मुख्यपृष्ठम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(
मुखपृष्ठ इत्यस्मात् पुनर्निर्दिष्टम्)
प्रमुखः लेखः
|
सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीयसंस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ठ्यधिकाष्टादशशततमे (१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ....
( अधिकवाचनाय »)
|
|
|
|
|
- मध्यप्रदेशे बुन्देलखण्डाञ्चले प्रतिवर्षं आयोज्यमानो विश्वविख्यातः खजुराहोनृत्यमहोत्सवः फ़ॆब्रुवरी १ तमे दिनाङ्के आरभते। सप्ताहावधिकेऽस्मिन् महोत्सवे कथक-कथाकेळी-भरतनाट्य-ऒडीशी-मणिपुरी-कुचिपुडीति भारतीयशास्त्रीयनृत्यप्रस्तुतयो दर्शयिष्यन्ते।
- जनुवरी २८ तमे दिनाङ्के (माघमासस्य शुक्ल्पक्षे पञ्चम्यां) भारतदेशे वसन्तपञ्चमी आचर्यते । विविधेषु स्थलेषु, देवालयेषु च पारम्परिकरीत्या सरस्वतीपूजनं भवति।
- ओस्ट्रेलिया ओपन् टेन्नीस् स्पर्धायां भारतस्य लियाण्डर् पेसस्य चेक्महाराज्यस्य राडेक् स्टेपानेकस्य च युगलेन पुरुषवर्गस्य प्रतिस्पर्धा विजीता।
- जनुवरिमासस्य २६ दिनाङ्के भारतदेशे सर्वत्र ६३तमं जनराज्यदिनम् आचरितम् ।
- केरळस्य राज्यपालः एम्.ओ.ऐच्. फ़ारूक् वृक्कावरोधकारणात् जनुवरिमासस्य २६ तमे दिनाङ्के दिवङ्गतः।
- सुप्रसिद्धः मलयाळप्रभाषकः, पण्डितः, परिस्थितिप्रवर्तकः, मलयाळसाहित्यकारश्च सुकुमार् अऴीक्कोड् (८३) (चित्रे..) जनुवरीमासस्य २४ तमे दिनाङ्के प्रातः ३:४५ वादने श्रीशिवपुरस्य (तृश्शूर्) अमला आतुरालये दिवङ्गतः।
|
|
ज्ञायते किं भवता ?
|
|
|
|
|
सुभाषितम्
|
|
षड् दोषाः पुरुषेणेह हातव्याः भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥
-
-
-
-
-
-
-
- उद्योगपर्व ३३/७८
जीवने औन्नत्यं प्राप्तुं यः इच्छति तेन एते षड् दोषाः परित्यक्तव्याः – निद्रा, तन्द्रा (श्रान्तता), भीतिः, कोपः, आलस्यं, दिर्घसूत्रता (करणीयस्य कार्यस्य अग्रे सारणम्) च । एते दुर्गुणाः यदि स्युः तर्हि तादृशः निरन्तरं प्रयासं कर्तुं न अर्हति । परिश्रमेण विना फलप्राप्तिः नैव शक्यम् ।
|
|
|
प्रमुखं चित्रम्
|
कथाकेळी ( मलयाळम्: കഥകളി, कथकळि) देशे विदेशे च प्रसिद्धिमाप्ता एकं केरळीयनृत्तकलारूपमस्ति। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः। कथाकेल्यां प्राधान्येन (१) केली, (२) अरङ्ङुकेली, (३) तोटयम्, (४) वन्दनश्लोकः, (५) पुरप्पाट्, (६) मेळप्पदम्, (७) कथाभिनयम्, (८) धनाशि च सन्ति। कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता। तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। कथाकेल्याः साहित्यं कैरळ्याम् 'आट्टक्कथा' इति व्यवह्रियते।
|
|
विश्वविज्ञानकोशः
|
|
|
|
विकि समाजः
|
|
|
|
|
संस्कृतभाषासहायी
|
|
|
|
भ्रातृपरियोजनाः
|
विकिपीडियस्य आतिथेयत्वं विकिमीडिया फौण्टेषन् नाम स्वलाभरहितं संघटनं कृतोऽस्ति। इदं हि अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।
संस्कृतभाषा परियोजनाः
आंगलेयभाषा परियोजनाः
|
|
विकिपीडिया भाषाः
|
|
|
|