महाराष्ट्रराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(महाराष्ट्रम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।
महाराष्ट्रम्
—  राज्यम्  —

मुद्रिका
भारतदेशे महाराष्ट्रराज्यम्
महाराष्ट्रस्य मानचित्रम्
Coordinates (मुम्बई): 18°58′N 72°49′E / 18.96°N 72.82°E / 18.96; 72.82Coordinates: 18°58′N 72°49′E / 18.96°N 72.82°E / 18.96; 72.82
देशः भारतम्
स्थापनादिनम् १ मे १९६० (महाराष्ट्रदिनम्)
राजधानी मुम्बई
बृहत् नगरम् मुम्बई
मण्डलानि ३५
सर्वकारः
 • Body Government of Maharashtra
 • राज्यपालः [[]]
 • Chief Minister पृथ्विराज चव्हाण (INC)
 • Parliamentary constituency 48
 • High Court Mumbai High Court
विस्तीर्णता
 • संहतिः ३,०७,७१३ Square km (१,१८,८०८.७ Square mile)
क्षेत्रविस्तारः 3rd
जनसङ्ख्या (2011)
 • संहतिः ११२
 • रैङ्क् 2nd
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-MH
HDI increase 0.689 (medium)
HDI rank ७ तम (२००५)
साक्षरता 82.9% (6th)
लिङ्गानुपातः 922 (2001)
अधिकृता भाषा मराठी
जालस्थानम् maharashtra.gov.in



महाराष्ट्रराज्यम् (मराठी: महाराष्ट्रराज्य आङ्ग्ल: Maharashtra State) भारतस्यय पश्चिनमदिशि विद्यमानं किञ्चन राज्यम् अस्ति|, मुम्बई इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः । भारतस्य विस्तारे ९.८४% विस्तारः महाराष्ट्रराज्यस्य अस्ति । राज्यस्य पश्चिमदिशि अरबी समुद्रः वर्तते । मुम्बई महाराष्ट्रराज्यस्यस्य राजधानी, नागपुरनगरं महाराष्ट्रराज्यस्य उपराजधानी ।

भूगोलम्[सम्पादयतु]

महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ दक्षिणपूर्वदिशायाम् आन्ध्रप्रदेशः तथा दक्षिणदिशायां कर्णाटकं गोवा च इति राज्यानि सन्ति । महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति ।

जनसङ्ख्या[सम्पादयतु]

महाराष्ट्रराज्यस्य जनसङ्ख्या(२०११) ११२,३७४,३३३ कोटी अस्ति । अस्मिन् ५८,२४३,०५६ पुरुषाः, ५४१३१२७७ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.९९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ८२.३४% अस्ति । मण्डलेऽस्मिन् ४२.२२% जनाः नगरेषु निवसन्ति । क्षेत्रफलदृष्टया महाराष्ट्रराज्यं भारते तृतीयं तथा लोकसङ्ख्यादृष्ट्या द्वितीयं राज्यम् अस्ति ।

नाम्नः उगमः[सम्पादयतु]

अशोकस्य काले "राष्ट्रिक" अनन्तरं "महाराष्ट्र" इति नाम्ना प्रसिद्धः अयं परिसरः इति ह्युएन्-त्सांगादि पथिकानां मतम् । राज्यस्य 'महाराष्ट्र' इति नाम प्राकृतभाषायां 'महाराष्ट्री' शब्दात् निर्मितं जातम् इति मन्यते । केषाञ्चित् मते अस्य राज्यस्य नाम "महाकान्तार" (महान् वनम्-दण्डकारण्यम्) इति शब्दस्य अपभ्रंशः वर्तते ।

इतिहासः[सम्पादयतु]

भारतीयस्वातंत्र्यसङ्ग्रामे महाराष्ट्रराज्यस्य मुम्बईनगरस्य च योगदानम् अपूर्वमासीत् । काङ्ग्रेस इत्यस्य प्रथमं सम्मेलनं अत्रैव अभवत् । तथा हि महात्मागान्धीमहोदयेन ९ अगस्त १९२४ दिनाङ्के अत्रत्यगोवालियाटैङ्कतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत् । तदा समग्रः देशः रोमाञ्चितः अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रणीः आसीत् । यतः महात्मा फुले, राजर्षिशाहु, डॉ. आम्बेडकरमहोदयसदृशाः अग्रगण्याः समाजोद्धारकाः महाराष्ट्रराज्यमिदम् अलङ्कृतवन्तः । लोकमान्यतिलकसदृशाः अभूतपूर्वाः राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्तः । १ मे १९६० दिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृतिः राज्यमिदं प्रगतिपथे एव अस्ति ।

संयुक्तमहाराष्ट्रान्दोलनम्[सम्पादयतु]

महाराष्ट्रराज्यस्थापना ऐतिहासिकः महत्वपूर्णविषयः । संयुक्तमहाराष्ट्रान्दोलनं महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० तः १९६० पर्यन्तम् आन्दोलनम् अभूत् । १९६० पर्यन्तं पश्चिममहाराष्ट्रविभागः 'मुम्बईराज्ये', मराठवाडाविभागस्य ५ उपमण्डलानि हैदराबाद्संस्थाने, विदर्भविभागस्य ८ मण्डलानि मध्यप्रान्ते (इदानीन्तनमध्यप्रदेशे) समाविष्टानि आसन् । यद्यपि केन्द्रसर्वकारेण 'भाषानुसारेण राज्यरचना भवेत्' इति निर्णयः १९५० तमे वर्षे एव कृतः, तथापि भाषानुसारं विभाजनं न जातमत्र । अतः १० वर्षाणि यावत् आन्दोलनं कृतं, महत्परिश्रमेण, बहूनां जनानां बलिदानेन च १ 'मे' १९६० दिने महाराष्ट्रराज्यस्य स्थापना जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजनाः, कर्मकरजनाः, कृषकाः, विचारवन्तः जनाः भागं गृहीतवन्तः । अतः इदम् आन्दोलनम् अभिव्यापकम् आसीत् ।

