मिजोरमराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
Mizoram
मिजोरमराज्यम्
—  राज्यम्  —

Seal
भारते मिजोरमराज्यम्
Coordinates (ऐज़ौल): 23°22′N 92°00′E / 23.36°N 92.00°E / 23.36; 92.00Coordinates: 23°22′N 92°00′E / 23.36°N 92.00°E / 23.36; 92.00
राष्ट्रम्  भारतम्
उद्घोषणम् २० फेब्रवरी १९८७
राजधानि ऐज़ौल
मण्डलम्
सर्वकारः
 • राज्यपालः एम एम लखेरा
 • मुख्यमन्त्री जोरामथांगा
विस्तीर्णम्
 • Total  Square km ( Square mile)
विस्तीर्णतास्तरः २४तम
जनसङ्ख्या (२०११)
 • Total
 • श्रेणी २७तम
भारतीय कालगणनम् (UTC+05:30)
साक्षरतापरिमाणम् ९१.५८% (१५तम)
भाषा मिजो
जालस्थानम् http://assam.gov.in assam.gov.in

मिजोरमराज्यमं (Mizoram) भारतस्य ईशान्यभागे विद्यमानम् किञ्चन राज्यम् । सा.श. २००१ तमे संवत्सरे ८,९०,००० जनसंख्या आसीत् । अस्मिन्न राज्ये साक्षरतानाम् अनुपातः ९१.०३% प्रतिशतम् अस्ति । अस्य राज्यस्य राजधानी “ऐज़ौल”

अन्तर्विषयाः

इतिहासः[सम्पादयतु]

मिजोरमाराज्यं पर्वतप्रदेशसहितं राज्यम् । सा.श. १९८७ तमे संवत्सरे |भारतस्य २३तम गणराज्यत्वेन उद्घोषणं कृतम् । सा.श. १९७२ तमे संवत्सरे केन्द्रशासितप्रदेशात् पूर्वं असमराज्यस्य मण्डलम् आसीत् । १८९१ तमे संवत्सरे ब्रिटिष् सार्वकारस्य शासने लुशायीप्रदेशः असमराज्ये, दक्षिणभागः बङ्गाले आसीत् इति । १८९८ तमे संवत्सरे उभौ प्रदेशौ मिलित्वा एकं मण्डलम् अभूत् । १९७२ तमे संवत्सरे मिजोरमा केन्द्रशासने आगतम् । अस्य राज्यस्य पूर्वे तथा दक्षिणभागे म्यन्मार अस्ति। पश्चिमे बाङ्गलादेशः अस्ति । मिजोरमा प्रकृतिसौन्दर्ययुक्तं राज्यं भवति। विवधैः जन्तुभिः सुशोभते । विविधानि सस्यानि वनस्पत्यादीनि विलसन्ति । ’मिजो’ पदस्य मिजोभाषायां पर्वतनिवासिनां स्थलम् इत्यर्थः । १९ शताब्दे ब्रिटीष् सार्वकारस्य शासनमासीत् । अतः अत्र इसायीधर्मस्य प्रभावः अधिकतया दृश्यते । मिजोभाषायाः लिपी नास्ति । शिक्षणसंस्थादिषु मिजोभाषायाः उपयोगम् कुर्वन्ति । औपचारिकशिक्षणार्थं ’रोमन्’ लिप्याश्रिताः भवन्ति ।

जातयः[सम्पादयतु]

मिजोरमराज्ये अधिकतया मिजो जनाः सन्ति । मिजो अन्यप्रजातिभिः मिलितम् अस्ति । प्रजातिषु ’लुशायी’ जनाः अधिकतया सन्ति । अन्यप्रमुखाः प्रजातयः ’राल्ते’, ’म्हार’, ’पोयी’, ’पवायी’ च भवन्ति । ’गैरमिजो’ प्रजातिषु ’चकमा’ मुख्या जातिः ।

धर्मः[सम्पादयतु]

इसायी धर्मीयाः प्रयशः ८५% प्रतिशतं जनाः सन्ति । तेषु जनेषु अधिकतया प्रेसबिटेरियन, तथा बैप्टिस्ट जनाः भवन्ति । बौद्धाः, हैन्दवाः, यवनाश्च अल्पसंख्याकाः जनाः सन्ति ।

मण्डलानि[सम्पादयतु]

मण्डलानि

अस्मिन् राज्ये ८ मण्डलानि सन्ति।

कृषिः[सम्पादयतु]

मिजोरमराज्ये ८०% प्रतिशतं जनाः कृषिम् आश्रिताः सन्ति। २१ लक्षाधिकहेक्टेर् परिमिता भूमिः कृषिनिमित्तम् अस्ति । मुख्यफलचयाः फलानि भवन्ति । नारङ्गफलम्, कदलीफलम्, द्राक्षाफलम्, मदुकर्कटीत्यादीनि फलानि भवन्ति । पुष्पाणि अपि समृद्धतया संवर्धयन्ति । पाटलपुष्पाणि, तेषु तेषु समयेषु लभ्यानि पुष्पाणि च भवन्ति । अर्द्रकम्, हरिद्रा, मरीचकादयः फलचयाः भवन्ति । सुगन्धसस्यानि, वनौषधानि च विफुलतया संवर्धयन्ति ।

उत्सवाः[सम्पादयतु]

मिजोरमराज्यस्य जनाः कृषीवलाः। अतः फलचयसङ्ग्रहणानन्तरम् उत्सवादिकं आचरन्ति । उत्सवः इति शब्दस्य मिजोभाषायां “कुट” अर्थः। प्रसिद्धाः उत्सवाः त्रयः। चपचार, मिमकुट, थालफवांगकुट उत्सवाः भवन्ति । अधिकाः इसायी जनाः सन्ति इत्यतः “क्रिसमस” उत्साहेन वैभवेनच आचरन्ति ।

प्रवसस्थानानि[सम्पादयतु]

वानताङ्ग जलपात

समुद्रतलभागात् ४,००० पादपरिमिते उन्नतप्रदेशे “आयिजोल” इति धार्मिकक्षेत्रम् अस्ति। म्यन्मार सीमसमीपप्रदेशे “चमफायी” सुन्दरं प्रेक्षणीयस्थलम् अस्ति। तामदिलप्रदेशे सुन्दरः वनसहितसरोवरः विद्यते। आयिजोलतः ८० कि.मि. दूरे अस्ति। सैतु-अलतः १० कि.मि. दूरे अस्ति। “सैतु-अल” अपि प्रेक्षणीयस्थलं भवति। “वानताङ्ग” जलपातः मिजोरमराज्यस्य सुन्दरः जलप्रपातः अस्ति। थेनजोलकस्बेतः ५ कि.मि. दूरे अस्ति। प्रेक्षणीयस्थलेषु आवासादि व्यवस्था सुष्टुकल्पिता अस्ति।

प्रमुखाः अंशाः[सम्पादयतु]

  • क्षेत्रविस्तीर्णम्- २१,००० वर्ग कि.मी.
  • जनसंख्या:- ८९०,००० (२००१)
  • जनसंख्या
  • मिजो/लुशायी-६३.१%
  • म्हार- ?
  • पोयी- ८%
  • चकमा- ७.७%
  • राल्ते- ७%
  • पोवायी- ५.१%
  • कुकी- ४.६%
  • अन्य- ५.१%
  • धर्मः
  • इसायी- ८५%
  • बौद्धः ८%
  • हिन्दुः ७%
  • राजधानी ऐज़ौल (जनसंख्या १,८२,०००)

वीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]