मयूरः
| मयूरः | ||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Male Indian Peacock on display. The elongated upper tail coverts make up the train of the Indian peacock.
|
||||||||||||||
| वैज्ञानिक वर्गीकरण | ||||||||||||||
|
||||||||||||||
| Species | ||||||||||||||
मयूरः ( Peacock)) सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य बर्ही इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव 'मयूरयष्टिः' इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।
वाहनम् [सम्पादयतु]
एषः मयूरः स्कन्दस्य (कुमारस्वामिनः/षण्मुखस्य) वाहनम् । केचन एनं सरस्वत्याः अपि वाहनमिति कथयन्ति ।
मयूरस्य केकी , भुजङ्गभुक् , शिखी , नीलकण्ठः इत्यादीनि नामानि सन्ति । मयूरस्य बर्हे विविधाः वर्णाः सम्भूय वर्तन्ते । तेषां सम्मेलनं 'जातीयसमैक्यं' सूचयति । तस्मात् मयूरः 'जातीयविहङ्गः' इति निर्णीतः ।
अस्माकं राष्ट्रियः पक्षी [सम्पादयतु]
मयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते । क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवान तदा सः मयूराणां सौन्दर्यं दृष्ट्वा नितरां व्यामुग्धः सन ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवान आसीत इति श्रूयते । संस्कृतभाषायां मयूरस्य पर्यायपदम् अस्ति वर्ही इति एत्स्य बर्हे नेत्ररुपाः आकाराः बहवः भवान्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः निलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तअः मयूरः पक्षिजातिषु एव सुन्द्दरतमः । मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्र् युक्ताताभ्रमः जायते प्रतिवर्षं मयूरस्य पुच्छस्य पिञ्छाः पतन्ति , नूतनाः उत्पद्यन्ते च । तान् सङ्गृह्य रमणीयानि व्यजनानि निर्मीयन्ते । चक्रवर्तिना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धम् । एतस्मिन् मयूरपिञ्छाः योजिताः सन्ति । पर्शियादेशीयः (अद्य तस्य देशस्य नाम इरान् इति ) आज्क्राम्कः नादिरशाहः अमूल्यम एतत् मयूरसिंहासनं स्वस्य देशं पर्ति नीतवान् । भगवान् श्रीकृष्णः स्वस्य शिखायां मयूरपिञ्छं धरति । भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।
| भारतीयस्य मूयूरस्य केका (स्वरः) सञ्चिकायाः श्रवणे समस्या भवति वा? ? पश्यतु माध्यम-साहाय्यम्। |