायां हाइड्रोक्सिल-आयन्सस्य सान्द्रता हाइड्रोजनाअयन्सस्यापेक्षया अधिका भवति । अस्याः मृत्तिकायाः पि. एच. मानं सदा ७.तः अधिकं भवति । अयं विकारः भूमौ क्षारीयलवणानां वाष्पीकरणेन, समुचितजलनिकास- व्यवस्थायाः अभावेन, निरन्तरसिञ्चनेन, सोडियमनाइट्रेट्स्- नामकोर्वरकाणां निरन्तर –प्रयोगेण चागच्छति। अस्य विकारस्य मृत्तिकायां विषयुक्तः प्रभावः भवति । पादपा अधिकधिकमात्रायां सोडियम् – इत्येनमवशोषणं कुर्वन्ति । येन तेषां विकासः वृध्दिश्च अवरुध्दः भवति । अपि चानेन भूमेः भौतिकी, रासायनिकी, जैविकी चावस्था अव्यवस्थिता भवति । फलतः शस्योत्पादनम्त्यल्पमेव भवति । अस्याः समस्यायाः समाधानाय भूमौ मृत्तिकायाः कर्तनं, निक्षालनं, प्रवहनमित्यादिकं करणीयम्

अनेन भू- आवरणे स्थितं लवणं नष्टं भवति । अपि च जिप्सम- इत्यस्य प्रयोगेण जैविकोर्वरकाणां प्रयोगेण च अस्य भूभागस्य संरक्षणं कर्तुं शक्यते । अत्र क्षार- सहिष्णु –शस्यपादपानामारोपणं लाभप्रदं भवति । तथा चानेन क्षारीयविकारोऽपि निवारिता भवति ।

रासायनिक:[सम्पादयतु]

कीटनाशक – औषधीनां भूमौ प्रभाव:- सम्प्रति सस्योत्पादनं वर्धयितुं कृषिक्षेत्रेषु विविधानामुर्वरकाणां कीटनाशक- औषधीनां- शाकनाशी-कवकनाशीद्रव्याणां प्रयोगः दिनानुदिनं वर्धते । अनेन भूमौ हानिकारकतत्वानां वृध्दिः भवति, मृत्तिका च प्रदूषिता भवति । यथा –अमोनियमसल्फेट नामकस्योर्वरकस्य क्षेत्रेषु निरन्तर प्रयोगेण भूमौ आम्लस्य मात्रा वर्धते । एवमेव सॊडियमनाइट्रेटित्यस्य निरन्तर प्रयोगेण भूमौ क्षारीय-विकारः आगच्छति । कीटनाशकेषु औषधेषु.डी.डी.टी.(DDT), बी एच.सी.(BHC), इत्यादिकानां प्रयोगेण तत्रत्याः मृत्तिकाऽपि विषयुक्ता भवति । यतः एताः विषाक्ता औषधयः सन्ति । एतेन तत्रोत्पादितेषु शस्येषु विषस्य मात्रा नूनं भवत्येव । अतः एतेषां द्रव्याणामुर्वरकाणाञ्च प्रयोगेण भूमौ विकारः जायते । अपि च भू-प्रदूषणं भवति । अस्मिन्नेव क्रमे भारतसर्वकारस्य निर्देशः अपि अस्ति । यत् खाद्यान्नेषु डी.डी.टी. बिएच.सी. इत्यादिकानां प्रयोगः न करणीयः । यतः एतेषां प्रयोगेण मृत्तिका विषयुक्ता भवति, तथा विषयुक्तमृत्तिकाषु उत्पादितः शास्योऽपि विषयुक्तः भवत्येव । अपि च अनेकेषां रोगाणामिदमेव कारणमस्ति । यथा फूड- एलर्जी । एवं यदि उर्वरकाणां प्रयोगः क्रियते तर्हि तत्रत्यमुत्पादनं स्वकीयां गुणवत्तां परित्यजति । एवं प्रकारेण रासायनिकोर्वरकाणां, कीटनाशकौषधीनाञ्च प्रयोगेण मृत्तिका प्रदूषिता तु भवत्येव अपि च मृत्तिका स्वकीयामुत्पादनक्षमतामपि परित्यजति । तथाऽस्य भूप्रदूषणस्य प्रतिकूलप्रभावः मानवजीवने स्वास्थ्ये च भवति । अतः शस्योत्पादनवृध्दयर्थं क्षेत्रेषु रासायनिकोर्वरकाणां प्रयोगः कीटनाशकौषधीनाञ्च प्रयोगः न्यूनः एव करणीयः । एतेषां स्थाने जैविकोर्वरकाणां प्रयोगमाध्यमेन, भूपरिष्करणाप्रक्रियामाध्यमेन यान्त्रिकक्रियामाध्यमेन च शास्योत्पादनवृध्दिः करणीया ।

भूप्रदूषणनियन्त्रणं भूसंरक्षणञ्च[सम्पादयतु]

भूप्रदूषणस्य कारणद्वयमस्ति । भूरक्षणं, भूप्रदूषणञ्च । भूरक्षणं द्विविधं भवति । जलेन, पवनेन च । संरक्षणोपायाः

  1. गृहावशिष्टानां निस्तारणं समुचित-प्रकारेण करणीयम् ।
  2. नगरपालिकावशिष्टानां निस्तारण-व्यवस्था प्रकृते प्रकरणे यथा वर्णिताऽस्ति तथा करणीया ।
  3. कृष्यादि – अवशिष्टानां निस्तारणं आम्लीय-क्षारीय विकाराणां परिहारश्च प्रकृते प्रकरणे वर्णितौ स्तः । अतः तथा विधिरेव करणीयः ।
  4. प्रदूषितेषु क्षेत्रेषु कृत्रिमोर्वरक- सहयोगेन सर्व-प्रथमं मृतिका- संशोधनं, क्षमतोत्पादनञ्च करणीयम् ।
  5. यदि मृत्तिका सामान्यस्थितौ समागतवती तर्हि तत्र सर्वप्रथमं भूपोषक- शास्यानामुत्पादनं करणीयम् । पुनः अन्येषां वृक्षपादपानामारोपणं भवेत् ।
  6. भूशोधनप्रक्रियां समाप्य तत्र कृषिकार्यं सघनवृक्षारोपणं, जलसंग्रह केन्द्रं, प्रमोदस्थलं, क्रीडाक्षेत्रं सार्वजनिकस्थलञ्च करणीयम् ।
  7. प्रदूषणयुक्तां भूमिं संशोध्य विविधप्रकारेण उपयोगः करणीयः । यथा – सरोवरः, क्रीडाङ्गनम्, आवासीयपरिसरेत्यादयः ।
  8. भूरक्षणात् संरक्षणार्थं सघनवृक्षारोपणं करणीयम् ।
  9. जलवायोः प्रवाहस्थले रक्षापट्टिकायाः निर्माणं कर्त्तव्यम् ।
  10. निष्कर्षतः वृक्षारोपणमेव सर्वोत्तमं साधनमस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=भूमालिन्यम्&oldid=248098" इत्यस्माद् पुनः प्राप्तिः