महाराष्ट्र
विकिपीडिया इत्यस्मात्
महाराष्ट्र भारतस्य पश्चिमे प्रान्त: अस्ति. मुम्बई इती महाराष्ट्रस्य रजधानी. अन्याः नगरा: नागपुर, पुणे, शोलापुर इत्यादयः. महाराष्ट्रस्य पश्चिमे सिंधु सागरः, उत्तरे दादरा च नगर हवेली मध्यप्रदेशः च स्तः. तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्र प्रदेशः तथा दक्षिणदिशायां कर्नाटकः गोवा च. महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति. महारष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति च. महाराष्ट्र एकः अतीव धनसम्पन्नः प्रन्तः. अयं प्रान्तः भारतस्य सकल गृह उत्पादे १३.२% औद्योगिक उत्पादे १५% च योगदानं करोति.
[संपादयतु] इतिहासः
भारतीय स्वतंत्र्यसंग्रामे महाराष्ट्रराज्यस्य मुम्बई नगर्याः च योगदानं अपूर्वमासीत्. भारतीय काँग्रेस इति संगठनस्य प्रथमं सम्मेलनं अत्रैव अभवत्. तथा हि पूजनीयैः महत्मगांधीमहोदयैः 'मुच्यतां भारतवर्षम्' इति घोषणा द्विचतुर्नवैकमिते ख्रिस्तब्दे ऑगस्ट-मासस्य नवम्यं तिथौ गोवालियाटॅंकतः एव दत्त आसीत्. तदा सकलः अपि देशः रोमाञ्चितः अजायत्. स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यं अग्रेसरमासीत्. यतः रज्ये अस्मिन् महात्मफुलेराजर्षीशाहूछत्रपतिः, भारतरत्नडॉ. आंबेडकरमहोदया अग्रगण्यः समाजसुधारका अपि महाराष्ट्रराज्यमिदं अलंकृतवंतः. लोकमान्यतिलकसदृशा अभूतपूर्वा राष्ट्रीयाः नेतारः अत्र जनिमलभंत.
शून्यषण्णवैकमिते मे मासस्य प्रथमदिनांके महाराष्ट्रराज्यं निर्मितम्. ततः प्रभृति:रज्येनानेन प्रगतिपथे एवं पदं कृतम्.
[संपादयतु] भूगोलः
महाराष्ट्रस्य पश्चिमे सिंधु सागरः, उत्तरे दादरा च नगर हवेली मध्यप्रदेशः च स्तः. तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्र प्रदेशः तथा दक्षिणदिशायां कर्नाटकः गोवा च. महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति.
सह्याद्री पर्वतमाला (वा पश्चिम घाट) महाराष्ट्रस्य तीरस्य समांतरः अस्ति. तस्याः पश्चिमे कोंकण तटमैदानं वर्तते. पर्वतमालायाः पूर्वदिशायां दक्खिन अधित्यका. अस्यां बहवः नद्याः स्रोतः.
महाराष्ट्रे ३५ जनपदाः. अपि च षड्विभागाः सन्ति. औरंगाबाद, अम्रावति, कोंकण, नागपुर, नाशिक, पुणे च एते षड्विभागाः. भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पंचविभागाः. विदर्भ वा बेरर (नागपुर च अम्रावति), मराठवाडा (औरंगाबाद), खान्देश च उत्तरमहाराष्ट्र (नाशिक), देश वा पश्चिम महाराष्ट्र (पुणे), कोंकण च ते पंचविभागाः.