महानिम्बिसस्यम्
| एक्स्प्रेशन गलती: अनपेक्षित < ओपरेटर | ||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
पर्णानि पुश्पाणि तथा फलम्
|
||||||||||||||
| वैज्ञानिक वर्गीकरण | ||||||||||||||
|
||||||||||||||
| द्विपद नाम | ||||||||||||||
| Melia azedarach L. |
||||||||||||||
| पर्याय | ||||||||||||||
|
Melia australis Sweet |
||||||||||||||
इदं महानिम्बिसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारतस्य सर्वेषु प्रदेशेषु वर्धते । एतत् दर्शनेन निम्बूकस्य सस्यम् इव भाति । किन्तु अस्य फलानि निम्बूकानाम् अपेक्षया महाकारकाणि भवन्ति । अतः एव अस्य नाम “महानिम्बिसस्यम्” इति उच्यते । अस्य संस्कृते “हिमद्रुम” इति अपरं नाम अपि अस्ति । अस्मिन् पीतवर्णीयः रासायनिकः अंशः अत्यन्तं क्रियाशीलः अस्ति ।
इतरभाषासु अस्य महानिम्बिसस्यस्य नामानि [सम्पादयतु]
इदं महानिम्बिसस्यस्यम् आङ्ग्लभाषया “पर्शियन् लिलाक्” इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Melia Azedarah इति । इदं हिन्दीभाषया “बकायन्” इति, तेलुगुभाषया “कोण्डवेप” इति, तमिळ्भाषया “मलैवेम्बु” इति, बङ्गभाषया “गोरेनीम्” इति ,"महानीम्" इति च, मराठीभाषया “विलायिति नीम्” इति, कन्नडभाषया “तुरुकबेवु” अथवा “हुच्चबेवु” अथवा चेक्कबेवु” इति उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य महानिम्बिसस्यस्य प्रयोजनानि [सम्पादयतु]
अस्य महानिम्बिसस्यस्य रसः अपि निम्बवृक्षस्य रसः इव तिक्तः । अतः एव अस्य नाम कन्नड – मराठी – बङ्गभाषाभिः निम्बसदृशम् अस्ति ।
- १. इदं महानिम्बिसस्यं क्रिमिनिवारकम् । प्रातः रिक्तोदरे अस्य रसस्य सेवनेन उदरे विद्यमानाः जन्तवः नश्यन्ति ।
- २. अस्य पर्णानां स्वरसः क्रिमिनाशकः, ज्वरहरः अपि ।
- ३. अस्य पर्णानि, पुष्पाणि च शिरोवेदानायां लेपत्वेन उपयुज्यन्ते ।
- ४. अस्य पर्णानां स्वरसः चर्मरोगेषु बाह्यलेपत्वेन, औषधत्वेन चापि उपयुज्यते ।
- ५. कासे पीनसे च अस्य रसः मधुना सह सेवनीयः ।