मधुकर्कटीवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अयं मधुकर्कटीवृक्षः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः आङ्ग्लभाषायां Carica papaya इति उच्यते । अस्य वृक्षस्य फलम् एव मधुकर्कटी । अयं वृक्षः एककाण्डयुक्तः भवति । अस्य मधुकर्कटीवृक्षस्य शाखाः न भवन्ति । अयं वृक्षः ५ तः १० मीटर् यावत् उन्नतः भवति (१६ तः ३३ पादमितः)। वृक्षस्य उपरिभागे पर्णानि भवन्ति । अस्य पर्णानि अत्यन्तं विशालानि भवन्ति (५० तः ७० से.मी. यावत्) । पर्णानाम् अधोभागे फलानि उद्भवन्ति । अपक्वानि फलानि हरिद्वर्णीयानि भवन्ति । यदा तानि पक्वानि भवन्ति तदा तेषां फलानां वर्णः काषायत्वेन (पीतत्वेन वा) परिवर्तते । अयं वृक्षः क्रान्तिवलयभूमौ प्रायः सर्वत्र वर्धते । भारते तु सर्वत्र दृश्यते एतत् । मधुकर्कट्यां बहवः औषधीयगुणाः सन्ति । यदा सस्यछेदः क्रियते तदा एतस्मात् सस्यात् श्वेतः द्रवविशेषः निर्गच्छति । फलदशायाम् एषः द्रवविशेषांशः सान्द्ररुपेण सङ्गृहीतः भवति ।

"https://sa.wikipedia.org/w/index.php?title=मधुकर्कटीवृक्षः&oldid=388933" इत्यस्माद् प्रतिप्राप्तम्