मरीचकषायम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कृष्णवर्णस्य श्वेतवर्णस्य च मरीचम्

मरीचेन निर्मितं कषायम् एव मरीचकषायम् । मरीचम् आङ्ग्लभाषायां Pepper इति वदन्ति ।

अस्य मरीचकषायस्य प्रयोजनानि[सम्पादयतु]

१ एतत् मरीचकषायम् आरोग्यार्थं बहु उत्तमम् ।
२ मरीचकषायस्य पानेन पीनसः, कासः, कण्ठवेदना, शरीरवेदना, शिरोवेदना, कफः इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
३ वृष्टिकालस्य शैत्यकालस्य च आरम्भे एव सामान्यानां रोगाणां निवारणार्थम् अपि एतत् मरीचकषायं पातुं शक्यते ।
४ मरीचकषायं प्रतिदिनम् अपि पानीयत्वेन अपि पातुं शक्यते ।
५ मरीचकषायस्य पानेन शरीरस्य औष्ण्यम् अपि न्यूनं भवति ।
६ उष्णतायाः आधिक्येन जातानां रोगाणां निमित्तम् अपि मरीचकषायम् उत्तमम् औषधम् ।

अस्य मरीचकषायस्य निर्माणम्[सम्पादयतु]

मरीचं सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र जीरिकाचूर्णं, शुण्ठीं, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=मरीचकषायम्&oldid=423145" इत्यस्माद् प्रतिप्राप्तम्