मिश्रेयसस्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
मिश्रेयसस्यम्
Illustration Anethum graveolens0.jpg
वैज्ञानिक वर्गीकरण
जगत: Plantae
(अश्रेणिकृत) Eudicots
(अश्रेणिकृत) Asterids
गण: Apiales
कुल: Apiaceae
प्रजाति: Anethum
L.
जाति: A. graveolens
द्विपद नाम
Anethum graveolens
L.

इदं मिश्रेयसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । सामान्यतया इदं मिश्रेयसस्यं शैत्यकाले वर्धते । इदं सस्यम् औषधत्वेन यथा उपयुज्यते तथैव आहारत्वेन अपि उपयुज्यते । सामान्यतया पाके इदं सस्यं शाकत्वेन (हरितकम्) उपयुज्यते । अस्मिन् अनेथिन्, कार्वाल् इत्याख्यौ अंशौ भवतः । अस्य विशिष्टः कश्चन गन्धः अपि भवति ।

इतरभाषाभिः अस्य मिश्रेयसस्यस्य नामानि [सम्पादयतु]

इदं मिश्रेयसस्यम् आङ्ग्लभाषया Anathum Sowa इति उच्यते । हिन्दीभाषया “सोय” इति, तेलुगुभाषया “शटकुषि विट्टलु” इति, तमिळ्भाषायां “शतकुपिमर्” इति, मलयाळाभाषया “चतुकुप्प” इति, कन्नडभाषया “सब्बसिगे” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य मिश्रेयसस्यस्य प्रयोजनानि [सम्पादयतु]

अस्य मिश्रेयसस्यस्य रसः तिक्तः कटुः च । इदम् उष्णवीर्ययुक्तं, तीक्ष्णं चापि ।

१. इदं मिश्रेयसस्यं कफं वातं च शमयति ।
२. अस्य बीजानां, मूलस्य वा लेपः कीलवेदनां परिहरति ।
३. उदरसमस्यायां, हिक्कायां च अस्य पर्णानां जलम् उपयुज्यते । अस्य मिश्रेयसस्यस्य पर्णानि सम्यक् जलं संस्थाप्य क्त्वथनीयम् । तदवसरे जायमानं भाष्पं सङ्गृह्य सुधाजलेन सह :३ चमसमितं सेवनीयम् ।
४. उपर्युक्तम् एव औषधम् अतिसारसमये जायमानाम् उदरवेदनाम् अपि शमयति ।
५. अस्य कषायं बालानां बुभुक्षां जीर्णशक्तिं च वर्धयति । अस्य बीजानि ३० गुणिते जले संस्थाप्य क्वथनीयम् । अनन्तरं शोधयित्वा शर्करां योजयित्वा पातव्यम् ।
६. अस्य बीजानि भर्जयित्वा मेथिकायाः बीजैः सह चूर्णीकृत्य सेवनेन अतिसारः अपगच्छति ।
७. अस्य पर्णानाम् उपरि तैलं लेपयित्वा पिष्टपचनस्य उपरि उष्णीकृत्य पिटकानाम् उपरि लेपनेन पिटकाः उद्घाटिताः भवन्ति ।
८. इदं मातॄणां स्तन्यं वर्धयति । अतः प्रसूतवतीनां महिलानां कृते प्रतिदिनं भोजने शाकत्वेन दातुं शक्यते ।