मुन्नार्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मुन्नार –प्राकृतिककेरलराज्ञी (०४८६५)

केरळस्य मानचित्रे स्थाननिर्देशः

एतत् तिसॄणां नदीनां सङ्गमस्थानमस्ति (मून् त्रीणि, आर् ) । एतत् स्थानं प्रति पश्चिमघट्टप्रदेशस्य ग्याप् रोड् इति कथ्यमानेन त्रीणि.कि.मी.मितेन लघुपादमार्गेण प्राप्तुं शक्यते । पार्श्वे प्रपातम् अस्ति । अस्य बैसनव्याली इति अपि अपरं नाम अस्ति । अत्र दृष्टं रुद्ररमणीयं दृश्यं मनसि सदा तिष्ठति । मुन्नार् मण्डलस्य सुन्दरं स्थानम् अस्ति । अत्र पर्वतशिखराणि, वनप्रदेशः, प्राणिवर्गः, प्रवासिजनान् आकर्षयन्ति । अनेकविधफलानां वाटिकाः अत्र सन्ति । स्ट्राबेरी, पीच् फलानि अत्र उत्पादयन्ति । टाटासंस्थाद्वारा अत्र चायसस्यवाटिकाः (Tea) कृताः सन्ति ।

आनैमुडी[सम्पादयतु]

एतत् गिरिधाम कण्णनदेवनपर्वते अस्ति । अत्र वातावरणम् अतीव विचित्रं भवति । कदाचित् अतिशीतं भवति । सदा शीतलम् एव वातावरणम् भवति । उष्णता १५ तः २५ सेण्टिग्रेड भवति । साहसप्रियानां चारणम् अतीव सन्तोषाय भवति । अस्मिन् प्रदेशे प्लास्टिक् वस्तूनां निर्बन्धः कृतः अस्ति । सीमितजनानां (शतं जनानाम् )प्रवेशः भवति । चायसस्य वाटिकाः एलावाटिकाः, गिरिपङ्क्तिः, मेघानां विलासाः अत्र अतीव आकर्षकाः सन्ति । अत्र नीलगिरि- टार् प्राणिनः (गिरिहरिणः) निवसन्ति । समूहे वसताम् एतेषां दर्शनम् अत्र शक्यमस्ति । समीपे मट्टुपट्टीजलबन्धः, ब्ल्यू पायिण्ट्, ब्लासं पार्क् च दर्शनीयानि । टाटा वस्तुसङ्ग्रहालयः अतीव सुन्दरः अस्ति । ==एराविकुलम् न्याषनल् पार्क== (राष्ट्रियोद्यानम्) आनैमुडिप्रदेशतः समीपे एराविकलम् राष्ट्रियोद्यानम् अस्ति । इतः आनैमुडीपर्वताशिखरं द्रष्टुं शक्यते । पादचारणस्य उत्तमं स्थलमिदम् । वसत्यर्थम् उपाहारगृहाणि, कुटीराः च सन्ति ।

कालः[सम्पादयतु]

फेब्रुवरीमासतः मेमासपर्यन्तम् आगमनाय उत्तमः कालः अस्ति ।

मार्गः[सम्पादयतु]

मुन्नारतः २६ कि.मी. । कोच्चीतः १५५ कि.मी. मधुरै-कोयम्बत्तूरुतः १६० कि.मी ।

चित्रावली[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुन्नार्&oldid=462649" इत्यस्माद् प्रतिप्राप्तम्