मेघदूतम्
महाकविना कालिदासेन विरचितं मेघदूतमेकं खण्डकाव्यमस्ति । काव्यमिदं पूर्वमेघदूतम्, उत्तरमेघदूतम् इति खण्डद्वये विभक्तमस्ति । काव्येस्मिन् १काचित् विरह-गुरुणा पीडितस्यैकस्य यक्षस्य कथाऽस्ति । अस्य रचयितुः कालिदासस्य परिचयादिकं प्रकरणान्तरे उक्तम् ।
अन्तर्विषयाः |
[सम्पादयतु] मेघदूतस्य मौलिकता
कालिदासेन मेघदूते विरहिणो लोकस्य मनः स्थितेर्वर्णना कृता, पूर्वमेघे आदितोऽवसानपर्यन्तं बाह्यप्रकृतिश्चित्रिता, एवमेव उत्तरमेघे अन्तः प्रकृतिः । सन्देशप्रेषणस्य प्रवृत्तिस्तदाधारेण काव्यप्रणयने प्रवृत्तिश्चेयं पुराणेषु रामायणे महाभारते चापि प्राप्यते । नलचरिते हंसेन संवादप्रेषणे उपकृतम्, युधिष्ठिरेण कृष्णद्वारा संवादः प्रेषितः,रामेण हनूमता संवादः प्रापितः । तदत्र कालिदासेन रामायणमनुसृत्य मेघदूतं प्रणीतमिति कथनं नासत्यम् । कालिदासः स्वयमपि तथ्यमिदं गोपयितुं नैच्छत् ।यद्यसौ तत्थमिदं गोपयितुमैषिष्यत्, तदा स्वकाव्ये- ‘इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा’ इति पद्यं कथमपि नायोजयिष्यत् ।
रामायणाधारेण कृतमपीदं खण्डकाव्यं स्वीयां मौलिकतां न जहाति । मौलिकता हि कथायाः प्रकारस्य वाऽनुकरणमात्रेण् नापहीयते, सा हि पद्यानां निर्माणे कथया उपस्थापने नवीनां पध्दतिमपेक्षते । माघेनापि पुराणेतिहासप्रथितं वृत्तमादायैव शिशुपालवधं प्रणीतमथापि तस्य मौलिकत्वमक्षतमेव, तथैव मेघदूतस्यापि मौलिकता शैल्या नवीनतायां मनोभावानां चित्रणे नूतनतायां च निहिता । कालिदासेन मेघो दूततां गमितस्तद्विषये भामहेनापत्तिः कृता –
- अयुक्तिमद्यथा दूता जलभृन्मारुतेन्दवः । तथा भ्रमरहारीतचक्रवाकशुकादयः ॥
- अवाचोऽयुक्तवाचश्च दूरदेशविचारिणः । कथं दूत्यं प्रपद्येरत्रिति युक्त्या न युज्यते ॥
अत्र प्रसङ्गे उत्तरमपि स्वयमेव तेन दत्तम् –
- यदि चोत्कण्ठया यत्तदुन्मत्तं इव भाषते ।
- तथा भवतु भूम्नेदं सुमेघोभिः प्रयुज्यते ॥
कालिदासेनापि – ‘कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु’ इति कथयित्वा सकलाप्येतद्विषयाऽऽपत्तिः परिहृता ।
[सम्पादयतु] मेघदूतस्यापरकविभिरनुकरणम्
मेघदूतं निर्माय कालिदासेन मन्ये एको मार्ग इव प्रवर्त्तितः । प्रसिध्दकविर्भवभूतिरपि मालतीमाधवे नाम स्वरुपकं मेघं दूतं कृत्वा –
- दैवात्पश्येर्जगति विचरन् मत्प्रियां मालर्ती चेद्
- आश्वास्यादौ तदनु कथयेर्माधवीयामवस्थाम् ॥
इति संवादं प्रेषितवान् । घटखर्परनामा कविरपि घटखर्परकाव्यनाम्नैव प्रथिते खण्डकाव्ये मेघमेव दूतं कृत्वा स्वप्रियासमीपे संवादं प्रेषितवान् –
- निचितं समुपेत्य नीरदैः प्रियहीनाहृदयावनीरदैः ।
- सलिलैर्निहतं रजः क्षितौ रविचन्द्रावपि नोपलक्षितौ ॥
एवमन्येऽपि कवयो मेघदूतानुकरणेन खण्डकाव्यानि दूतकाव्यनाम्ना प्रथयितुं प्रावर्त्तन्ते । एवं संस्कृतसाहित्ये सन्देशकाव्यस्यैका श्रेणी एव समजायत । सन्देशकाव्येषु धोयीकविप्रणीतं ‘पवनदूतम्’ मेघदूतस्यानन्तरकनिष्ठम् । अयं धोयीकविरेव गीतगोविन्दकृता जयदेवेन कविक्ष्मापतिशब्देन स्मर्थते । वेदान्तदेशिक-वामनभट्ट्- बाण- रुपगोस्वामिप्रभृतयः कतिपये परे कवयः हंसदूतनामकानि काव्यानि रचितवन्तः । चातकदूत – कोकिलदूतादयोऽपि ग्रन्थाः प्रथन्ते । भागवताधारकं भ्रमरदूताखं काव्यं तु स्वगुणगौरवख्यातमेव ।
परवर्त्तिनो जैनकवयो मेघदूतस्य चरणानि समस्थारुपेणावलम्ब्य दूतकाव्यानि कृतवन्तः । तदयं सम्प्रदायः कालिदासप्रवर्तित एवेति कालिदासस्य परमं गौरवस्थानम् ।
[सम्पादयतु] मेघदूतस्य काव्यशैली