महाराष्ट्रस्य षण्णां विभागानां मानचित्रम्

सह्याद्री पर्वतश्रेणिः (वा पश्चिमघट्टाः) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेशः वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन शैलप्रस्थः अस्ति । एषः बह्वीनां नदीनां स्रोतः अस्ति । महाराष्ट्रे ३५ मण्डलानि अपि च षड्विभागाः सन्ति । ते -औरङ्गाबाद, अमरावती, कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः । विदर्भः (नागपुरम्अमरावती), मराठवाडा (औरङ्गाबाद), खान्देशः उत्तरमहाराष्ट्रं (नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोङ्कणं च ते पञ्चविभागाः ।

लोकसंस्कृतिः[सम्पादयतु]

महाराष्ट्र राज्यस्य लोकसंस्कृतिः विशिष्टा । राज्यस्य यथा पञ्चविभागाः भवन्ति, तत्र तत्र संस्कृत्याम् किञ्चित् भेदाः दृश्यन्ते, परं तदपि वैशिष्ट्यपूर्णमेव । महाराष्ट्रराज्यस्य संस्कृतिमध्ये काव्यं, शास्त्रं, विनोदः, नाटकं, चित्रपटः, नृत्यं, कला सर्वं द्रष्टुं शक्नुमः । वैविध्यपूर्णा एषा संस्कृतिः । इदानीं महाराष्ट्रराज्ये सर्वे भाषिकाः जनाः आगत्य निवसन्ति, परं मूलभाषा महाराष्ट्री-मराठी एव । महाराष्ट्रस्य विस्तारः अपि बृहत् अतः तावत् वैविध्यमपि अनुभवामः । राज्यमिदं कृषिप्रधानम् अतः तस्य प्रभावमपि दृश्यते ।

आहारपद्धतिः[सम्पादयतु]

ये पञ्चविभागाः, तेषु आहारसंस्कृत्यां भिन्नता दृश्यते । प्रत्येकस्मिन् विभागे कृष्युत्पादनरूपेण यत् किमपि उपलभ्यते तदनुसारं विकल्पमस्ति । सामान्यतः प्रतिदिने आहारे रोटिका 'भाकरी'वा, उपलब्धिनुसारं शाकं वा शाकानि, ओदनम्, अवलेहः, उपसेचनं, पर्पटश्च समाविष्टः अस्ति । इतोऽपि मिष्टान्नम्, समारोहदिने विशेषपदार्थान् यथा - पुरणपोळी, जिलेबी(कुण्डलिका),बुंदी इत्यादिकं खादन्ति । नगर, ग्राम निवसनपद्धत्यनुसारमपि आहारे वैविध्यम् अनुभवामः ।


महाराष्ट्रराज्यस्य विभागाः -


औरङ्गाग्गाबादविभागः अमरावतीविभागः कोङ्कणविभागः नागपुरविभागः नाशिकविभागः पुणेविभागः
औरङ्गाबादमण्डलम् अमरावतीमण्डलम् ठाणेमण्डलम् नागपुरमण्डलम् नन्दूरबारमण्डलम् पुणेमण्डलम्
जालनामण्डलम् बुलढाणामण्डलम् रत्नागिरिमण्डलम् भण्डारामण्डलम् धुळेमण्डलम् सातारामण्डलम्
बीडमण्डलम् अकोलामण्डलम् रायगढमण्डलम् गोन्दियामण्डलम् जळगावमण्डलम् कोल्हापुरमण्डलम्
लातूरमण्डलम् वाशिममण्डलम् सिन्धुदुर्गमण्डलम् वर्धामण्डलम् नाशिकमण्डलम् साङ्गलीमण्डलम्
उस्मानाबादमण्डलम् यवतमाळमण्डलम् मुम्बयीमण्डलम् चन्द्रपुरमण्डलम् अहमदनगरमण्डलम् सोलापुरमण्डलम्
नान्देडमण्डलम् --- मुम्बयीनगरमण्डलम् गडचिरोलीमण्डलम् --- ---
हिङ्गोलीमण्डलम् --- --- --- --- ---
परभणीमण्डलम् ---- -- --- --- ---

प्रमुखनगराणि[सम्पादयतु]

  • मुम्बई - नगरमिदं राजधानीत्वेन विद्यते । राज्यस्य पश्चिमभागे विद्यमानं नगरमिदम् । भारतदेशस्य आर्थिक-मनोरञ्जन-राजधानी अस्ति । रोजगारप्राप्त्यर्थं आभारतात् जनाः अत्र आगच्छन्ति ।
  • नागपुर - नागपुर नगरम् महाराष्ट्रराज्यस्य उपराजधानीत्वेन विद्यते । महाराष्ट्रराज्य विधानसभायाः 'हिवाळी' अधिवेशनम् प्रतिवर्षं नागपुरे भवति ।
  • पुणे - महाराष्ट्रराज्यस्य शिक्षण-सांस्कृतिक-राजधानी कथ्यते नगरमिदम् । सम्पूर्ण-भारतात् अत्र शिक्षणार्थं विद्यार्थिनः आगच्छन्ति ।
  • कोल्हापुर - ऐतिहासिक-समृद्धि-युक्तमिदं नगरम् ।

बाह्यानुबन्धः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=महाराष्ट्रराज्यम्&oldid=280535" इत्यस्माद् पुनः प्राप्तिः