मसूरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । हिमालयशिखराणि अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे केम्प्रीफालस् भट्टफाल्स् स्तः । अत्युन्नतं स्थानं लालतिलनामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागरस्तरतः २००० मीटर् उन्नतप्रदेशोऽयं क्यामल्स् बाक्स् , अथवा गन् हिल् स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । लाक् मण्ड्ल् (३५ कि.मी.) स्थले शिवदेवालयः अस्ति । अत्रैव कौरवाः पाण्डवान् लाक्षागेहे दग्धुं प्रयत्नं कृतवन्तः इति महाभारते उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः ।

मार्गः[सम्पादयतु]

देहरादूनतः २२ कि.मी. दूरे अस्ति। देहली- सहरानपूर- देहरादून् मार्गः ।

आवासः[सम्पादयतु]

वासार्थमत्र उत्तमवसतिगृहाणि सन्ति।

वीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मसूरी&oldid=364517" इत्यस्माद् प्रतिप्राप्तम्