मध्वाचार्यः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
मध्वाचार्यः ।

श्रीमध्वाचार्यः ।
जन्मतिथिः क्रि.श. १२३८ ।
जन्मस्थानम् पाजकक्षेत्रम्, उडुपीमण्डलम्, कर्णाटकराज्यम्, भारतम्
पूर्वाश्रमनाम आनन्दतीर्थः
मृत्युतिथिः क्रि.श. १३१७ ।
तत्त्वचिन्तनम् द्वैतम् ।
सम्मानाः द्वैतसिद्धन्तप्रतिष्ठापनाचर्यः ।
साहित्यिककृतयः गीताभाष्यम् । गीतातात्पर्यम् । ब्रह्मसूत्रभाष्यम् । अनुव्याख्यानम् । न्यायविवरणम् । अणुभाष्यम् ।
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

मध्वाचार्यः (१२३८-१३१७) वेदान्तशास्त्रस्य प्रवर्तक आसीत्। "'आनन्दतीर्थः"' इति तस्याऽपरं नाम । नारायणपण्डिताचार्यो 'मध्वविजय' इति ग्रन्थे श्रीमदाचार्यस्य जीवनचरित्रं लिखितवान् । भारतस्य दर्शनशास्त्रेषु ’द्वैतं’ प्रमुखं विशिष्टं च शास्त्रं वर्तते । तस्य शास्त्रस्य प्रधानः आचार्यः मध्वाचार्यः भवति । ’अयं वायु-भीम-अवतारयोः परं मध्वाचार्यस्य अवतारं प्राप’ इति प्रख्यातम् ।

आचार्यस्य जन्म १२३८ तमे वर्षे पाजकक्षेत्रे अभवत् । पाजक इति ग्राम उडुपीनगरस्य समीपे अस्ति । मध्वाचार्यो मध्यगेहभट्ट - वेदवती इति दम्पत्यो: पुत्र:। मातापितरौ बालकस्य 'वासुदेव' इति नामकरणं कृतवन्तौ । ११ वर्षीयो वासुदेव: संन्यासं स्वीकृतवान् । १२४९ तमे संवत्सरे वासुदेव: अच्युतप्रज्ञ इति आचार्याद् नामदीक्षां स्वीकृतवान् । आचार्यः अच्युतप्रज्ञो वासुदेवाय 'पूर्णप्रज्ञ' इति नाम दत्तवान् । तस्य अगाधं पाण्डित्यं दृष्ट्वा आचार्य: 'आनन्दतीर्थः' इति नाम दत्तवान् । किन्तु श्रुतिप्रतिपादित 'मध्व' (यदी मनु प्रदिवो मध्व आदवे)इति नाम्ना एव प्रसिद्धः । तस्य सिद्धान्तस्य नाम ' तत्ववादः ' इति । किन्तु मध्वाचार्यस्य सिद्धान्तः 'द्वैतमतम्' इत्येव प्रसिद्ध:।

अन्तर्विषयाः

इतिहासः [सम्पादयतु]

मध्वविजयः इति नारायणपण्डिताचार्यस्य महाकाव्यं मध्वाचार्यस्य जीवनचरित्रं वैशिष्ट्यं प्रदर्शयति । ’अयं मध्वाचार्यः हनुमत्-भीम-अवतारयोः परं वायुदेवस्य अवतारः’ इति प्रख्यातम् । एतस्य पिता नडिल्लाय (मध्यगेह)नारायण भट्टः । माता वेदावती । एकदा अनन्तेश्वरदेवालयस्य उत्सवे कश्चित् दीर्घस्तम्भस्य उपरि आरुह्य सर्वान् उद्दिश्य उवाच ’लोके शास्त्रसंरक्षणार्थं जीवोत्तमः वायुदेवः पाजकक्षेत्रे सद्यकाले अवतारं प्राप्नोति’ इति । तदनुसारेण क्रि.श.१२३८तमे वर्षे पाजकक्षेत्रे मध्यगेहभट्टस्य निरन्तरभगवत्सेवया एव एतस्य जन्म अभवत् । एतस्य पूर्वाश्रमस्य नाम वासुदेवः इति । बाल्यावस्थायामेव अनेकचमत्कारान् प्रदर्श्य वायुदेवस्य अवतारत्वं प्रकटयति । शास्त्रसंरक्षणार्थं आगतः सः एकादशे वयसि अच्युतप्रज्ञात् सन्यासदीक्षां स्वीकृत्य पूर्णप्रज्ञः इति नामं प्राप्नोति । १३तमे शतमाने प्रचलितब्रुहत्सभायां नैकविद्वद्वरेण्यै: पृष्टानां प्रश्नानां सुललिततया उत्तरं दत्वा सर्वज्ञसूरिः इति प्रथां प्राप्नोति ।स्पष्ट-सुललित-व्याख्यानमेव मध्वाचार्यस्य वैश्ष्ट्यं । एवं वेदस्य अर्थत्रयं , महाभारतस्य दशार्थं ,विष्णुसहस्रनामस्य शतार्थं प्रदर्शितः एषः केरळा मध्ये 'विश्वं' इति पदस्य पञ्चाशदधिकार्थान् प्रतिपादयति तत्तु मध्वाचार्यस्य पाण्डित्यं द्योतयति ।

मध्वसिद्धान्तः [सम्पादयतु]

मध्वाचार्यस्य कृतयः [सम्पादयतु]

शिष्याः [सम्पादयतु]

मध्वाचार्येण प्रभावितः शिष्याः नैके । तत्र च शास्त्रसंरक्षणार्थं सन्यासदीक्षाम् स्वीकृतवन्तः प्रमुखाः । तेषु अन्यतमः पद्मनाभतीर्थः शास्त्रप्रचारार्थं रामक्षेत्रादिषु नियुक्तः । तदन्याः अष्टयतयः उडुपीक्षेत्रे शास्त्रप्रचारार्थं, एवं मध्वाचार्येण प्रतिष्टापितस्य श्रीकृष्णस्य आराधने निर्वहणे च नियुक्ताः । १५ तमे शतमाने वादिराजतीर्थेन श्रीकृष्णदेवालयस्य पुरतः एव सर्वेषां अष्टयतीनां कृते पृथकरूपेण अष्ठमठाः स्थापिताःम् । ते च शिष्याः

उडुपेः अष्टमठानां मूलयतयः

बाह्यानुबन्धाः [सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=मध्वाचार्यः&oldid=235240" इत्यस्माद् उद्धृतम्