मध्यमव्यायोगः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
जपानीकल्पनानुसारं घटोत्कचः

भासकविकृतेषु संस्कृतनाटकेषु "मध्यमव्यायोगः" कश्चन व्यायोगः

मध्यमव्यायोगः इति नाम्नः सार्थकता[सम्पादयतु]

मध्यमव्यायोगः इति अस्य नाम अन्वर्थं विद्यते । मध्यमम् अधिकृत्य अयं व्यायोगः रचितः वर्तते । अस्मिन् व्यायोगे द्वौ मध्यमौ स्तः । एकः पाण्डवानां मध्यमः भीमः, अपरः वुध्दब्राह्मणस्य मध्यमः पुत्रः । एतौ द्वौ मध्यमौ अधिकृत्य सरसतया भासः इमं व्यायोगं रचितवान् अस्ति ।

मध्यमव्यायोगस्य आकरग्रन्थः[सम्पादयतु]

मध्यमव्यायोगस्य प्रधानानि पात्राणि महाभारते सन्ति । मध्यमपाण्डवः भीमः । तस्य पत्नी हिडिम्बा, पुत्रः च घटोत्कचः । भासेन कल्पिता एषा कथा मूलमहाभारते कुत्रापि न उपलभ्यते । एकं लघु प्रसङ्गं कल्पयित्वा एनं व्यायोगं भासः रचितवान् अस्ति । तस्य प्रतिभायाः, कौशलस्य च दर्शनम् अस्मिन् जातम् अस्ति ।

मध्यमव्यायोगस्य विशेषता[सम्पादयतु]

उत्तमकाव्यं नाम किम् इति चिन्तनसमये सामान्यतः केचन अंशाः परिगण्यन्ते एव । यथा- • तत्र विशिष्टानां शब्दानां प्रयोगः स्यात् । • भाषा प्रौढा भवेत् । • भाषायां लालित्यं स्यात् । • समस्तपदानां प्रयोगः प्राचुर्येण भवेत् । • तत्र तत्र सुभाषितानि, सूक्तयः च भवेयुः । इत्यादि । परं भासः रसाभिव्यक्तये एतेषाम् आवश्यकता नास्ति इति अस्य नाटकस्य रचनाद्वारा निरुपितवान् अस्ति । अनेन व्यायोगद्वारा भासः अनेकानि भारतीयजीवनमौल्यानि प्रेक्षकाणां हृदयं प्रापयति ।

मध्यमव्यायोगस्य कथावस्तु[सम्पादयतु]

केशवदासः नाम ब्राह्मणः सपत्नीकः त्रिभिः पुत्रैः सह हिडिम्बावने गच्छन् आसीत् । तदा भीमसेनपुत्रः घटोत्कचः तत्र आगत्य तेषां मार्गम् अवरुध्दवान् । सः ब्राह्मणं वदति-“मम मातुः उपवासनिसर्गार्थं (उपवाससमापनार्थं) कश्चन मानुषः अपेक्षितः । अतः तव त्रिषु पुत्रेषु अन्यतमं (एकं) विसर्जय। अन्यथा सर्वानपि नेष्यामि” इति । तदा गन्तुम् उद्युक्तं ज्येष्ठपुत्रं वारयन् केशवदासः वदति-“ ज्येष्ठम् इष्टतमं न शक्नोमि परित्यक्तुम्” इति । तदा ब्राह्मणी –“ यथार्यो ज्येष्ठमिच्छति, तथाहमपि कनिष्ठम् इच्छामि” इति वदन्ती कनिष्ठस्य गमनं वारयति । तदा पितृवत्सलः मध्यमः एव घटोत्कचेन सह गमनाय प्रतिष्ठते । आसन्नमरणः सः मध्यमः घटोत्कचं संप्रार्थ्य पिपासाप्रतीकारार्थं (निवारणार्थं) कञ्चित् जलाशयम् अन्विष्य वनं गतः । चिरायमाणे तस्मिन् मातुः आहारकालः अतिक्रामेत् इति शङ्कया घटोत्कचः –“भोः मध्यम ! शीघ्रमागच्छ” इति उच्चैः असकृत् (बहुवारं) आह्वयति। तदा वनवासाय आगतानां पाण्डवानाम् आश्रमोऽपि तस्मिन् एव वने आसीत् । तस्मिन् समये मध्यमपाण्डवः भीमः एकः एव आश्रमे आसीत् । अन्ये यागं द्रष्टुं महर्षेः धौम्यस्य आश्रमं गताः आसन् । घटोत्कटस्य ‘मध्यम’ इति आह्वानशब्दं पाण्डवमध्यमः भीमः आशृणोत् । “ मामेव कश्चिद् आह्वयति” इति विचिन्त्य भीमः तत्र उपस्थितः भवति । आगतं भीमम् अभिज्ञाय केशवदासः तं शरणं गच्छति । भीमः तस्मै अभयं दत्त्वा स्वयमेव घटोत्कचम् अनुगन्तुम् अङ्गीकरोति । घटोत्कचं हिडिम्बायाः पुत्रः इति ज्ञात्वा भीमः तस्य बलपरीक्षां कर्तुम् इच्छन् – “ शक्तः चेत् बलात्कारेण मां नय” इति वदति । ततः प्रवृत्ते युध्दे भीमं पराजेतुम् अशक्तः घटोत्कचः भीमं पूर्वसमयं (पूर्वप्रतिज्ञां) स्मारयति । तदा भीमः तम् अनुसरन् हिडिम्बायाः वासस्थानं प्राप्नोति, घटोत्कचोऽपि मातृवाक्यात् तम् आत्मनः पितरं विज्ञाय नमस्करोति । भीमः अपि तं परिष्वज्य(आलिङ्गय) आशीर्भिः अभिनन्दति । भरतवाक्येन व्यायोगः समाप्तिम् एति ।