प्रायः श्लोकशतकमितोऽयं ग्रन्थः किमपि अलौकिकं मादकं तत्त्वं रक्षति येन लोको ‘माघे मेघे गतं वयः’ इति साभिमानं वक्तुमुत्सहते । मम विचारे मेघदूते विरहशालिनो युवजनस्य मनः स्थितेस्तादृशं व्यक्तं चित्रं प्रस्तुतं तदधीयानो जनः स्वचित्रमिव प्रदर्श्यमानः कामपि आत्मविस्मृतमिव प्रतिपद्यते । इदमेव हि मेघदूतस्य वैशिष्ठ्यं यतत्र वर्णनप्रवृत्तानि पद्यान्यपि मनोगतान् विरहिजनभावानभिव्यज्जयन्ति –
- वेणीभूतप्रतनुसलिलासाक्तीतस्य सिन्धुः
- पाण्डुच्छायातटरुहतरुभ्रशिभिर्जीर्णपर्णैः ।
- सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
- कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥
पद्येऽत्र सिन्दोर्दशा दूरं गच्छति, विरहिण्या दशैव पुर उपेत्य विरहिणे हृदये कामपि पीडामवतारयति, याऽध्येतृरसिकानां हृदये विप्रलम्भशृङ्गारं प्रवाहयति ।
कालिदासेन मेघदूते सौन्दर्यसृष्टेः पराकाष्ठा प्रकाशिता – तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी । इति सर्वाणि विशेषतान्युपन्यस्याप्यपरितुष्यता ‘या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः’ इत्युक्त्वा प्रकर्षः प्रकटीकृतः नैतावदेव, भौगोलिकं ज्ञानं वैज्ञानिकं च ज्ञानमत्र ग्रन्थे स्थितिमित्यप्याधुनिका अभिप्रयन्ति ।
कालिदासेन रामायणं दृष्ट्वैव मेघदूतमुद्भावितमिति प्रागवोचाम् । वाल्मीकिना कथितोऽप्यर्थोऽनेन कथं चमत्कारिशैल्यां प्रकाशित इति निदर्श्यते – रामायणे वाल्मीकिना सीतां सन्तोषयितुं धैर्यं धारयितुञ्च –
- कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
- एति चीवन्तमानन्दो नरं वर्षशतादपि ॥
इत्युक्तम् । अयमेवार्थः कालिदासेन कथा पध्दत्योच्यते ? तद् दृश्यताम्-
- इत्यात्मानं बहु विगणयन्नात्मनैवावलम्बे
- तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् ।
- कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
- नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥
सफलकाव्ये हि कङ्कालाङ्ग्यपि युवतिरुपतां यातीति कथनमेतादृगुक्तिदर्शनमूलकमेवेति ।
[सम्पादयतु] कथाबीजम्
यक्षः कुबेरस्य सेवकः आसीत् । सः स्वकार्येषु प्रमत्तः अभवत् । कुबेरस्य शापेन सः एकवर्षपर्यन्तं रामगिरिपर्वते न्यवसत् । तत्र अबला विप्रयुक्त: स कामी यत्र यत्र पश्यति तत्र तत्र कामोद्दीपक वस्तून् सम्पश्यन् अस्वस्थ: सन् अस्तम् गमितमहिमा भूत्वा कृश; भूत्वा कनकवलयभ्रश्प्रकोष्ठ् भूत्वा रामगिरे: (नविन् राम्गढ्) विजन गुहसु वासम् चक्रे। एवम् विरहकातर: स: सानुम् आश्लिष्य्माणम् मदेन् वप्रकीडाम् कुर्वाणम् गजसदृशम् च प्रेक्ष्य्माणम् मेघम् पश्यति।न् यद्यपि मेघ: धूमज्योतिसलिलमरुत्भि निर्मित; अचेतन: स कामातुर: न्यायान्यायचिन्तने असमर्थ्; सन् स्वप्रेयसीं प्रति मेघद्वारा संदेशं प्रेषयति । गम्यमाने सति मेघेन क: क: मार्गा: स्वीकरणीया: , के नगरा: ग्रामा: च मार्गे सन्ति। के के दृश्या: द्रष्टव्या: कथम् तेषम् अवगति: इत्यादय: पूर्व्मेघस्य विषया: । रामगिरे: आरभ्य उत्तराभिमुखे गते अमरकूटपर्वतम्नर्मदा नदीविदिशा नगरीवेत्रवती नदीमाल्वस्य राजधानी, कुरुक्षेत्रम् इत्यादय: द्रष्टव्या:। काशि हिन्दु विश्वविद्यालयस्य नॆपाळि विभागीयॆन त्श्रीमत् शेषराज शर्मणा 'चन्द्र्कला व्याख्यया प्रसिद्धीकृतमस्ति
प्रथम श्लोक:
- कश्चित् कान्ता विरहगुरुणा स्वाधिकारात् प्रमत्त:
- शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तु:
- यक्षश्चक्रे जनकतनयास्नानपुण्यॊदकॆषु
- स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु।