महाराष्ट्रम्
महाराष्ट्रं भारतस्य पश्चिमे कश्चन प्रान्त: अस्ति। मुम्बयी इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति।
[सम्पादयतु] इतिहासः
भारतीयस्वतंत्र्यसंग्रामे महाराष्ट्रराज्यस्य मुम्बयीनगर्याः च योगदानं अपूर्वमासीत्। भारतीय-काँग्रेस- इत्यस्य सङ्घटनस्य प्रथमं सम्मेलनं अत्रैव अभवत्। तथा हि पूजनीयेन महात्मागान्धीमहोदयेन एकसहस्र-नवशतद्विचत्वारिंशत्तमे ख्रिस्तब्दे ऑगस्ट-मासस्य नवम्यां तिथौ अत्रत्यगोवालियाटॅंकतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत्। तदा समग्र:अपि देशः रोमाञ्चितः अभवत्। स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रेसरमासीत्। यतः महात्मा फुले, राजर्षिशाहूछत्रपतिः, भारतरत्नं डॉ. अम्बेडकरमहोदयसदृशा: अग्रगण्या: समाजोद्धारका: महाराष्ट्रराज्यमिदं अलंकृतवंतः। लोकमान्यतिलकसदृशा अभूतपूर्वा राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्त: सन्ति।
शून्यषण्णवैकमिते मे मासस्य प्रथमदिनाङ्के महाराष्ट्रराज्यं निर्मितम्। ततः प्रभृति:रज्येनानेन प्रगतिपथे एव पदं कृतम्.
[सम्पादयतु] भूगोलम्
महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्रप्रदेशः तथा दक्षिणदिशायां कर्नाटकं गोवा च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति.
सह्याद्री पर्वतमाला (वा पश्चिमघट्ट:) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति।
महाराष्ट्रे ३५ जनपदाः. अपि च षड्विभागाः सन्ति. औरङ्गाबाद:, अमरावती, कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः। भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः. विदर्भ: (नागपुरम् अमरावती), मराठवाडा (औरङ्गाबाद), खान्देश: उत्तरमहाराष्ट्रं(नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.