मध्यमव्यायोगस्य भाषा[सम्पादयतु]

मध्यमव्यायोगस्य भाषा सरला हृद्या च । संस्कृतच्छात्राः अपि इदं नाटकं सुलभतया अवगन्तुं प्रभवन्ति । भीमघटोत्कचयोः संवादस्य कश्चन भागः अत्र उदाहरणत्वेन दीयते –

  • भीमः- आर्य ! मा मा एवम् । क्षत्रियकुलोत्पन्नः अहम् । पूज्यतमाः खलु ब्राह्मणाः । तस्मात् मच्छरीरेण ब्राह्मणशरीरं विनिमातुम् इच्छामि ।
  • घटोत्कचः – एवं क्षत्रियोऽयं, तेन अस्य दर्पः । भवतु इमम् एव हत्वा नेष्यामि । (भीमं प्रति) अथ केन अयं वारितः ?
  • भीमः – मया
  • घटोत्कचः- किं त्वया ?
  • भीमः – अथ किम् ?
  • घटोत्कचः – ते हि भवान् एव आगच्छतु ।
  • भीमः – एवम् अतिबलवीर्यात् नानुगच्छामि । यदि ते शक्तिरस्ति बलात्कारेण मां नय ।
  • घटोत्कचः –किं मां प्रत्यभिज्ञानीते भवान् ?
  • भीमः –मत्पुत्र इति जाने ।
  • घटोत्कचः (क्रोधेन) कथं ? कथं? तव पुत्रोऽहम्  ?
  • भीमः – कथं रुष्यति ? मर्षयतु भवान् । सर्वाः प्रजाः क्षत्रियाणां पुत्रशब्देन अभिधीयन्ते । अतः एवं मया अभिहितम् ।
  • घटोत्कचः- भीतानाम् आयुधम् गृहीतम् ….----------

मध्यमव्यायोगस्य जीवनदृष्टिः[सम्पादयतु]

• विपदि धैर्यम् –स्वयं भीतः अपि केशवदासः पत्नीपुत्रान् समाश्वास्य अपायं वारयितुं प्रयत्नं करोति । • शरणागतरक्षणम् – ब्राह्मणकुटुम्बस्य रक्षणाय भीमः स्वयं गन्तुं सिध्दः भवति । • त्यजेदेकं कुलस्यार्थे – त्रयः अपि ब्राह्मणकुमाराः कुटुम्बस्य रक्षणार्थं स्वप्राणान् दातुं सिध्दाः भवति । • मातृदेवो भव – घटोत्कचस्य मातृभक्तिः अस्मिन् नाटके अत्यन्तं प्रधाना विद्यते । • क्षमा- भीमः अज्ञानेन घटोत्कचेन कृतम् अपराधं क्षमते ।

सूक्तयः[सम्पादयतु]

  • १. ज्येष्ठो भ्राता पितृसमः ।
  • २. आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण तार्यते ।
  • ३. माता किल मनुष्याणां दैवतानां च दैवतम् ।

मध्य्मव्यायोगस्य पात्राणि[सम्पादयतु]

मध्यमव्यायोगे षड्पुरुषपात्राणि द्वे स्त्रीपात्रे च सन्ति । वृध्दः ब्राह्मणः केशवदासः, तस्य त्रयः पुत्राः, भीमः घटोत्कचश्च षड् पुरुषपात्राणि । ब्राह्मणी, हिडिम्बा च द्वे स्त्रीपात्रे । भीमः अस्य नायकः ।‎

"http://sa.wikipedia.org/w/index.php?title=मध्यमव्यायोगः&oldid=253275" इत्यस्माद् पुनः प्राप्तिः