मध्वसिद्धान्तः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

त्रिषु वेदान्तेषु माध्वसिद्धान्तः प्रसिद्धम् अस्ति। अस्य सिद्धान्तस्य प्रतिपादकः मध्वाचार्यः भवति। मध्वाचार्यस्य अपरं नाम "पूर्णप्रज्ञः" इति। एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य। यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति। तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति। अस्मिन्न दर्शने परमात्म, जीवात्म, जडस्यच परस्परं भेदं निरूपितम् अस्ति। अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति।

अन्तर्विषयाः

प्रमाणम् [सम्पादयतु]

अस्मिन् दर्शने द्वे प्रमाणे वर्तेते। प्रथमं केवलप्रमाणम्, अपरं अनुप्रमाणम् इति। मध्वदर्शनानुसारं यथार्थमेव प्रमाणं भवति। यथार्थो नाम तद्वति तत्प्रकारकोऽनुभवः यथार्थः। रजते इदं रजतम् इति ज्ञानम्।

केवलप्रमाणम् [सम्पादयतु]

यथार्थानुभवः एव केवलप्रमाणं भवति। केवलप्रमाणम् "ईश्वरज्ञानम्", "लक्ष्मीज्ञानम्", "योगिज्ञानम्", "अयोगिज्ञानम्" इति केवलप्रमाणं चतुर्विधम्। सर्वविषयक ईश्वरस्वरूपमेव ईश्वरज्ञानमिति व्यवहारः। ईश्वरोनाम लक्ष्मीपतिः श्रीमन्नारायणः। ईश्वरस्य क्रियागुणौ पूर्णतया नभवतः चेदपि तयोः विद्यमानयोः विशेषांशैः मिलितः चित् प्रकृतेः ज्ञानमेव लक्ष्मीज्ञानमिति। ब्रह्मदेवस्य, ब्रह्मपदव्याय समर्थः यः(ऋजुयोगिः) योगिः तस्य, तत्विकातात्विक योगीणाञ्च ज्ञानम् एव यिगिज्ञानं भवति। मुक्तियोग्यानाम्, नित्यसांसारिकाणाम्, तमोयोग्यानाञ्च जीविनां ज्ञानमेव अयोगिज्ञानं भवति।

अनुप्रमाणम् [सम्पादयतु]

अनुप्रमाणानि प्रत्यक्षम्, अनुमानम्, आगमादीनि भवन्ति।

  • प्रत्यक्षम्- दोषरहितेन्द्रियसन्निकर्षज्ञानम् प्रत्यक्षम्। अस्मिन् आत्मस्वरूपेन्द्रियम् तथा प्राकृतेन्द्रियमिति प्रकारद्वयम्। अज्ञानिजीवस्य इन्द्रियाणि प्राकृतेन्द्रियाणि। ते च प्रकृतेः परिणामरूपम् महत्-अहंकारतत्वानां पंचभूतानाम् संलग्नेन नेत्रादिप्राकृतेन्द्रियाणि भवन्ति ।तदतिरिक्ता आत्मस्वरूपा साक्षी स्वरूपेन्द्रियः इति कथ्यते ।सुखादि जीवधर्माः,अविद्या मनः ,कालः,दिक्, ज्ञानस्य प्रामाण्यादीन् साक्षी एव गृह्यते ।स्वरूपेन्द्रियमपि घ्राणादिभेदेनषड्विधं सत् लिंगदेहस्थसूक्ष्मषडिन्द्रियैः स्थूलशरीरस्थस्थूलेन्द्रियैः मिश्रं तिष्टति । इदम् अबादितम् ज्ञानं भवति। एदमेव आत्मस्वरूपसाक्षिज्ञानं भवति।
  • अनुमानम्- दोषरहितः युक्तिरेव अनुमानं भवति। अनुमानं त्रिविधं भवति। कार्यानुमानम्, कारणानुमानम्, अकार्यकारणानुमानमिति।
  • आगमम्- निर्दोषः शब्दः आगमं प्रमाणं भवति। तच्च द्विविधं पौरुषेयागमं,अपौरुषेयागमं चेति ।अपौरुषेयागमम् तावत् वेदाः। पौरुषेयागमास्तावत् इतिहासपुराणादीनि।

