मनोवार्ता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मनोवार्ता
मन की बात
Narendra Modi during Mann ki Baat in 2014
शैली भारतविषयकी चर्चा
समयः ११ AM
देशः भारतगणराज्यम्
भाषा हिन्दी, आङ्ग्लम्
आकाशवाण्याः नाम आकाशवाणी
दूरदर्शनानुकूलता अधिकतमेषु वार्तादूरदर्शनेषु प्रसारितं भवति ।[१]
सूत्रधारः नरेन्द्र मोदी
आरम्भः ०३/१०/२०१४
श्रोतारः भारतगणराज्यस्य नागरिकाः
जालस्थानम् pmonradio.nic.in
ध्वन्योदाहरणम्

मनोवार्ता ( /ˈmənvɑːrtɑː/) (हिन्दी: मन की बात, गुजराती: મનની વાત, वङ्ग: মনের কথা, तमिळ: ஆன்மாவின் குரல்) उत मन की बात इत्ययं कश्चन आकाशवाणीकार्यक्रमः वर्तते । तस्य कार्यक्रमस्य सूत्रधारः भारतगणराज्यस्य वर्तमानप्रधानमन्त्री नरेन्द्र मोदी अस्ति । तस्मिन् कार्यक्रमे आकाशवाणीमाध्यमेन श्रीनरेन्द्रः भारतीयान् उद्दिश्य मनोवार्ताः करोति [२][३][४] । तस्य कार्यक्रमस्य आरम्भः २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य तृतीये (०३/१०/२०१४) दिनाङ्के अभवत् [५]

उद्देशः[सम्पादयतु]

भारतगणराज्यस्य प्रधानमन्त्रिणः इच्छा आसीत् यत्, सः जनसामान्यं सम्बोद्ध्य स्वमनसः विचाराणां चर्चां कुर्यात् इति । अतः मासे एकवारं सः आकाशवाण्याः माध्यमेन भारतीयान् सम्बोधयति । अनेन देशसम्बद्धाः अनेके विषयाः प्रधानमन्त्रिणा जनानां सम्मुखं उपस्थापिताः भवन्ति । सर्वकारस्य प्रयत्नविषये जनानां ज्ञानं भवति च [६]

किमर्थम् आकाशवाणी[सम्पादयतु]

भारतदेशः विकासशीलदेशः वर्तते । अतः भारतगणराज्ये अनेकानि स्थलानि, ग्रामाः, प्रदेशाः च सन्ति, यत्र दूरदर्शनस्य आधिक्यं नास्ति । तथा च एकस्य संशोधनस्य आधारेण मन्यते यत्, आकाशवाण्याः विस्तारः आभारतं नवतिप्रतिशतं (९०%) वर्तते [७] इति । भारतगणराज्ये विद्यमानाः व्यक्तिगत-आकाशवाण्यः आकाशवाण्या प्रत्यायिताः यत्, ताः स्वाकाशवाण्यां मनोवार्तायाः प्रसारणं कर्तुं प्रभवन्ति इति । एवं प्रधानमन्त्रिणः मनोवार्तायाः लाभम् अधिकाधिकजनाः स्वीकर्तुं शक्नुयुः इति विचिन्त्य आकाशवाणीमाध्यमस्य चयनम् अभवत् । आकाशवाणी वार्तादूरदर्शनाय अपि प्रसारणस्य अधिकारान् अयच्छत् ।

प्रसारणम्[सम्पादयतु]

२०१४ तमस्य वर्षस्य अक्तूबर-मासस्य तृतीये (०३/१०/२०१४) दिनाङ्के "मनोवार्ता" उत 'मन की बात' कार्यक्रमस्य आरम्भः अभवत् [५] । तस्मिन् दिने विजयादशमी पर्व आसीत् [८][९] । ततः क्रमेण २/११/२०१४, १४/१२/२०१४, २७/१/२०१५, २२/०२/२०१५ दिनाङ्केषु मनोवार्ताकार्यक्रमस्य प्रसारणम् अभवत् [१०]

आर्थिकलाभः[सम्पादयतु]

आकाशवाण्या मनोवार्ता-कार्यक्रमस्य यत् प्रसारणं भवति, तस्य प्रसारणस्य अधिकाराः आकाशवाण्या अन्येभ्यः वार्ताप्रसारणसंस्थाभ्यः अपि प्रदत्ताः । कार्यक्रमः २४० विभिन्नाभिः वार्ताप्रसारणसंस्थाभिः मनोवार्ता-कार्यक्रमः प्रसिद्धः भवति । मनोवार्ता-कार्यक्रमस्य प्राक् यानि विज्ञापनानि प्रकाश्यन्ते, तैः आकाशवाण्याः आये वृद्धिः अभवत् । प्रतिदशक्षणं द्विलक्षरूप्यकाणि विज्ञापनस्य मूल्यम् अस्ति । सामान्यतः आकाशवाण्यां ५०० तः १५०० रूप्यकाणि प्रतिदशक्षणं मूल्यं भवति । तस्मिन् मूल्ये प्रति कार्यक्रमं वृद्धिः भवति [११][१२]

प्रकरणानि[सम्पादयतु]

