भोपालमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भोपालमण्डलम्
Bhopal District
—  भोपाल जिला  —
भोपालमण्डलम्
भोपालमण्डलस्य नयनाभिरामदृश्यम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि हुजुर, बेरासिया
विस्तारः २,७७२ च. कि. मी.
जनसङ्ख्या (२०११) २३,७१,०६१
भारतीयमानसमयः (IST) (UTC+५:३०)
साक्षरता ८०.३७%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६%
जालस्थानम् http://bhopal.nic.in/

भोपालमण्डलम् (हिन्दी: भोपाल जिला, आङ्ग्ल: Bhopal district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति भोपाल इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

भोपालमण्डलस्य विस्तारः २,७७२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे रायसेनमण्डलं, पश्चिमे सिहोरमण्डलम्, उत्तरे गुनामण्डलं, दक्षिणे सिहोरमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं भोपालमण्डलस्य जनसङ्ख्या २३,७१,०६१ अस्ति । अत्र १२,३६,१३० पुरुषाः, ११,३४,९३१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८५५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८५५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.६२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१८ अस्ति । अत्र साक्षरता ८०.३७% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते - हुजुर, बेरासिया ।

वीक्षणीयस्थलानि[सम्पादयतु]

भोजपुर[सम्पादयतु]

भोजपुर-नगरं भोपालमण्डलस्य नगरम् अस्ति । अस्मिन् नगरे एकं भव्यं मन्दिरम् अस्ति । तस्य नाम भोजपुरेश्वर-मन्दिरम् इति । इदं मन्दिरं १००० वर्षप्राचीनम् अस्ति । इदं भगवतः शिवस्य मन्दिरमस्ति । मन्दिरेऽस्मिन् सुन्दरं शिवलिङ्गम् अस्ति । अस्य लिङ्गस्य उच्चता ७.५ फीट अस्ति । महाशिवरात्रिपर्वणि बहवः भक्ताः तत्र दर्शनाय गच्छन्ति ।

इस्लाम-नगरम्[सम्पादयतु]

इस्लाम-नगरं भोपालनगरात् ११ कि. मी. दूरे अस्ति । अस्मिन् हिन्दु-इस्लामी सज्जीकलाः सन्ति । अस्य स्थलस्य निर्माणं अफगान-शासकेन दोस्त मोहम्मद खान इत्यनेन कारितम् । भीमबेटका, सामसगढ, मनुआ भान की टेकरी इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=भोपालमण्डलम्&oldid=281498" इत्यस्माद् पुनः प्राप्तिः