मत्ताक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मत्ताक्रीडा ।

प्रतिचरणम् अक्षरसङ्ख्या 23

मत्ताक्रीडा मौ त्नौ नौ न्लौ गिति भवति वसुशरदशयतियुता। केदारभट्टकृत- वृत्तरत्नाकर:३.१०५

ऽऽऽ ऽऽऽ ऽऽ। ।।। ।।। ।।। ।।। ।ऽ

म म त न न न न ल ग।

यति: अष्टभि: पञ्चदशभि:च।

उदाहरणम् - धर्मग्लानिर्वृद्धोऽधर्मो जगति भवति तदनु मदवतरणं,
क्रोडीकृत्य स्वीयां मायां भवति मम च जननमजननमृते:।
धर्मस्थैर्यं साधुत्राणं खलजनकुलदलनमपि च विदधे,
दिव्यं मे वेत्त्येवं कर्म जननमपि च जननमभिभवति स:॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मत्ताक्रीडा&oldid=408979" इत्यस्माद् प्रतिप्राप्तम्