मधुरैमण्डलम्
| मधुरैमण्डलम् மதுரை மாவட்டம் |
|||||||
| — मण्डलम् — | |||||||
|
|
|||||||
|
|
|||||||
| निर्देशाङ्काः | |||||||
| देशः | भारतम् | ||||||
| राज्यम् | तमिऴ्नाडु | ||||||
| केन्द्रप्रदेशानि | मधुरैनगरम् | ||||||
| बृहत्तमं नगरम् | मधुरैनगरम् | ||||||
| Collector | श्री यु। सगयम्, IAS | ||||||
| सांसदक्षेत्रम् | 1 | ||||||
| अधिवेशनसभा | 10 | ||||||
| Municipal Corporations | मधुरैनगरम् | ||||||
| जनसङ्ख्या |
३[१] (2011[update]) • ८२३ /km2 ( /sq mi) (2011[update]) |
||||||
| लिङ्गानुपातः | M-50.5%/F-49.5% ♂/♀ | ||||||
| साक्षरता • Male |
81.5%% • 86.55%% |
||||||
| Language(s) | तमिऴ्,तेलुगु, सौराष्ट्र, आङ्ग्लभाषा,हिन्दीभाषा | ||||||
|---|---|---|---|---|---|---|---|
| समयवलयः | IST (UTC+05:30) | ||||||
| विस्तीर्णम् • तीरप्रदेशः |
३,७४१.७३ square kilometres (. sq mi) • ० kilometres (0 mi) |
||||||
|
सङ्केताः
|
|||||||
| जालस्थानम् | Official website of Madurai District | ||||||
भारतस्य तमिऴ्नाडुराज्यस्य द्वात्रिंशतौ मण्डलेषु मधुरैमण्डलम् अन्यतमम् । अस्य केन्द्रस्थानं मधुरैनगरम् । वेङ्गैनद्याःतीरे स्थिते अस्मिन् नगरे विश्वप्रसिद्धः मीनाक्षीसुन्दरेश्वरदेवालयः अस्ति । काज़िमर पेरिय पल्लिवासल् तथा काज़िमरमार्गे विद्यमानं मदुरै मक्बारा अस्य नगरस्य पुरातने इस्लाम् स्मारके । तिरुप्परङ्कुड्रम् अस्मिन् मण्डले अपरं प्रसिद्धं प्रवासिस्थानम् ।
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
मधुरै ‘पूर्वदिशः अथेन्स् नगरी’ इति विख्याता अस्ति । तमिऴ्भाषया एतत् नगरम् ‘तूङ्गानगरम्’, अर्थात् ’निद्रारहिता नगरी’ इति वदन्ति । देवालयानां नगरम् इत्यपि मधुरैनगरं ख्यातम् । क्रिस्तपूर्वे तृतीयशतके अपि मधुरैप्रान्तस्य उल्लेखः दृश्यते । भारतं प्रति आगतेन ग्रीक् राजदूतेन मेगास्थानीसेन, चन्द्रगुप्तमौर्यस्य सचिवेन कौटिल्येन च मधुरैनगरम् उल्लिखितम् अस्ति । इदं नगरं चतुर्दशशतकं यावत् तमिऴ्नाडु-केरलराज्ययोः दक्षिणभागं प्रशासितवतां पाण्ड्यानां राजधानी आसीत् । १३११तमे वर्षे देहलीसुल्तानैः पाण्ड्याः पराजिताः । तैः सुल्तानैः माबार् प्रान्तः स्थापितः । ततः तस्य प्रशासकाः माबार् सुल्तानाः इति स्वातन्त्र्यं प्राप्तवन्तः । ततः चतुर्दशशतकस्य अन्ते विजयनगरस्य राजभिः मधुरैमण्डलं जितम् । १५५९तः १७३६ पर्यन्तं मधुरैनायकाः राज्यभारं कृतवन्तः । १८०१तमे वर्षे मधुरैनगरं ब्रिटिश् ईस्ट् इण्डिया संस्थया वशीकृतम् ।
भौगोलिकम् [सम्पादयतु]
मधुरैमण्डलस्य विस्तारः ३,७४१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे दिण्डुक्कल् मण्डलम्, ईशान्ये ,तिरुकिरापळ्ळिमण्डलम् पूर्वत्र शिवगङ्गामण्डलं, दक्षिणभागे विरुदुनगरमण्डलं, पश्चिमे तेनिमण्डलं च अस्ति ।
जनसंख्या [सम्पादयतु]
२०११ जनगणनानुगुणं मधुरैमण्डलस्य जनसंख्या ३,०४१,०३८ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ११९तमं स्थानम् । जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ८२३ अस्ति । (२१३० प्रतिचतुरश्रमैल्) । २००१-२०११ दशके जनसंख्यावॄद्धिः १७.९५% आसीत् । अस्मिन् मण्डले पुं-स्त्री अनुपातः १०००:९९० अस्ति । साक्षरताप्रमाणं ८१.६६% ।
उपमण्डलानि [सम्पादयतु]
मधुरैमण्डले सप्त उपमण्डलानि सन्ति –
- मधुरै (उत्तरम्)
- मधुरै (दक्षिणम्)
- तिरुमङ्गलम्
- पेरैयूरु
- उसिलम्पट्टि्
- वाडिप्पट्टि