पदार्थः [सम्पादयतु]

अस्मिन् दर्शने दशपदार्थाः सन्ति।

द्रव्यम् गुणः कर्मः सामान्यम् वेशेषः
विशिष्टः अंशि शक्तिः सादृश्यम् अभावः

द्रव्यम् [सम्पादयतु]

अस्मिन् दर्शने २० द्रव्याणि सन्ति।

परमात्म लक्ष्मी जीवः अव्याकृताकाशः
प्रकृतिः गुणत्रय महत्तत्व अहङ्कारतत्व
बुद्धिः मनः इन्द्रियम् तन्मात्राणि
भूतानि ब्रह्माण्डः अविद्या वर्णः
अन्धकारः वासना कालः प्रतिबिम्बः

गुणः [सम्पादयतु]

अस्मिन् दर्शने ४० गुणाः सन्ति।

रूपम् रसः गन्धः स्पर्षः संख्या परिमाणम् संयोगः विभागः परत्व अपरत्व
गुरुत्व लघुत्व मृदुत्व द्रवत्व कठिणत्व स्नेहः शब्दः बुद्धिः सुखम् दुःखम्
इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्कारः आलोकः शम दम दया
तितिक्षा भयम् लज्जा गाम्भीर्यम् सौन्दर्यम् औदार्य स्थैर्यम् शौर्यम् सौभाग्यम् बलम्

कर्म [सम्पादयतु]

अस्मिन् दर्शने त्रीणि कर्माणि भवन्ति। विहित, निषिद्ध, उदासीनेति त्रीणि कर्माणि। विहितकर्म पुनः द्विविधम्, काम्यं तथा अकाम्यमिति। फलापेक्षेण कर्म क्रियते तत् काम्यकर्म इति। देवम् उद्दिष्य कर्म क्रियते तत् अकाम्यकर्म भवति। ब्रह्मादि देवानां सर्वेषां काम्याकाम्यकर्मणि भवतः। जीवेषु निषिद्धकर्म अधिकतया भवति। चलनादीनि उदासीनकर्म इति व्यवहारः।

सामान्यम् [सम्पादयतु]

सामान्यं द्विविधम्। एकं जातिः अपरम् उपाधिः इति। गोत्वम्, मनुष्यत्वम् इत्याद्याः जातयः भवन्ति। सर्वज्ञत्वम्, वाच्यत्वम्, प्रमेयत्वादिकम् उपाधयः भवन्ति। सामन्यं नित्यमनित्यम् इति द्विधा। जीवत्वादीनि नित्यम् भवति। मनुष्यत्वम्, गोत्वमादीनि अनित्यसामान्याम् भवति।

विशेषः [सम्पादयतु]

वास्तविकतया भेदः न भवति चेदपि कश्चन पदार्थः भेदं जनयति सैव विशेषः भवति। सकलवस्तुषु व्यापृतं भवति। अतः विशेषाः अनन्ताः भवन्ति। देवः केवलं विज्ञानानन्दमयः भवति। अयं विशेषः नान्यत्र भवितुम् अर्हति। अनेनैव जीवेश्वरयोः भेदः स्पष्टं भवति।

विशिष्टः [सम्पादयतु]

विशेष्ये वेशेषणस्य सम्भन्धात् यः आकारः उत्पद्यते सैव विशिष्टपदार्थः भवति। विशेष्टः नित्यानित्यभेदेन द्विविधः भवति। सर्वज्ञादिविशिष्टाः ब्रह्मादयः नित्याः भवन्ति। दण्डिमानादयः अनित्याः भवन्ति।

अंशि [सम्पादयतु]

हस्तपादादिभिः विभक्तेषु समग्रावयवेषु व्याप्तम् विशिष्टपदार्थम् अंशिपदार्थः इति व्यवहारः।

शक्तिः [सम्पादयतु]

