महालक्ष्मीः (सिल्हट्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


महालक्ष्मीः (सिल्हट्) एतत् शक्तिपीठं बाङ्ग्लादेशस्य सिल्हट्नगरस्य समीपे जैनपुर इत्यत्र । किन्तु एतस्य स्थलस्य विषये अभिप्रायभेदाः सन्ति । अत्रत्यानाम् अन्येषां केषाञ्चन स्थानानाम् अपि शक्तिपीठम् इति अभिधानम् अस्ति । प्रथमं तावत् शिल्लङ्ग्-सिल्ह्माञ्र्गे अस्ति । अस्मिन् परिसरे कश्चन राजवंशः आसीत्

वैशिष्ट्यम्[सम्पादयतु]

ऐतिह्यानुसारम् अत्र सतीदेव्याः कण्ठभागः पतितः इति विश्वासः । अत्रत्या देवी सुनन्दादेवी इति पूज्यते । अत्रत्यशिवः शम्बरानन्दनाम्ना पूज्यते । शिल्लाङ्ग् पर्वतानां पूर्वभागे ६५ की.मी. दूरे जोवै समीपे नार्तियाङ्ग् इत्यत्र विद्यमानं जोगेश्वरीदेवालयम् अपि शक्तिपीठम् इति वदन्ति । अत्र किञ्चन प्राचीनमन्दिरम् आसीत् ।तस्मिन् स्थले एव इदानीं पुनर्निर्माणं कृतम् अस्ति । अत्र अष्टधातुनिर्मितौ दुर्गायाः तथा जोगेश्वर्याः विग्रहौ पार्श्वे पार्श्वे स्थापितौ स्तः।

"https://sa.wikipedia.org/w/index.php?title=महालक्ष्मीः_(सिल्हट्)&oldid=388953" इत्यस्माद् प्रतिप्राप्तम्