मेघालयराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मेघालयराज्यम्
Meghalaya
—  राज्यम्  —

Seal
भारते मेघालयः
मेघलयस्य भूपटः
Coordinates (शिल्लाङ्ग्): 25°34′N 91°53′E / 25.57°N 91.88°E / 25.57; 91.88Coordinates: 25°34′N 91°53′E / 25.57°N 91.88°E / 25.57; 91.88
राष्ट्रम्  भारतम्
उद्घोषणम् २१ जनवरि १९७२
राजधानी शिल्लाङ्ग्
मण्डलम् ११
सर्वकारः
 • राज्यपालः रञ्जित् शेखर मूशहरी
 • मुख्यमन्त्री मुकुल् सङ्ग्मा
विस्तीर्णम्
 • Total  Square km ( Square mile)
विस्तीर्णतास्तरः २२तम
जनसङ्ख्या (२०११)
 • Total
 • श्रेणी २३तम
भारतीय कालगणनम् (UTC+05:30)
साक्षरतापरिमाणम् ७२.१% (१५तम)
भाषाः खासि, प्नार्भाषा,गरो,हिन्दी, आङ्ग्लभाषा
जालस्थानम् http://meghalaya.nic.in meghalaya.nic.in

मेघालयराज्यम् (Meghalaya) ईशान्यभागे भारते विद्यमानं किञ्चन राज्यम् । मेघानाम् आलयः "मेघालयः"। अस्य राज्यस्य विस्तीर्णं ८.७०० चदरमैलपरिमितम् अस्ति । सा.श. २००० तमे संवत्सरे २,१७५,००० जनसंख्या आसीत् । राज्यस्य उत्तरभागे असमराज्यम्, दक्षिणे बाङ्ग्लादेशश्च भवतः। शिलाङ्ग अस्य राज्यस्य राजधानी । अस्य नगरस्य जनसंख्या २६०,००० भवति । रज्यस्य तृतीयस्य एकांशः अरण्यप्रदेशः अस्ति । असमराज्यात् त्रयाणां मण्डलानां खासिहिल्स्, जैनतियाहिल्स् तथा गारोहिल्स् विभागकरणेन १९७२ तमे संवत्सरे मेघालयराज्यस्य स्थापनम् अभूत् ।

जनसंख्या[सम्पादयतु]

मेघालयराज्ये वनवासिनः एव अधिकतया निवसन्ति । तेष्वपि ’खासि’ जनाः अधिकतया सन्ति । ’गारोसमुदायस्थाः’ अपि अधिकतया निवसन्ति । अन्ये जैन्, तियार , कोच् , हजोङ्ग , दिमासा, ह्मार, कुकि, लखर, मिकिर, रभा तथा नेपाळि जनसमुदायाः अत्र निवसन्ति । भारते अधिकया विद्यमानेषु क्रिश्चियनसमुदायेषु त्रिषु राज्येषु मेघालयोऽपि एकं राज्यम् । अस्मिन् राज्ये ७०.३% प्रतिशतं क्रिश्चियनजनाः निवसन्ति । अन्ये द्वे राज्ये नागाल्याण्ड, मिजोरामश्च भवतः । १९९१ तमे संवत्सरे मेघालयराज्ये ६५% प्रतिशतं क्रिश्चियनजनाः वसन्तिस्म । ११ लक्ष क्रिश्चियनजनाः वसन्तिस्म । अस्मिन् समये मिजोरामापेक्षया मेघालये २००१ तमे संवत्सरे क्रिस्तजनाः अधिकतया वसन्तिस्म । २००१ तमे संवत्सरे अस्मिन् राज्ये १००० पुरुषाणां ९७५ स्त्रीणाम् लिङ्गानुपातः अस्ति । मेघालये पुरुषाणां प्रामुख्यता तावान्नास्तीति अभिप्रायः अस्ति ।

भाषाः[सम्पादयतु]

आङ्ग्लभाषा मेघालयस्य राज्यभाषा अस्ति । ’खासि’ तथा ’गारो’ मुख्ये भाषे भवतः। ’खासि’ भाषा आस्ट्रो-एष्याटिक् समूहस्य मोनखैरस्य कुटुम्बस्य अङ्गम् अस्ति । प्रायः मेघालयस्थाः ९००,००० जनाः अनया खासि भाषया व्यवहरन्ति । खासिभाषायां विद्यमानानि कानिचन पदानि बङ्गालि तथा आर्यादि भाषातः स्वीकृतानि सन्ति । खासि भाषायाः लिपिः नास्ति । भारते मोनखैर कुटुम्बेषु अवसिष्टासु भाषासु खासि अपि एका भाषा । गारो, भोडो भाषयोः साम्यता अस्ति । अस्य राज्येषु अधिकाः जनाः गारो, अवे, चिसाक, अबेङ्ग, गाञ्चिङ्ग, कामरूप, आचिक,डाका तथा माट्टियादि भाषाप्रभेदेषु व्यवहरन्ति । अस्य राज्यस्य अपरा भाषा जैन तियाहिल्स् जनानां व्यवहारभाषा भवति । प्रायः खासि भाषायाः परिवर्तितं रूपं भवति।

भूगोलम्[सम्पादयतु]

