महाराणा प्रतापसिंहः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
राजा रविवर्मणा चित्रितः महाराणा प्रतापः

पीठिका[सम्पादयतु]

अस्माकं पूर्वजानां स्मरणम् अस्मभ्यम् अद्भुतकार्यकरणे प्रेरणां ददाति । ये पुरुषाः स्वजीवने विशिष्टं महत्कार्यं चक्रुः ते एव भविष्यति काले जनैः संस्मर्यन्ते । तेषां जीवनघटनाः अन्येभ्यः शिक्षाप्रदाः दिक्प्रदर्शकाश्च भवन्ति । भारतभूमिः कर्मभूमिः त्यागभूमिः इति च स्वदेशीयैः विदेशीयैश्च ग्रन्थेषु बहुधा वर्ण्यते । इयं सनातनभूमिः धन्या यस्याः प्रतिपदं श्रेष्ठनरनारीणां जीवनगाथाभिः प्रतिध्वन्यते । भारतीयेतिहासे केचन तपसा ज्ञानेन ग्रन्थग्रथनेन प्रसिद्धिमापन्नाः । एते ऋषयः, मुनयः, दार्शनिकाः कवयः इत्यादिनामभिः आख्यायन्ते । अन्ये केचन शौर्येण त्यागेन देशप्रेम्णा वा आचन्द्रार्कं कीर्तिम् आर्जयन् । ब्रह्मेण तेजसा केचन भूमिम् इमां भूषयामासुः । अपरे वीराः क्षात्रेण ओजसा भारतभूमेः धर्मं संस्कृतिं जनताञ्च संररक्षुः । तादृशेषु अन्यतमः राणाप्रतापसिंहः । भारतस्य पश्चिमस्यां दिशि सहस्त्राधिकवर्षेभ्यः आक्रमणं भवति स्म । इमं देशं बहुसम्पदा भरितमिति मन्वानाः वैदेशिकाः तां सम्पदम् आत्मसात् कर्तुम् आगच्छन्ति स्म । तथैव वाणिज्यार्थमपि आगच्छन्ति स्म । तद्विंरुद्धं राजसंथानप्रदेशे राजपुत्राः आक्रमकानां प्रतिरोधाय महान्तं प्रयत्नं चक्रुः । एतेषां राजपुत्राणां शौर्यगाथाः महिलानां त्यागनिष्ठाः च अद्यापि यूनः स्वदेशकार्ये प्रेरयन्ति ।

जन्म, साधनञ्च[सम्पादयतु]

'मेवाड' इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे (१५४०) वर्षे जातः । तस्य पिता उदयसिंहः । तस्मिन् समये बहवो राजानः मोगलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरमहाशयः देहल्यां शासनं करोति स्म । स अन्यराजेषु विद्यमानं परस्परकलहम् एव उपयुज्य आत्मनः शक्तिम् अवर्धयत । तेन वशीकृताः केचन राजानः तस्य सेवायां रताः आसन् । देशरक्षणार्थं सर्वदा बद्धपरिकरेषु राजपुत्रेष्वेव स्वकर्तव्यविरतेषु का कथा अन्येषां राज्ञाम् ? सर्वथा भरतभूमिः वैदेशिकपदाक्रान्ता दास्यदूषिता च आसीत् । इत्थम् अन्धतमसे सर्वत्र व्याप्ते राणाप्रतापः दीपशिखेव आत्मगौरवस्य मूर्तिरिव तस्मिन् कालखण्डे भ्राजते स्म । यद्यपि प्रतापस्य पिता उदयसिंहः प्रतापी राजा आसीत्, किन्तु तस्य दुर्बलतायाः कारणेनैव चित्तौड- मेवाडादिस्थानानि अन्यवशानि अभूवन् । पितुरनन्तरं सिंहासनम् अधिरुढः राणाप्रतापः हस्तच्युतानां प्रमुखानाम् एतेषां स्थानानां विषये पुनः प्राप्तिमार्गविषये च चिन्तयितुम् आरेभे । प्रथमं सः गण्यानां सभाम् आकारितवान् । तत्र तेषां पुरतः यावत्पर्यन्तं चित्तौडस्थानं पुनः न प्राप्स्यामि तावत्पर्यन्तं स्वर्णरजतादिपात्रेषु भोजनं न करिष्यामि, मृदुशयने न शयिष्ये, राजप्रासादे न वत्स्यामि इति प्रतिज्ञां स्वीकृतवान् । तदानीं हल्दीघाटप्रदेशे वैरिभिः सह घोरं युद्धं सम्बभूव । वैरिणां सैन्यं समुद्रोपमम् आसीत् । प्रतापः रणरङ्गे घोरम् अयुध्यत । किन्तु पूर्णजयं प्राप्तुं नाशक्तम् । स्वस्य आप्तस्य अश्चस्य चैतकाख्यस्य साहाय्यं सः सर्वदा पाप्तवान् । तेन सः आपदः आत्मानं रक्षितुं शक्तः आसीत् । अरण्यगुहाप्रदेशेषु उषित्वा स्वसङ्कल्पसिद्धये सैन्यसङ्ग्रहणम् उपाक्रमत् ।

उदयपुरे विद्यमानः महाराणाप्रतापस्य प्रतिमा

कष्टपरम्परा[सम्पादयतु]

यदा राणाप्रतापसिंहः अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव । एकत्र सर्वदा वैर्याक्रमणशङ्का अन्यत्र आहाराभावात् पुत्रकलत्राणां कष्टपरम्परा अतीव वेदनाकरी बभूव । एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणजूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित् - किञ्चिद्भागं दत्तवती । स्वपुत्र्यै अपि रोटिकां दत्त्वा "तस्याः अर्धमेव खादित्वा अवशिष्टमर्धं परेद्युः भक्षणार्थं रक्ष " इति सूचितवती । स्वप्रियदुहितुः परेद्युः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचत् । एतादृशं दारुणं कारुण्यपूर्णञ्च जीवनं सर्वेऽपि परिवारः व्यतीयाय । बहुभ्यः दिनेभ्यः पर्याप्ताहारस्य अलाभात् क्षुधिता बालिका तदानीमेव रोटिकां खादितुम् आरेभे । तावति काले कुतश्चित् अकस्मादागतः कश्चन अरण्यमार्जालः बालिकायाः ह्स्तात् रोटिकामाकृष्य कुत्रचित् अधावत् । बालिका महता दुःखेन आक्रन्दितुम् उपचक्रमे । एतत् करुणापूर्णं दृश्यम् अवलोक्य कठोरहृदयस्य प्रतापस्यापि मनः अद्रवत् । कष्टपरम्परायाः अपि काचन सीमा भवेत् । मानवस्य सहनशक्तिः मितियुता वर्तते । राणाप्रतापसदृशोऽपि पुरुषः एतद्दारुणं दृश्यं दृष्ट्वा सन्धिं प्रस्तोतुमनाः आसिदिति श्रूयते । सन्धिपत्रमपि प्रेषितवानिति केचन वदन्ति । किन्तु स्वीकृतां प्रतिज्ञां स्मरन् नानाविधं कष्ट्म् अनुभवन्नपि दृढमनस्को भूत्वा पुनः सैन्यशक्तिं वर्धयितुकामः सिन्धुनदीप्रदेशं जगाम । तत्र कार्यनिष्ठान् वीरराजपुत्रान् एकीकृत्य स्वसङ्कल्पसिद्ध्ये प्रायतत । तदैव एकस्मिन् दिने राजस्थानसीमाप्रान्तम् अतीत्य यदा रणाप्रतापः गच्छन्नासीत् तदा एकः वृद्धः आजगाम । सैन्यसङ्ग्रहणं तत्प्रशिक्षणञ्च बहुवित्तव्ययसाध्यं कार्यम् । महता दारिद्र्येण परितप्यमानस्य प्रतापस्य इदमेव बहुचिन्ताकारणम् आसीत् । कथञ्चित् स्वसङ्कल्पसिद्ध्ये सः कुत्रापि गन्तुं सिद्धस्सन् राजस्थानसीमामतीत्य जिगमिषुरासीत् । एनमुदन्तं श्रुत्वा भामाशाहनामा सः वृद्धः किमपि महत्कार्यं कर्तुं कालः समायातः इति भावितवान् । सः राणाप्रतापस्य पूर्वजानाम् आस्थाने अमात्यः आसीत् । सः बहुधनमपि अर्जितवान् । सः प्रतापम् उवाच -"प्रभो अहं भवद्वंशस्य सेवकः, मम हस्ते प्रभूतं धनं विद्यते । तेन भवान् पञ्चविंशतिसहस्त्रसैनिकान् द्वादंशवर्षपर्यन्तं पालयितुं प्रभविष्यति" इति । तदा प्रतापः प्रोवाच "नैतद्धनं स्वीकर्तुम् अहम् इच्छामि । कुत्रापि गत्वा धनं सङ्ग्रहिष्यामि" इति । तदा भामाशाहः प्रावोचत् "नैतद्धनं परकीयम् । देशरक्षणार्थं मया अर्जितमिदं धनं यदि सहायकं भवति तर्हि मम जीवनं सार्थकं भवेत्" इति । वृद्धस्य भामाशाहस्य वचनं श्रुत्वा आनन्देन राणाप्रतापस्य मनः कृतज्ञतापूर्णं बभूव सः तद् बहुधनं सम्प्राप्य सैन्यशक्तिसङ्ग्रहकार्यं प्रारेभे । तदानीम् अन्यतोऽपि वित्तं प्राप्तम् । तत्सर्वम् उपयुज्य सः महासैन्यं रचयामास ।

सङ्घर्षः[सम्पादयतु]

मेवाडराज्यस्य मुख्यसङ्घर्षः मुघलसेनया सह आसीत् । प्रतापस्य शासनावधौ 'अकबर'इति नामकः मुधलसम्राट् आसीत् । प्रतापस्य २५ वर्षाणां शासनकाले अकबरस्य सेनया सह अनेकवारं युद्धम् अभवत् । मुख्यं युद्धं हल्दीघाटीस्थाने अभवत्, अतः एव एतत् 'हल्दीघाटीयुद्धम्' इति नाम्ना प्रसिद्धम् अस्ति । तत् युद्धम् ईश्वीयीये १५७६ तमे वर्षे २९ तमे दिनाङ्के प्रारब्धम् । अस्मिन् युद्धे प्रतापः 'चेतक'इति नामकम् अश्वम् आरुह्य बहु शौर्यं प्रदर्शितवान् । प्रतापस्य सेना पर्वतीययुद्धेषु बहुकुशला आसीत् । अतः एव मुघलसेनायाः बहु क्षतिः अभवत् । स्थानीयजनानां विरोधस्य कारणेन मुधलसेना परावर्तिता । प्रतापस्य सैनिकाः वीराः साहसयुक्ताः च आसन् । प्रतापः अपि दृढनिश्चयवान् आसीत् । यद्यपि ईश्वरीयं १५८५ तमं वर्षं यावत् अकबरस्य सेनया सह प्रतापस्य वारं-वारं युद्धम् अभवत् । तथापि प्रतापः कदापि पराजयं न स्वीकृतवान् ।

मरणम्[सम्पादयतु]

प्रतापः स्वजन्मस्थानमेव परित्यज्य गतवानिति तस्य शत्रवः परिहासरताः आसन् । इतः परं पुनः स योद्धम् आगच्छेदिति स्वप्नेऽपि ते न चिन्तयन्ति स्म । किन्तु महाराणाप्रतापः तेषां निरीक्षां मिथ्यां कृत्वा पराक्रन्तां स्वकीयराज्यसीमाम् अपूर्वेण पराक्रमेण स्वाधीनां कर्तुम् अभ्यपतत् । हस्तच्युतान् राज्यस्य भूप्रदेशान् एकस्य अनन्तरमम् एकमिति क्रमेण जित्वा वैरिहृदये भीतिम् उत्पादयामास । 'मोही', 'गोगुन्दा', 'माण्डल', 'उदयपुरम्', 'पिण्डवाडा' इत्यादयः प्रमुखाः आसन् । १५८५ तमे वर्षे प्रतापः 'चावण्ड'नामकं स्थानं स्वराजधानीं कृतवान् । तत्र परिश्रमेण सुव्यवस्थां स्थापितवान् । तस्मिन् काले 'चावण्ड'स्थानं भवननिर्माणकलायाः, ललितकलायाः, वाणिज्यस्य, विद्यायाः च प्रमुखं स्थानम् आसीत् । तत्र संस्कृतसाहित्यस्य लेखनं अपि विद्वद्भिः कृतम् । एतावति काले एव महतीं कष्टपरम्पराम् अनुभूय जर्जरितः तस्य देहः ततः परमपि महान्तं श्रमम् अनुभवितुं समर्थः नासीत् । जयमालायाम् एकैकशः तस्य ग्रीवायां विराजमानायामपि चित्तौडजयमाला तस्य कण्ठं नालञ्चकार इति अतृप्तिरासीत् । किन्तु देहपरित्यागकाले आत्मना प्रशिक्षितान् यूनः दृष्ट्वा तैः चित्तौडप्राप्तिविषये प्रदत्ते आश्वासने विश्वस्य निश्चिन्तः सन् १५९५ तमे वर्षे जनवरीमासस्य १९ दिनाङ्के सः परमात्मनि लीनः सम्बभूव ।

"

"http://sa.wikipedia.org/w/index.php?title=महाराणा_प्रतापसिंहः&oldid=276470" इत्यस्माद् पुनः प्राप्तिः