मारीस् एच् विल्किन्स्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मारीस् एच् विल्किन्स्
Maurice Wilkins
जननम् (१९१६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१५)१५ १९१६
Pongaroa, Wairarapa,
New Zealand
मरणम् ५ २००४(२००४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०५) (आयुः ८७)
Blackheath, London,
UK
कार्यक्षेत्राणि Physics, Molecular biology
संस्थाः University of California, Berkeley
विषयेषु प्रसिद्धः X-ray diffraction, DNA
प्रमुखाः प्रशस्तयः Nobel Prize in Physiology or Medicine (1962)


(कालः - १५. १२. १९१६)

अयं मारीस् हेच्. विल्किन्स् (Maurice H. Wilkins) अपि कश्चन प्रसिद्धः भौतविज्ञानी । अयम् अपि "द्विचक्रकस्य रचनायाः” संशोधकेषु अन्यतमः । अन्यौ द्वौ जेम्स् डि व्याट्सन् तथा फ्रान्सिस् एच् सि क्रिक् च । अयं मारीस् हेच्. विल्किन्स् १९१६ तमे वर्षे डिसेम्बरमासस्य १५ दिनाङ्के जन्म प्राप्नोत् । १९४० तमे वर्षे केम्ब्रिड्ज्–विश्वविद्यालयतः "डाक्टरेट्”–पदवीं प्राप्नोत् । अयं मारीस् हेच्. विल्किन्स् कश्चन न्यूजिलेण्ड्–ब्रिटिष्–भौतविज्ञानी । तथापि द्वितीयस्य महायुद्धस्य अवसरे अमेरिकादेशेन् उत्पादितस्य अणुस्फोटकस्य निर्माणे अपि कार्यम् अकरोत् । युद्धस्य समाप्तेः अनन्तरं तादृशं कार्यं कृतम् इत्यतः (अणुस्फोटकस्य निर्माणम्) जुगुप्सां प्राप्य भौतविज्ञानस्य क्षेत्रम् एव अत्यजत् । तदनन्तरं जीवरसायनविज्ञाने आसक्तः सन् तत्रैव संशोधनम् आरब्धवान् । निर्यासद्रवेन "डि एन् ए"–अणोः तन्तून् निर्माय तान् तन्तून् क्ष-किरणवक्रयोजनद्वारा (एक्स् रे डिफ्र्याक्षन्) परीक्षितवान् । तस्य फलितांशस्य आधारेण एव जेम्स् डि. व्याट्सन् तथा फ्रान्सिस् हेच्. सि. क्रिक् "द्विचक्रकस्य रचनायाः” संशोधनम् अकुरुताम् । तस्य संशोधनस्य निमित्तम् अयं मारीस् हेच्. विल्किन्स् ताभ्यां जेम्स् डि. व्याट्सन् तथा फ्रान्सिस् हेच्. सि. क्रिक् इत्येताभ्यां सह १९६२ तमे वर्षे वैद्यकीयं तथा शरीरक्रियाविज्ञानस्य विभागे सहोद्योगिना "नोबेल्”–पुरस्कारं प्राप्नोत् ।

वंशविज्ञानस्य आधारं कल्पितवान् ग्रिगोर् जान् मेण्डेल् नामकः विज्ञानी 'गुणलक्षणानि वंशश्रेणीतः वंशश्रेणीं प्रति निर्दिष्टानां नियमानाम् अनुसारम् एव गच्छन्ति’ इति उक्तवान् आसीत् । तदनन्तरं तद्विषये संशोधनं कृतवन्तः विज्ञानिनः वर्णतन्तवः (क्रोमोजोन्स्) कोशकेन्द्रेषु (न्यूक्लियस्) भवन्ति । निर्दिष्टसंख्यानां वर्णतन्तवः निर्दिष्टे प्रभेदे एव भवन्ति । कस्यापि जीविनः वर्णतन्तुषु अर्धभागः पितृपक्षतः, अर्धभागः मातृपक्षतः आगताः भवन्ति । सर्वस्मिन् अपि वर्णतन्तौ निर्दिष्टगुणस्य कारणीभूतः गुणाणुः (जीन्) भवति इत्यादीन् विषयान् संशोधितवन्तः । एते त्रयः (जेम्स् डि. व्याट्सन्, फ्रान्सिस् हेच्. सि. क्रिक्, मारीस् हेच्. विल्किन्स् च) तान् एव विषयान् आधारीकृत्य संशोधनस्य अनुवर्तनम् अकुर्वन् । तादृशेषु गुणाणुषु निहितं प्रकृतेः रहस्यं ज्ञातव्यं चेत् गुणाणोः रचना ज्ञातव्या आसीत् । यदा जेम्स् डि. व्याट्सन् अमेरिकातः नेपल्स् प्रति अस्य मारीस् हेच्. विल्किन्सस्य सूचनां, विवरणं च प्रष्टुम् आगतः आसीत् तदा "डि एन् ए" अणोः क्ष-किरणचित्राणि तस्मै अदर्शयत् । तस्मिन् चित्रे तत्र तत्र छाया दृष्टा । तदा तन्मध्ये किम् अस्ति इति संशोधितं चेत् "डि एन् ए" अणोः रचना ज्ञायेत इति अभासत तस्य जेम्स् डि. व्याट्सनस्य ।


ततः प्रतिनिवृत्तस्य तस्य जेम्स् डि. व्याट्सनस्य क्ष-किरणानां विषये तावत् ज्ञानं न आसीत् । यतः सः मूलतः जीवविज्ञानी आसीत् । तस्मात् कारणात् सः तद्विषये अधिकं नैपुण्यं प्राप्तुं ब्रिट्न् नगरे स्थितं केम्ब्रिड्ज्–विश्वविद्यालयं प्राविशत् । तत्रैव फ्रान्सिस् हेच्. सि. क्रिकस्य मेलनं जातम् । तत्र तौ द्वौ अपि अहर्निशं कार्यं कुर्वन्तौ सहस्रशः क्ष-किरणानां परीक्षां कृतवन्तौ । बहूनाम् अपयशानाम् अनन्तरं "डबल् हीलिक्स्” सदृशम् एकं चक्रकं सज्जीकृतं ताभ्याम् । एका क्रमानुगतिः (सीक्वेन्स्) एकस्य कस्यचित् विधस्य फ्रोटीनस्य उत्पादनार्थं जीवकोशम् आदिशति । अपरा क्रमानुगतिः अपरस्य कस्यचित् विधस्य फ्रोटीनस्य उत्पादनार्थम् आदिशति । अतः जीविनः क्रमानुगतिः जीवकोशस्य कार्यं निर्णेति । तस्मात् एव कारणात् जठरस्य जीवकोशः, पित्तकोशस्य जीवकोशात् भिन्नः भवति । विभिन्नेषु जनेषु नेत्रस्य वर्णः विभिन्नः भवति । इति विषयं संशोधितवन्तः । एतेषां त्रयाणाम् (जेम्स् डि. व्याट्सन्, फ्रान्सिस् हेच्. सि. क्रिक्, मारीस् हेच्. विल्किन्स् च) एतत् संशोधनम् अत्यन्तं महत्त्वयुतं चापि । अस्य संशोधनस्य कारणतः एव बहूनाम् आनुवंशिकाणां रोगाणां चिकित्सा संशोधिता । अपेक्षानुगुणं जीविनां सृष्टिः इति विषयस्य संशोधनम् अपि प्रोत्साहितम् अभवत् ।

बाह्यानुबन्धः[सम्पादयतु]