अङ्कः दिनाङ्कः विषयः चित्रम्
०३/१०/२०१४ प्रधानमन्त्री श्रीनरेन्द्रः भारतीयान् आग्रहेण अकथयत्, "दीनानां समृद्ध्यै खादी-वस्त्रस्य क्रयणं कुर्वन्तु" इति । सः स्वच्छभारताभियानस्य विषये अपि चर्चाम् अकरोत् । तेन सह मङ्गलयानस्य सफलप्रक्षेपणस्य, कौशलविकासस्य, विकलाङ्गबालकानां, mygov.in-आख्यस्य जालस्थानस्य च चर्चाम् अकरोत् [१३]
०२/११/२०१४ प्रधानमन्त्री श्रीनरेन्द्रः भारतसर्वकारस्य विभिन्नानाम् उपक्रमाणां (initiatives) विषये चर्चाम् अकरोत् । तेषु विकलाङ्गबालकेभ्यः छात्रवृत्तेः (scholarship) चर्चाम् अकरोत् । विकलाङ्गबालकेभ्यः आधारभूतसुविधाः (Infrastructure) प्रदातुं विभिन्नाभ्यः संस्थाभ्यः अनुदानस्य विषये चर्चाम् अकरोत् । स्वच्छभारताभियानस्य सकारात्मकप्रयत्नानां विषये स्वास्थ्यसम्बद्धां चर्चाम् अपि अकरोत् । दीपावल्याः पर्वदिनेषु सियाचिन-प्रदेशस्य तस्य यात्रायाः विषये, नियुक्तैः भारतीयसैनिकैः सह सम्भाषणस्य विषये च चर्चां कुर्वन् सः भारतीयसैनिकेभ्यः नमस्कारं व्याहरत् [१४]
१४/१२/२०१४ प्रधानमन्त्री श्रीनरेन्द्रः माद्यपदार्थेषु आसक्तानां यूनां विषये चर्चाम् अकरोत् । तेन सह युवभ्यः 'to say no to drugs' इति घोषवाक्यम् अयच्छत् । सः अकथयत्, "यत् धनं माद्यपदार्थानां क्रयणे व्ययीतं भवति, तस्य धनस्य उपयोगः आतङ्कवादिगतिविधिषु भवतुं शक्नोति" इति । सः अकथयच्च, "निश्शुल्कतया (toll-free) सहायकरेखायाः (helpline) आरम्भः भविष्यति । तया सहायकरेखया माद्यपदार्थव्यसनिनां, तेषां परिवारसदस्यानां च साहाय्यं भविष्यति" [१५] इति ।
२७/०१/२०१५ प्रधानमन्त्रिणः श्रीनरेन्द्रेण सह सूत्रधारत्वेन बराक ओबामा मनोवार्तायां भागम् अवहत् । उभौ अतिसंवेदनशीलप्रश्नानाम् उत्तराणि भारतीयेभ्यः अयच्छताम् । संयुक्तराष्ट्र-अमेरिका-देशे येभ्यः राजनेतृभ्यः ओबामा प्रभावितः अस्ति, तेषाम् उल्लेखम् अपि सः अकरोत् [१६]
२२/०२/२०१५ प्रधानमन्त्री श्रीनरेन्द्रः विद्यार्थिनः सम्बोद्ध्य परीक्षासम्बद्धाः अनेकाः चर्चाः अकरोत् । तासु चर्चासु परीक्षाभयमुक्तिः, आत्मविश्वासः इत्यादयः अन्तर्भवन्ति [१७]
२२/०३/२०१५ प्रधानमन्त्री श्रीनरेन्द्रः भारतीयकृषकान् सम्बोद्ध्य भूम्यधिकरणविधेयकविषये चर्चाम् अकरोत् । विधेयके ये दोषाः सन्ति, तेषां निराकणम् आवश्यकम् । भूम्यधिकरणसम्बद्धानां विधेयकानां भूम्यधिकरणविधयके अन्तर्भवनम् अभवत् इति सः अवदत् । विधेयके क्षतिपूर्तेः (Compensation) नियमेषु न किमपि परिवर्तनम् अभवत् । भूम्यधिकरणविधेयके क्षतिपूर्तेः धने (Compensation amount) न्यूनता कृता इति भ्रमसन्देशः विरोधिभिः प्रसारितः वर्तते । [१८]
२६/०४/२०१५ प्रधानमन्त्री श्रीनरेन्द्रः अवदत्, अद्य मनोवर्तां कर्तुं मनः एव नास्ति । यतः मनः भारम् अनुभवति, व्यथां च अनुभवति । पूर्वमासे यदा अहं मनोवार्तां कुर्वन् आसम्, तदा अकालवर्षायाः समाचारान् श्रुतवान्, कृषकाणाञ्च सस्यघ्ना (पाक का नाश से) हानिः अभवत् । केभ्यश्चन दिनेभ्यः पूर्वं बिहारराज्ये वातप्रकोपेन अनेके मृताः । शनिवासरे भयङ्करः भूकम्पः विश्वम् अकम्पयत् । एवं भाति यत्, प्राकृतिकापदां श्रृङ्खलायाः सर्जनम् अभवत् । नेपालदेशे भूकम्पेन अधिका हानिः अभवत् । भारतेऽपि अनेकेषु राज्येषु अपि भूकम्पेन अनेके मृताः, आहताश्च । परन्तु नेपालदेशस्य हानिः अतिभयङ्करा अस्ति [१८] । ततः नेपालदेशे द्विवर्षीयायाः बालिकायाः जीवितनिष्कासनस्य, स्वफ्रांसदेशस्य यात्रायाः, भारतीयसैनिकानां पराक्रमस्य, बाबा साहेब आम्बेडकर-महोदयस्य जन्मजयन्त्याः, बालिकाशिक्षायाः च विषये चर्चाम् अकरोत् [१९]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मनोवार्ता&oldid=481714" इत्यस्माद् प्रतिप्राप्तम्