सहजशक्तिः, पदशक्तिः, आधेयशक्तिः, अचिन्त्यशक्तिः इति चतुर्धा विभक्ता अस्ति।

  • कार्यमात्रं प्रति अनुकूलास्वाभाविका या शक्तिः सा "सहजा" भवति। सर्वेषु व्यापृतं भवति। पदार्थभेदेन एषा नित्यानित्या इति विभाक्ता अस्ति।
  • पदपदार्थयोः विद्यमाना(वाच्य-वाचक) शक्तिः "पदशक्तिः" भवति। पदशक्तिः द्विवधा भवति। मुख्य, परममुख्येति द्विधा। उदहरणार्थं “इन्द्रः” इति पदस्य देवेन्द्रः इति अर्थः मुख्यवृत्या लभ्यते। परमेश्वरः इति अर्थः परमुख्यवृत्या लभ्यते इति। परममुख्यवृत्या पदानि सर्वाणि परमेश्वरमेव बोधयन्ति इति।
  • अन्यस्मात् स्थापितां शक्तिम् "आधेयशक्तिः" इति व्यवहारः। विधिवत्तया प्रतिष्ठापितमूर्तौ देवातासानिध्यं यत् भवति सा आधेयशक्तिः इति।
  • परमात्मनि अलौकिकां शक्तिम् "अचिन्त्यशक्तिः" इति भावयन्ति। एषा केवलं विष्णौ एव भवति।

सादृश्यम् [सम्पादयतु]

साम्यता यत्र भवति तत्र सादृश्यम् भवति इति व्यवहारः। अयं घटः इति ज्ञानं भवति, कालान्तरे घटान्तरं दृष्ट्वा सादृश्यात् अयं घटः इति ज्ञानमायाति।

अभावः [सम्पादयतु]

अभावः चतुर्धा विभक्तः अस्ति। प्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः, अत्यन्ताभावश्चेति। "प्रागभावोनाम" घटोत्पत्तेः पूर्वस्थितिः(घटप्रागभावः)। घटस्य नाशानन्तरस्थितिः "प्रध्वंसाभावः"। घटः पटो न इति तु "अन्योन्याभावः" भवति। शशविषाणः "अत्यन्ताभावः" भवति।

मध्वसिद्धान्तस्य वैशिष्ट्यम् [सम्पादयतु]

अन्यसिद्धान्तेषु तुलनात्मकतया मध्वसिद्धान्तस्य अध्ययने कृते मध्वसिद्धान्तेन अङ्गीकृताः प्रमेयविषयाः एव मध्वसिद्धान्तस्य वैसिष्ट्यं ज्ञायते।ते च प्रमेयविशेषाः तावत् - भेदः,तारतम्यज्ञानं, हरिसर्वोत्तमत्वं, स्वतप्रामाण्यं, जगत्सत्यत्वं, नैजसुखानुबूतिरेव मुक्तिः, भक्त्या एव मुक्तिः, प्रत्यक्षादित्रित्रयं प्रमाणं । भेदः -मध्वसिद्धान्ते तावत् पञ्चविधः भेदः अङ्गीकृतः।ते च ईश्वर-जीवभेदः,ईश्वर-जडभेदः,जीव-जीवभेदः,जड-जडभेदः,जीव-जडभेदः। एतादृशभेदश्च धर्मिस्वरूपः, न अतिरिक्तपदार्थः इति तु मध्वसिद्धान्तः। स्वतप्रामाण्यं - यस्य ज्ञानं येन इन्द्रियेण जायते तद्गतप्रामाण्यमपि तेनैव इन्द्रियेण ज्ञायते। इति वचयनानुसारेण प्रामाण्यस्य परतस्त्वं नाङ्गीक्रीयते। मुक्तिः -मुक्तिस्तावत् चतुर्विधं सारुप्यं,सायुज्यं,सामिप्यं इति। एतद् चतुर्विधम् च स्वरूपानन्दानुर्भाव रूप एव। किन्तु मोक्षे अपि तारतम्यम् भगवन्नियामकत्वम् अस्त्येव।

बाह्यसम्पर्कतन्तुः [सम्पादयतु]