मडिकेरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मडिकेरी

ಮಡಿಕೇರಿ
नगरम्
Skyline of मडिकेरी
राष्ट्रम्  India
राज्यानि कर्णाटकराज्यम्
Elevation
१,०६१ m
Population
 (2001)
३२,२८६
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
571 201
दूरवाणीकूटसंख्या 0827
Vehicle registration KA-12
Website www.madikericity.gov.in
thumb
मडिकेरीमार्गे
thumb
thumb

मडिकेरी (Madikeri) कर्णाटकस्य कोडगुमण्डले विद्यमानं गिरिधाम । इदं सागरस्तरतः ३८०० पादोन्नते स्थले अस्ति । राजासीट् उद्यानं निसर्गसुन्दरं रम्यं स्थलम् । इतः सूर्यास्तदर्शनं, शालीक्षेत्राणां दर्शनं, वाटिकादर्शनम् अतीव सन्तोषाय भवति । प्रतिवर्षं राजासीटप्रदेशे फलपुष्पप्रदर्शनम् अत्युत्तमतया आयोजितं भवति । उद्यानवने सन्ध्यारागनामकः कश्चन कार्यक्रमः भवति । इदानीम् अत्र लघुधूमशकटं बालानां विनोदसञ्चाराय निर्मितम् अस्ति । मडिकेरीदुर्गम् एतिहासिकं भवनमस्ति । अत्र विशालं राजगृहं, प्राच्यवस्तुसङ्ग्रहालयः, जिल्लाकेन्द्रीयन्थालयः, कोटेगणपतिदेवालयः आकर्षकाः सन्ति ।

दुर्गस्य रचनायाः विशेषः नाम षड्कोणाकारकः तलविन्यासः । षट्कोणेषु कोत्तलु (विशेषदर्शकस्थानम्) निर्मितम् अस्ति दर्शकस्थानं वृत्ताकारकम् अस्ति । राजगृहस्य मृच्छदः आङ्ग्लैः आनीतः अस्ति । सुन्दरभवनस्य द्विस्तरीयानि तोरणानि, चतुरस्राकाराणि वातायनानि, काचकैः सम्यगलङाकृतानि सन्ति । विशालजलाशये कश्चन लघु शिलाकूर्मः अस्ति । गजाकृतयः जीवन्त्यः इव सन्ति । नगरे ओङ्कारेश्वरमन्दिरं राज्ञां मृतस्मारकाणि दर्शनीयानि सन्ति । ओङ्कारेश्वरमन्दिरं क्रिस्ताब्दे १८२० तमे वर्षे गार्थिक्-इस्लामिक् मिश्रशैल्या निर्मितम् ।

मडिकेरीतः तलकावेरी ४६ कि.मी दूरेऽसि । अत्रैव कावेर्याः उद्गमस्थानम् अस्ति । इर्प्पुजलपातम् अब्बीफाल्स् सदा जलपूर्णानि दर्शकाणाम् आनन्ददायकानि भवन्ति । कुशालनगरसमीपे कावेरीनिसर्गधाम सुन्दरम् अस्ति ।

कोडगुप्रदेशे पादचारणाय माकुट्ट, बर्पोळे, नीलं पोले प्रदेशाः अतिजनप्रियाः । इग्गुतप्प, तडियण्ड् मोळ्, चिन्ननप्प शिखरारोहणं साहसयात्रा एवास्ति । तडियण्ड् मोळ् सागरस्तरतः ५००० पादोन्नतम् अस्ति । सोमवारपेटे पुष्पगिरिः कुमारपर्वतशिखरं च पादचारणाय विशिष्टानि सन्ति ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः २६० कि.मी ।
मैसूरुतः १३४ कि.मी
मङ्गळूरुतः १३५ कि.मी।

वसत्याः कृते मडिकेरी भागमण्डलम् इत्यत्र व्यवस्थाः सन्ति । कुशालनगरम् इत्यादिस्थलेषु उपाहारगृहाणि सन्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मडिकेरी&oldid=485096" इत्यस्माद् प्रतिप्राप्तम्