महाकविः माघः
| {{{नाम}}}} {{{जन्म}}}-{{{मरणम्}}} |
||||||||||||||||||
| {{{भावचित्रम्}}} | ||||||||||||||||||
|
||||||||||||||||||
|
संस्कृते प्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधमप्येकम् । महाकविर्माघः अस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।
अन्तर्विषयाः |
जन्मवृत्तान्तः [सम्पादयतु]
शिशुपालवधस्य अन्ते पञ्चसु पद्येषु माघः किञ्चिन्निवेदयति । तदनुसारेण ज्ञायते माघस्य पितामहः सुप्रभदेवः य: किल वर्मलातनाम्नो राज्ञः मन्त्री बभूव । माघस्य पितुः नाम दत्तकः इति ।
देशकालादयः [सम्पादयतु]
राजास्थानस्य वसन्तपुरप्रदेशे वर्मलातराजस्य कञ्चन शिलालेखः सम्प्राप्तः । अस्य लेखस्य समयः क्रि. श. ६२५ इति निश्चितः । अयमेव वर्मलातः यदि माघपितामहस्य आश्रयदातेति सम्भाव्यते तर्हि माघस्य समयः प्रायः क्रि. श. ६७५-७५० भवेदिति सम्भाव्यते । शिशुपालवधस्य द्वितीयसर्गस्थितः,
-
-
- अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
- शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥
-
इति श्लोकः काशिकावृत्तिं (क्रि. श. ६५०), जिनेन्द्रबुद्धिन्यासं च (क्रि. श. ७००) प्रकारान्तरेण निर्दिशन् माघस्य पूर्वोक्त्तं समयं सममर्थयतीव ।
कृतयः [सम्पादयतु]
शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । शिशुपालवधस्य कथावस्तु महाभारतात् संगृहीतम् । यदुनन्दनोऽत्र नेता, वीरस्तु प्रधानरसः । इन्द्रेण प्रेषितो नारदः द्वारकायां श्रीकृष्णमुपगम्य शिशुपालवधाय प्रोत्साहयति । तस्मिन्नेव समये श्रीकृष्णः युधिष्ठिरेण राजसूययागाय आहूतो भवति । कार्यद्वयाकुलो वासुदेवः उद्धवेन बलरामेण च समं संमन्त्र्य राजसूयं गच्छति तत्र शिशुपालं निहन्ति च ।
प्रशंसा [सम्पादयतु]
काव्यशास्त्रमर्मज्ञः माघः बहुविद्यापारङ्गतः वैदिकधर्मतत्त्वज्ञश्चासीदिति शिशुपालवधपरिशीलनेन निश्चेतुं शक्यते ।
"उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥"
"तावभ्दा भारवेर्भाति यावन्माघस्य नोदयः ।"
"नवसर्गे गते माघे नवशब्दो न विद्यते"
इत्यादयः माघकवेः प्रशंसापराः उक्तयः विराजन्ते ।