मधुपाकफलरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मधुपाकफलरसः
कूपीषु करण्डकेषु च संरक्षितः मधुपाकफलरसः
वृक्षे दृश्यमानानि अपक्वानि मधुपाकफलानि
मार्गपार्श्वे मधुपाकफलरसस्य निर्माणम्

मधुपाकफलस्य रसः एव मधुपाकफलरसः । एतत् मधुपाकफलम् आङ्ग्लभाषायां Sweet Lemon इति उच्यते । अस्य रसः Sweetlemon Juice इति उच्यते । मधुपाकफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य मधुपाकफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि मधुपाकफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं मधुपाकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति ।

फलरसस्य निर्माणम्[सम्पादयतु]

अस्य मधुपाकफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् मधुपाकफलं प्रक्षाल्य त्वक् निष्कास्य बीजानि पृथक् करणीयानि । अनन्तरं तत्र शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । अनन्तरं शोधनीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलायाः चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=मधुपाकफलरसः&oldid=361450" इत्यस्माद् प्रतिप्राप्तम्