Umiam Lake Meghalaya.jpg

मिघालयराज्यम् मेघालयस्य “प्रस्थभूमिः” इति व्यवहारः अस्ति । अस्मिन् अधिकतया प्राचीनशिला खण्डसदृशाः विद्यन्ते । आङ्गाराष्म, चूर्णशिला, युरेनियम् तथा सिलिमनैट सदृशाः खनिजाः शिलारूपाः भवन्ति । मेघालये काश्चन नद्यः वहन्ति । तासु काश्चन वर्षाश्रिताः सन्ति । अतः कालानुगुण्येन वहन्ति । डेरिङ्ग, साण्डा, बान्द्रा, भोगै, डारेङ्ग, सिसाङ्ग, नितै तथा भूपै इत्यादीनि गारोहिल्स् प्रदेशस्य मुख्याः नद्यः । उम्ख्रि, उमियम्, किञ्चियाङ्ग, माव्वा, उमियिव, मैन्गोट तथा मैण्ट्डु इत्यादीनि प्रस्थभूमेः केन्द्रभागस्य तथा पूर्वविभागस्य मुख्याः नद्यः भवन्ति । एताः नद्यः गहनकन्दराणां तथा सुन्दरजलपातानां सृष्टिकर्त्र्यः भवन्ति । प्रस्थभूमेः उन्नतश्रेणिः १५० तः १९६१ मी. भवति । खासिहिल्स् प्रदेशे विद्यमानायाः प्रस्थभूमेः केन्द्रभागस्य औन्नत्यम् अधिकं भवति । जैनतियाहिल्स् प्रदेशे विद्यमानः पूर्ववलयः औन्नत्ये द्वितीयः भवति । मेघालये उन्नतः शिलाङ्गशिखरः भवति । खासिहिल्स् प्रदेशे विद्यमानः शिखरः शिलाङ्गशिखरस्यापेक्षया उन्नतः भवति । अयं शिखरः १९६१ मि. उन्नतः अस्ति । प्रस्थभूमेः पश्चिमविभागे विद्यमानः गारोहिल्स वलयः प्रायः समतलप्रदेशः भवति । गारोहिल्स वलयस्य नोक्रेक् शिखरः उन्नतः भवति । अस्य औन्नत्यं १५१६ मिटर्परिमितं भवति ।

प्रवासोद्यमविभागः[सम्पादयतु]

नोह्कालिकेय् जलपातः

चिरापुञ्जि ईशान्य भारतस्य जनप्रियं प्रेक्षणीयस्थलम् । चिरापुञ्जि शिलाङ्गनगरात् दक्षिणदिशि विद्यते । ’एलिफण्ट जलपातः’, ’शाद्धुम् जलपातः’, ’वेय्निया जलपातः’, ’बिषप् जलपातः’, ’नोह्कालिकेय् जलपातः’, ’ल्याङ्ग्षियाङ्ग् जलपातः’, ’स्वीट् जलपातश्च’ प्रसिद्धाः जलपाताः भवन्ति । मासिन्राम् समीपे “जाक्रेम् अष्णजलउत्सांसि” सन्ति । रोगनिरोधकशक्तिः ऊष्णजले अस्ति । मेघालये मानवनिर्मिताः नैसर्गिकाश्च तटाकाः सन्ति । गुवहाटीतः शिलाङ्गगमनमार्गे विद्यमानस्य 'उमियम्' तटाकस्य “बडापानि” इति ख्यातिरस्ति । उमियम् तटाकः जानाकर्षकं प्रवासिस्थानं भवति । थङ्गखारङ्ग् उद्यानम्, इको उद्यानम्, सस्यशास्त्रीयोद्यानम्, लेडिहैदरि उद्यानानि प्रसिद्धानि भवन्ति ।

मण्डलानि[सम्पादयतु]

मेघालयराज्यं त्रिषु विभागेषु विभक्तम् । जैनतियाहिल्स्, खासिहिल्स्, गारोहिल्स् त्रयः विभागाः सन्ति । ११ मण्डलानि अस्मिन् राज्ये सन्ति ।

सङ्केतः मण्डलम् केन्द्रम् अधिकृतजालपुटम्
EK पूर्व-खासिहिल्स् शिल्लौङ्ग http://eastkhasihills.gov.in/
WK पश्चिम-खासिहिल्स् नोङ्गस्तोइन् http://westkhasihills.gov.in/
SWG नैऋत्य-खासिहिल्स् मौकरवट् http://southwestgarohills.gov.in/
RB रि-भोई नोङ्गपोह् http://ribhoi.gov.in/
EJH पूर्व-जाइन्तियाहिल्स् ख्लेरिएट् http://jaintia.nic.in/
WJH पश्चिम-जाइन्तियाहिल्स् जोवाइ http://jaintia.nic.in/
EG पूर्व-गारोहिल्स् विल्ल्यम्नगर http://eastgarohills.nic.in/
NG उत्तर-गारोहिल्स् रेसुबेल्पारा http://northgarohills.gov.in/
WG पश्चिम-गारोहिल्स् तुरा http://westgarohills.gov.in/
SG दक्षिण-गारोहिल्स् बाघ्मारा http://southgarohills.gov.in/
SWG नैऋत्य-गारोहिल्स् अम्पति http://southwestgarohills.gov.in/

वीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=मेघालयराज्यम्&oldid=267701" इत्यस्माद् पुनः प्राप्तिः