मनाली
| {{{official_name}}} ilanam |
|||
|---|---|---|---|
| मनाली | |||
| Coordinates: 32°16′N 77°10′E / 32.27°N 77.17°ECoordinates: 32°16′N 77°10′E / 32.27°N 77.17°E | |||
| देशः | भारतम् | ||
| राज्यम् | हिमाचलप्रदेशः | ||
| मण्डलम् | कुलु | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2005) | |||
| • Total | १७,७८६ | ||
| भाषाः | |||
| • अधिकृताः | हिन्दी | ||
| IST (UTC+5:30) | |||
| PIN | 175131 | ||
| Telephone code | +911902 | ||
प्रपातनगरम् इत्यपि ख्यातम् अस्ति एतत् नगरम् । ‘मनु’ इति शब्दतः मनाली इति नाम आगतम् अस्ति । पुराणानुसारं प्रलयकाले मनुमहर्षिः सप्तर्षिभिः सह अत्र नौकया आगतवान् । प्रपाते यदा जलं पूर्णमभवत् तदा उन्नते प्रदेशे स्थितवान् । अनन्तरं पुनः नवसृष्टिं कृतवान् । एकां नदीम् अत्रैव त्यक्त्वा गतवान् सा नदी मानरलु इति प्रसिद्धा अस्ति । मनालीप्रदेशे मनुमहर्षेः मन्दिरम् अस्ति । अत्र स्थितः हिडिम्बादेवालयः धुङ्ग्रिटेम्पल् नाम्ना ख्यातम् अस्ति । वसिष्ठगुहा इति स्थाने उष्णजलनिर्झरः अस्ति । जगत्सुख (६ कि.मी), अर्जुनगुम्फ्(गुहा), नेहरुगुम्फ, सोलाङ्ग् -उपत्यका (१४. कि.मी) रोहताङ्ग्पास् (५६कि.मी) इत्यादिस्थानानि दर्शनीयानि सन्ति । बियास्नद्याः शिलासु प्रवहणदृश्यं मनमोहकमस्ति । हिमपर्वतेभ्यः पर्वतशिखराणां दर्शनं मनालीप्रदेशस्य वैशिष्ठयम् अस्ति । मनालीस्थाने शीतकाले ग्रीष्मकाले च विविधाः क्रीडाः प्रचलन्ति । स्कीयिङ्ग्, हेलीस्कीयिङ्ग् मौण्टेनियरिङ्ग्, कियाकिङ्ग्, हैकिङ्ग् इत्यादयः । युवजनानां जनप्रियं ‘हनिमून् प्लेस्’(मधुचन्द्रस्थानम्) विवाहानन्तरीयप्रवासस्थानम् इति अस्य प्रसिद्धिः अस्ति ।
अन्तर्विषयाः |
मार्गः [सम्पादयतु]
शिम्लातः २३५ कि.मी ।
विमाननिस्थानम् [सम्पादयतु]
भुन्तार् इति
धूमशकटनिस्थानम् [सम्पादयतु]
चण्डीगढ समीपनिस्थानम् ।
वाहनमार्गः [सम्पादयतु]
जोगिन्दरनगरतः ४५ कि.मी । पठानकोटतः २८५ कि.मी । धर्मशालातः २१४ कि.मी । चण्डीगढतः ५१२ कि.मी । वसत्यर्थम् अनेकानि आहारवसतिगृहाणि सन्ति ।