मातृदिवसः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मातृदिवसः
मातृदिवसः
मातृदिवस्य एकं पत्रम्
के आचरन्ति विविधदेशसमूहः
वर्गः अन्ताराष्ट्रियविशेषदिनम्
दिनाङ्कः मे मासस्य द्वितीयः रविवासरः (आमेरिकादेशे तथा अन्यान्यराष्ट्रेषु च),
चतुर्थः रविवासरः (मादारिं सान् डे, ब्रिटेन् )
सम्बद्धम् शिशुदिवसः, अन्ताराष्ट्रिय-महिलादिनम्

मातृदिवसः (Mother’s Day) समग्रे विश्वस्मिन् मई-मासस्य अष्टमे (८) दिनाङ्के आचर्यते । तस्मिन् दिने माता आराध्यते, उपास्यते, पूज्यते च । तद्दिनं मात्रे अर्पितमस्ति ।

वात्सल्यस्य प्रतीकः

मनुष्यः एकः सामाजिकः प्राणी अस्ति । समाजस्य मुख्याधारः कुटुम्बः अस्ति । परिवारेषु माता एव विशिष्टा अस्ति । कुटुम्बजनाः मातरं परितः भ्रमन्ति । कुटुम्बस्य वातावरणस्य निर्माणं माता एव करोति । अनेन वातावरणेन बालकाः सामजिकाः असामजिकाः वा भवन्ति । अतः सा निर्माता इति कथ्यते । अस्य कारणं स्पष्टमस्ति यत् बालकानां सर्वप्रथमः सम्बन्धः मात्रा सह भवति । कुटुम्बजनानाम् अपेक्षया बालकेन सह मातुः सम्बन्धः नवमासाः अधिकः भवति । मातुः गर्भे एव बालकस्य निर्माणप्रक्रियायाः प्रारम्भः भवति । नवमासं यावत् बालकः मातुः गर्भे निवसति, येन कारणेन तस्य सर्वत्र सम्पर्कः भवति ।

यथा जनाः सुसस्योत्पादनार्थं पृथ्वीं सम्यक्तया सज्जीकुर्वन्ति तथैव भारतीयसंस्कृतेः अनुसारं गर्भाधानसंस्कारात् परं पुंसवनसंस्कारः, सीमन्तोन्नयनसंस्कारः, जातकर्मसंस्कारः, नामकरणसंस्कारः इत्यादिभिः द्वादशसंस्कारैः (गृहस्थाश्रमप्रवेशात् पूर्वं) बालकः संस्कारी भवति । यद्यपि राक्षसवंशीयस्य हिरण्यकशिपोः कुटुम्बे प्रह्लादः जातः, तथापि सः विष्णोः भक्त एव अभवत् । अस्य मूलकारणं तस्य माता आसीत् । मातुः संस्कारप्रदानेन प्रह्लादः संस्कारी जातः । अतः तस्य सम्पूर्णं श्रेयः प्रह्लादस्य मातुः एव ।

केनचिदुक्तमस्ति – “जननी जने तो भक्त जन, या दाता या सूर, नहीं तो जननी बाँझ रहे, व्यर्थ गँवाए नूर” ।

मातुः समस्तानां ज्ञानेन्द्रियाणां प्रभावः गर्भस्थशिशौ भवति । सा किं खादति? किं पठति ? किं शृणोति ? इत्येते सर्वे प्रभावकारिणः विषयाः सन्ति । महाभारते आगता अभिमन्योः चक्रव्यूहप्रवेशज्ञानस्य कथा सर्वैः ज्ञाता एव अस्ति । एषा कथा ऐतिहासिकी, साक्षीभूता च अस्ति । अतः संस्कारी सन् समाजे राष्ट्रे वा कथं जीवनीयम् इति तु माता एव पाठयति ।

बालकस्य जीवननिर्माणाय धैर्यं, क्षमा, सहनशीलता इत्यादीनां गुणानाम् आवश्यकता भवति । मातरि एते गुणाः अन्तर्निहिताः भवन्ति । एतेषां गुणानां कारणादेव माता बालकस्य त्रुटीः क्षाम्यति । यथा बीजम् एकस्मै वृक्षाय स्वस्य अस्तित्वं नाशयति तथैव माता अपि स्वस्य बालकस्य सुख-समृद्ध्यर्थं स्वसुखं त्यजति । तस्याः तपः, साधना, त्यागश्च निःस्वार्थ एव भवति । गुरोः वसिष्ठस्य निर्देशानुसारं कौशल्यया सम्पूर्णराजसुखानां त्यागं कृत्वा तपस्या कृता । तेन कारणेन भगवान् रामः पुरुषोत्तमः अभवत् । पूर्वम् एकः तपस्वी बालकः ध्रुवः आसीत् । स अपि मातुः प्रेरणया अमरत्वं प्राप्तवान् । शिवाजी जीजाबाई इत्यस्याः पुत्रः आसीत् । तेन मातुः प्रेरणया मुगल-शासकानां नाशः कृतः, छत्रपति शिवाजी इति विख्यातिः च प्राप्ता । इतिहासे एतादृशानि अनेकानि उदाहरणानि सन्ति ।

उपमादृष्ट्या लघुबालकः मृत्तिका इव, माता कुम्भकारः इव ज्ञेयः । कारणं बालकः अधिकांशतः मातुः सम्पर्के एव भवति । अतः माता यथा इच्छति तथैव संस्कारान् दातुं शक्नोति । यथा आयुष्यवृद्धिः भवति तथैव संस्कारैः मनुष्यस्य चरित्रनिर्माणं भवति । अतः भारतीयसंस्कृतौ माता एव सर्वप्रथमः गुरुः मन्यते ।

उच्यते – “माँ से बडा नहीं है कोई, गाते वेद पुराण हैं । सच मानो तो इस धरती पर माता ही भगवान् हैं” ॥

"http://sa.wikipedia.org/w/index.php?title=मातृदिवसः&oldid=279495" इत्यस्माद् पुनः प्राप्तिः