मध्वाचार्यः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मध्वाचार्यः ।

श्रीमध्वाचार्यः ।
जन्मतिथिः क्रि.श. १२३८ ।
जन्मस्थानम् पाजकक्षेत्रम्, उडुपीमण्डलम्, कर्णाटकराज्यम्, भारतम्
पूर्वाश्रमनाम वासुदेवः
मृत्युतिथिः क्रि.श. १३१७ ।
तत्त्वचिन्तनम् द्वैतम्/तत्त्ववादः
सम्मानाः द्वैतसिद्धन्तप्रतिष्ठापनाचर्यः ।
साहित्यिककृतयः गीताभाष्यम् । गीतातात्पर्यम् । ब्रह्मसूत्रभाष्यम् । अनुव्याख्यानम् । न्यायविवरणम् । अणुभाष्यम् ।


हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

मध्वाचार्यः (कन्नड: ಮಧ್ವಾಚಾರ್ಯ, आङ्ग्ल: Madhvacharya) (१२३८-१३१७) वेदान्तशास्त्रस्य प्रवर्तक आसीत् । "आनन्दतीर्थः" इति तस्याऽपरं नाम । नारायणपण्डिताचार्यः 'सुमध्वविजय'नामके ग्रन्थे श्रीमदाचार्यस्य जीवनचरित्रं वर्णितवान् । भारतस्य दर्शनशास्त्रेषु 'द्वैतं’ प्रमुखं विशिष्टं च शास्त्रं वर्तते । तस्य शास्त्रस्य प्रवर्तकः मध्वाचार्यः । 'अयं वायुदेवस्य अवतारः, अपि च अयं हनुमत्-भीम-अवतारयोः परं मध्वाचार्यस्य अवतारं प्राप' इति ख्यातिः ।

आचार्यस्य जन्म १२३८ तमे वर्षे पाजकक्षेत्रे अभवत् । पाजक इति ग्राम उडुपी इत्यस्य नगरस्य समीपे अस्ति । मध्वाचार्यः मध्यगेहभट्ट-वेदवती इति दम्पत्यो: पुत्र: । पितरौ बालकस्य 'वासुदेव' इति नामकरणं कृतवन्तौ । ११ वर्षीयो वासुदेव: संन्यासं स्वीकृतवान् । १२४९ तमे संवत्सरे वासुदेव: अच्युतप्रज्ञ इति आचार्यात् नामदीक्षां स्वीकृतवान् । आचार्यः अच्युतप्रज्ञः वासुदेवाय 'पूर्णप्रज्ञ' इति नाम दत्तवान् । तस्य अगाधं पाण्डित्यं दृष्ट्वा आचार्य: 'आनन्दतीर्थः' इति अपरं नाम दत्तवान् । किन्तु आचार्यः मध्वस्तु श्रुतिप्रतिपादितेन (यदी मनु प्रदिवो मध्व आदवे इति मन्युसूक्ते) 'मध्व' इति नाम्ना एव प्रसिद्धः । तस्य सिद्धान्तस्य नाम तत्त्ववादः इति । किन्तु मध्वाचार्यस्य सिद्धान्तः 'द्वैतमतम्' इत्येव प्रसिद्ध: ।

इतिहासः[सम्पादयतु]

सुमध्वविजयः इति नारायणपण्डिताचार्यस्य महाकाव्यं मध्वाचार्यस्य जीवनचरित्रं, वैशिष्ट्यं च वर्णयति । 'अयं मध्वाचार्यः हनुमत्-भीम-अवतारयोः परं वायुदेवस्य तृतीयः अवतारः' इति तस्य प्रख्यातिः । एतस्य पिता नडिल्लाय (मध्यगेह) नारायण भट्टः । माता वेदवती । एकदा अनन्तेश्वरदेवालयस्य उत्सवे कश्चित् मानवः एकस्य दीर्घस्तम्भस्य उपरि आरुह्य सर्वान् उद्दिश्य उवाच 'लोके शास्त्रसंरक्षणार्थं जीवोत्तमः वायुदेवः पाजकक्षेत्रे सद्यकाले अवतारं प्राप्नोति' इति । तदनुसारेण क्रि.श.१२३८ तमे वर्षे पाजकक्षेत्रे मध्यगेहभट्टस्य निरन्तरभगवत्सेवया एव एतस्य जन्म अभवत् । एतस्य पूर्वाश्रमस्य नाम वासुदेव इति । बाल्यावस्थायामेव अनेकचमत्कारान् प्रदर्श्य वायुदेवस्य अवतारत्वं अप्रकटयत् । शास्त्रसंरक्षणार्थं भुवि आगतः सः एकादशे वयसि अच्युतप्रज्ञात् संन्यासदीक्षां स्वीकृत्य पूर्णप्रज्ञः इति नामं प्राप्तवान् ।

त्रयोदशे (१३) शतमाने प्रचलितायां बृहत्सभायां नैकविद्वद्वरेण्यै: पृष्टानां प्रश्नानां सुललिततया उत्तरं दत्वा सर्वज्ञसूरिः इति उपाधिं प्राप्नोति । स्पष्ट-सुललित-व्याख्यानमेव मध्वाचार्यस्य पाण्डित्यस्य वैशिष्ट्यम् । एवं वेदस्य अर्थत्रयं, महाभारतस्य दशार्थं, विष्णुसहस्रनामस्य शतार्थं प्रदर्श्य एषः केरळे 'विश्वम्' इति पदस्य पञ्चाशदधिकार्थान् प्रतिपादितवान् इति तु मध्वाचार्यस्य पाण्डित्यं द्योतयति ।

मध्वसिद्धान्तः[सम्पादयतु]

मध्वाचार्यस्य कृतयः[सम्पादयतु]

शिष्याः[सम्पादयतु]

मध्वाचार्येण प्रभाविताः शिष्याः नैके । तत्र च शास्त्रसंरक्षणार्थं संन्यासदीक्षां स्वीकृतवन्तः प्रमुखाः । तेषु अन्यतमः पद्मनाभतीर्थः शास्त्रप्रचारार्थं रामक्षेत्रादिषु नियुक्तः । तदन्याः अष्टयतयः उडुपीक्षेत्रे शास्त्रप्रचारार्थम्, एवं मध्वाचार्येण प्रतिष्ठापितस्य श्रीकृष्णस्य आराधननिर्वहणाय च नियुक्ताः । पञ्चदशे (१५) शतमाने वादिराजतीर्थेन श्रीकृष्णदेवालयस्य पुरतः एव सर्वेषां अष्टयतीनां कृते पृथक् रूपेण अष्ट मठाः स्थापिताः । मध्वाचार्यस्य चत्वारः साक्षात् शिष्याः तु-

उडुपीक्षेत्रस्य अष्टमठानां मूलयतयः

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=मध्वाचार्यः&oldid=275331" इत्यस्माद् पुनः प्राप्तिः