मत्स्यासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मत्स्यासनम् योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः[सम्पादयतु]

  • पद्मासने उपविशतु ।
  • कूर्परद्वयमवलम्ब्य भूमौ पृष्ठभागे शयनं करोतु ।
  • ग्रीवां वक्षः स्थलं च पूरकेण यथाशक्ति उत्तोलयतु ।
  • मस्तकस्य उपरिभागं भूमौ योजयतु ।
  • जानुद्वयेन भूमिं स्पृशतु ।
  • हस्तद्वयेन अङ्गुष्ठद्वयं गृह्णातु ।
  • तस्यामवस्थायां निमेषत्रयं तिष्ठतु ।
  • पुनः करतलद्वये स्कन्धं पृष्ठतः अवलम्बय रेचकेण सामान्यावस्थामागच्छतु ।
  • पादद्वयं ऋजुतया प्रसार्य शावासने विश्रमतु ।

लाभः[सम्पादयतु]

  • कोष्ठकाठिन्यम् अपसारयति ।
  • श्वासकोषस्य सम्यक् सम्प्रसारणं भवति ।
  • गलदेशस्य सम्प्रसारणेन श्वासनलः स्वस्थः भवति ।
  • आयासरहितदीर्घश्वासनिर्वहणाय साहाय्यं करोति । कण्ठदेशे एवं हृदयोर्ध्वदेशे च वर्तमानानां पृष्ठास्थिभागानां विकासः सम्भवति ।
  • गलस्य विपरीतदिशि नम्रीकरणद्वारा तत्रस्थानां स्नायूनां बलं एवं पेशीनां सङ्कोचशक्तिश्च जायते । स्कन्धपेशयः स्नायवः च बलवत्तराः भवन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मत्स्यासनम्&oldid=468672" इत्यस्माद् प्रतिप्राप्तम्