महामस्तकाभिषेकः
कर्णाटके हासनमण्डले स्थिताः सर्वे मार्गाः प्रायः श्रवणाबेळगोळाभिमुखाः भविष्यन्ति फेब्रवरीमासस्य द्वितीये सप्ताहे । एषः उत्सवः प्रतिद्वादशवर्षं प्रचलति । सर्वे जैनमतावलम्बिनः एतम् उत्सवम् औत्सुक्येन प्रतिक्षन्ते सदापि । जगतः नानाकोणेभ्यः ३०,००,००० अधिकाः जनाः एतस्मिन मस्तकाभिषेकोत्सवे भागं गृह्णन्ति। ५७ पादोन्नतस्य (१७.५.मी) अद्वितीयस्य अखण्डशिलालानिर्मितस्य बाहुबलिनः मूर्तेः मस्तकाभिषेकः जगति एव सुविख्यातः । चतुर्विंशतितमेन (२४)तीर्थङ्करेण वर्धमानमहावीरेण जैनमतस्य प्रसारः महता प्रमाणेन कृतः । आदिनाथः ऋषभदेवः प्रथमः तीर्थङ्करः । सः आसीत् कश्चन राजा । सः राज्यं परित्यक्तुम् ऐच्छत् । अतः सः राज्यं द्विधा विभज्य एकं भागं ज्येष्ठपुत्राय भरताय, अपरं भागं कनिष्ठाय पुत्राय बाहुबलिने च अर्पितवान् । भरतस्य चक्रवर्तीत्वं न अनुमतं बाहुबलिना । यद्यपि तयोः मन्त्रिणः युद्धम् एव् उचितं भावितवन्तः, तथापि तौ सहोदरौ निर्णीतवन्तौ यत् मल्लयुद्धमात्रेण एव शक्तिमत्त्वं निश्चेतव्यम् इति । एतस्मिन् युद्धे जयं प्राप्तवान् अपि बाहुबली राज्यं न ऐच्छत् । साम्राज्यं परित्यज्य सः विविक्ते देशे अन्नं जलं वापि असेवमानः तपः आचरत् । अचिरात् एव सः निर्वाणं प्राप्तवान् । बहूनां वर्षाणाम् अनन्तरं, तन्नाम दशमे शतके, चावुण्डरायः गङ्गवंशीयस्य द्वितीयस्य राचमल्लस्य मन्त्री जातः । यत्र बाहुबली निर्वाणं प्राप्तवान्| तं पौदनपुरप्रदेशं प्रति सः कदाचित मातरं नीतवान् । मातापुत्रयोः स्वप्ने भगवती कूष्माण्डिनीदेवी प्रत्यक्षीभूय आज्ञापितवती यत चन्द्रगिरौ स्थित्वा दक्षिणभागस्थम् इन्द्रगिरिं प्रति बाणः प्रयोक्तव्यः इति । अनन्तरदिने चावुण्डरायः सुवर्णमयं बाणम् इन्द्र्गिरिं लक्ष्यीकृत्य प्रयुक्तवान् । तदा तेन बाहुबलिनः मूर्तिः तत्र अक्षिसात्कृता । ततः सः तत्रत्यायां शिलायां बहुबलिनः मूर्तेः उत्कृन्तनम् अकारयत् । बहूनां शिल्पिनाम् अविरतेन परिश्रमेण मूर्तिनिर्माणं समाप्तिम् अगात् । ९८१ तमे क्रिस्ताब्दे मार्चमसस्य १३ दिनाङ्के चामुण्डरायः प्रथमं मस्तकाभिषेकं निर्वर्तितवान् । सः ‘गोम्मट’ शब्देन निर्दिश्यते स्म । गोम्मटेशरः अर्थः ‘सुन्दरः’ इति । गोम्मटस्य आराध्यदेवः गोम्मटेश्वरः इति नाम प्राप्नोत् । मस्तकाभिषेकासवसरे भारतस्य प्रमुखाणां नदीनां जलैः, नारिकेलबालाम्बुना, इक्षुरसेन, मधुना, क्षीरेण, हरिद्राजलेन, श्रीगन्धरसेन, पुष्णैः च अभिषेकः क्रियते ।