मल्लस्तम्भक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मल्लस्तम्भक्रीडा(Mallakhamb) भारतदेशस्य साम्प्रदायिकक्रीडासु अन्यतमा ।

मल्लस्तम्भक्रीडा दृश्यम्

एषा क्रीडा महाराष्ट्रराज्ये आरब्धा । मराठी भाषायाम् अस्याः क्रीडायाः नाम मल्लखांब अथवा मलखांब इति वर्तते । हिन्दीभाषायां मल्खम्ब अथवा मल्लखम्भ इति प्रसिद्धं वर्तते । शरीरस्य सर्वस्मिन् भागे न्यूनसमये अधिकप्रभावकारी व्यायामस्य क्रीडा वर्तते ।

मल्लस्तम्भक्रीडकाः

इतिहासः[सम्पादयतु]

अस्याः क्रीडायाः इतिहासः अतीव प्राचीनः वर्तते इति मन्यते । परन्तु, लिखितरूपेण आधारः न लभ्यते । रामायणकाले हनुमान् अस्याः क्रीडायाः शोधः कृतवान् इति श्रूयते । ११३५ तमे वर्षे सोमेश्वर चालुक्यवर्येण लिखितः मानसोल्लासः इति ग्रन्थे मल्लस्तम्भक्रीडायाः वर्णनं कृतं वर्तते । महाराष्ट्रराज्ये पेश्वशासनकाले एनां क्रीडां बहु क्रीडन्ति स्म । पेश्वशासनकाले मल्लस्तम्भक्रीडायाः व्यायामागारः सम्पूर्णभारतदेशे आरम्भं कृतवन्तः । गुराखी जातीय जनानाम् अस्याः क्रीडायां महत्त्वं वर्तते ।

क्रीडा स्वरूपम्[सम्पादयतु]

दारु स्तम्भः[सम्पादयतु]

मल्लस्तम्भः दारुणा निर्मितः स्तम्भः भवति । एषः स्तम्भः ८ फीट् भवति । एषः स्तम्भः भूमेः अन्तः दृढतया स्थापितः भवति । भूमेः उपरितन भागः गोलरूपेण भवति ।

रज्जुः[सम्पादयतु]

मल्लस्तम्भक्रीडा रज्जोः उपयोगं कृत्वाऽपि क्रीडन्ति । एषः रज्जुः २० फीट् भवति ।

संस्थाः[सम्पादयतु]

  • मुम्बई उपनगरजिल्ला मलखाम्ब सङ्घटना
  • साने गुरुजी आरोग्यमन्दिरम्
  • हौशी मलखाम्ब सङ्घटना
  • अकोला जिल्ला मलखाम्ब सङ्घटना
  • नाशिक जिल्ला मलखाम्ब सङ्घटना

स्पर्धाः[सम्पादयतु]

  • जिल्ला निवड स्पर्धा
  • जिल्ला अजिङ्क्यपद स्पर्धा
  • भाऊसाहेब रानडे नवोदित मलखाम्बस्पर्धा
  • प्रबोधन मल्लखाम्बस्पर्धा
  • आन्तरशालेय मलखाम्बस्पर्धा
  • मुम्बई महापौरचषकम्
  • अखिलभारतीय निमंत्रित मलखाम्बस्पर्धा
  • राज्यस्तरीय मिनी स्पर्धा
  • सबज्युनिअर मलखाम्बस्पर्धा
  • मारिषस् विश्व मलखाम्बस्पर्धा
"https://sa.wikipedia.org/w/index.php?title=मल्लस्तम्भक्रीडा&oldid=382197" इत्यस्माद् प्रतिप्राप्तम्