- मेलूरु
वीक्षणीयस्थलानि [सम्पादयतु]
मधुरै मीनाक्षीमन्दिरम् [सम्पादयतु]
‘तिरु आलवाय्’ इति ख्यातः मीनाक्षीदेवालयः मधुरैनगरे वेङ्गैनद्याः दक्षिणभागे अस्ति । अत्रत्या आराध्यदेवी मीनाक्षीनाम्ना ख्याता पार्वतीदेवी, तस्याः पतिः सुन्दरेश्वरः च । ४५-५० मीटर् उन्नतानि चतुर्दशगोपुराणि देवालये सन्ति । मीनाक्षीसुन्दरेश्वरयोः गर्भगृहस्य उपरि द्वे सुवर्णविमाने च स्तः । तमिऴितिहासे बहुप्राचीनकाले अपि अस्य मन्दिरस्य उल्लेखः दृश्यते । किन्तु अद्य विद्यमानं मन्दिरं क्रिस्तीय १६२३ तः १६५५ तमवर्षयोः मध्ये निर्मितम् । अस्मिन् मन्दिरे प्रायः ३३००० शिल्पाः सन्ति । अत्र प्रतिदिनं १५००० जनाः, शुक्रवासरेषु २५००० जनाः च आगच्छन्ति । प्रतिवर्षम् एप्रिल्-मे मासयोः आचर्यमाणे मीनाक्षीकल्याणमहोत्सवे दशलक्षभक्ताः भागं वहन्ति ।
कुट्लडम्पट्टिजलपातः [सम्पादयतु]
अयं मधुरैमण्डलस्य वाडिप्पट्टि उपमण्डले कुट्लडम्पट्टिग्रामे मधुरैपत्तनात् ३० किलोमीटर् दूरे विद्यमानः मानवनिर्मितजलपातः । अयं जलपातः तमिऴ्नाडुसर्वकारेण निर्वाहिते संरक्षितारण्यप्रदेशे अस्ति । जलपातस्य औन्नत्यं २७ मीटर् (८९ पादाः) ।
कूडल् अळगर् कोयिल् [सम्पादयतु]
विष्णोः अयं देवालयः मधुरैपत्तनस्य मध्ये अस्ति । ‘कूडल्’ इति मधुरैनगरस्य एव अपरं नाम । ‘अऴगर्’ इत्यस्य तमिऴ्भाषायां ‘सुन्दरः’ इति अर्थः । अयं देवालयः अत्यन्तं प्राचीनः, मीनाक्षीदेवालयस्य समीपे एव अस्ति । श्रीवैष्णवानां पवित्रेषु १०८ दिव्यदेशेषु इदम् अपि अन्यतमम् ।
तेप्पक्कुळम् [सम्पादयतु]
अयं मधुरैनगरे मीनाक्षीदेवालयात् ५ किलोमीटर् दूरे विद्यमानः मानवनिर्मितः तडागः । अस्य विस्तारः १६ एकर् । अयं दक्षिणभारते एव बृहत्तमः तडागः । अयं तडागः राज्ञा तिरुमलनायकेन निर्मितः । भूमिगतवाहिनीभिः वेङ्गैनदीतः एतं तडागं प्रति जलम् आगच्छति । तडागस्य मध्ये विनायकदेवालयः अस्ति । तडागस्य समीपे मारियम्मदेवालयः अपि अस्ति । अतः अयं ‘मारियम्मन् तेप्पकुऴम्’ इति ख्यातः ।
तिरुप्परकुण्ड्रं मुरुगदेवालयः [सम्पादयतु]
अयं कार्तिकेयस्य ‘आरुपडैवीडु’क्षेत्रेषु अन्यतमम् । अत्रैव कार्तिकेयः इन्द्रस्य पुत्रीं देवयानीम् ऊढवान् इति पुराणकथा । अयं देवालयः मधुरैनगरात् ८ किलोमीटर् दूरे अस्ति । मुख्यदेवालये न केवलं सुब्रह्मण्यस्य, अपि तु शिव-विष्णु-विनायक-दुर्गाणाम् आलयाः सन्ति ।
तिरुमलनायकभवनम् [सम्पादयतु]
इदं राजभवनं मधुरैमण्डलस्य राज्ञा तिरुमलनायकेन १६३६तमे वर्षे निर्मितम् । अस्मिन् राजभवने द्राविड-इस्लामीयशिल्पशैल्योः संमिश्रणं दृश्यते । इदं राष्ट्रियं स्मारकम्, तमिऴ्नाडुराज्यस्य पुरातत्त्वशास्त्रविभागेन निरुह्यमानम् अस्ति ।
गान्धीवस्तुसङ्ग्रहालयः [सम्पादयतु]
मधुरैनगरे क्रिस्तीये १९५९तमे वर्षे महात्मनः गान्धेः स्मरणार्थम् अयं वस्तुसङ्ग्रहालयः स्थापितः । भारतस्य पञ्चसु गान्धिसङ्ग्रहालयेषु अयम् अन्यतमः । अत्र भारतस्य स्वातन्त्र्यसङ्ग्रामविषये २६५ चित्राणां प्रदर्शिनी अस्ति । ततः गान्धेः ‘दृश्यजीवनगाथा’ दृश्यते, यत्र गान्धेः जीवनसम्बद्धानि छायाचित्राणि, चित्राणि, शिल्पाः, ताडपत्राणि, गान्धिना लिखितानां पत्राणां प्रतिकृतयः च सन्ति । अवशेषाणां विभागे गान्धिना उपयुक्तानि १४ वस्तूनि दृश्यन्ते । अत्र नाथूरामगोडसेद्वारा हननसमये गान्धिना धृतस्य रक्तसिक्तस्य वस्त्रस्य भागः अपि अस्ति ।
आधाराः [सम्पादयतु]
- ↑ 2011 Census of India (Excel). Indian government (16 April 2011).
- ↑ www.tn.gov.in