मेडलिन् स्लेड्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(मेडलीन् स्लेड् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Madeleine Slade
मीराबेन
300px
भारतस्य विदेशिपुत्री
जननम् २२/११/१८९२
इङ्ग्लैण्ड्-देशः
मरणम् २०/७/१९८२
वियेना-महानगरम्, ऑस्ट्रिया-देशः
इतरनामानि मीराबेन

मेडलिन् स्लेड् (आङ्ग्ल: Madeleine Slade, हिन्दी: मीराबेन) महात्मना प्रभाविता सन्ती भारतं स्वमातृभूमित्वेन अङ्ग्यकरोत् । भारतस्वतन्त्रतायै तस्याः योगदानम् अतिमहत्वपूर्णमासीत् । तस्याः नेतृत्वे आङ्ग्लविरोधीनि बहूनि आन्दोलनानि सफलानि अभवन् । सा भारते मीरा नाम्ना प्रसिद्धा अस्ति । मीरा इति तु महात्मना प्रदत्तं नाम । मीराबेन इत्यस्याः उल्लेखेन ज्ञानमेव न भवति यत्, एषा विदेशी महिला इति । महात्मनः सहवासेन तस्याः वस्त्रेषु, दिनचर्यां, भाषायां च भारतीयत्वम् आगतम् आसीत् ।

जन्म, आन्तरिकान्वेषणञ्च[सम्पादयतु]

१८९२ तमस्य वर्षस्य 'नवम्बर'-मासस्य द्वाविंशतितमे (२२/११/१८९२) दिनाङ्के इङ्ग्लैण्ड-देशे मीरायाः जन्म अभवत् । तस्याः पिता ब्रिटिश्-नौसेनायाम् अधिकारी आसीत् । समृद्धपरिवारे जन्मधृता मीरा प्रतिभावती बालिका आसीत् । सा निर्जीवक्रीडनकैः सह न क्रीडति स्म । सा सर्वदा पशु-पक्षि-पुष्पादिभिः सह एव क्रीडति स्म । प्रकृतिं प्रति तस्यां सहजानुरागः आसीत् । पक्षिणां कलरवः, वायोः तनस्पर्शः, रहस्यमयशक्तेः वार्ताः इत्यादयः तस्यै अधिकं रोचन्ते स्म । सा अज्ञातध्वनेः पृष्ठं धावति स्म । अज्ञातध्वनिं श्रुत्वा कदा कदा सा आनन्देन अट्टहासं करोति स्म, कदा कदा च करुणध्वनिना रोदनं प्रारभते स्म । सा बाल्यावस्थायां तेन अज्ञातध्वनिना सह एव व्यस्ता आसीत् । सः ध्वनिः तस्याः बाल्यं कथं प्रभावितम् अकरोत् इत्यस्योल्लेखः तया ‘द स्पिरिट् ऑफ् पिल्ग्रिमेज्’ इत्यस्मिन् पुस्तके कृतः । तस्मिन् पुस्तके स्वस्याः अज्ञातध्वनेः अन्वेषणस्य क्रीडायै सा “आन्तरिकान्वेषणम्” इति नाम अयच्छत् ।

प्रथमविश्वयुद्धकाले तस्याः आन्तरिकान्वेषणं तीव्रम् अभवत् । मानवानां दुस्साहसं दृष्ट्वा तस्याः मनसि अनेकाः प्रश्नाः समुद्भूताः । स्वस्याः कौतूहलस्य उत्तरं प्राप्तुं सा अनेकानां लेखकानां पुस्तकानि अपठत् । तेषु फ्रेन्चभाषायाः रोमारोला इत्यस्य लेखकस्य आङ्ग्लानूदिते ‘जा क्रिसोफ्’-पुस्तके सा स्वप्रश्नानां समाधानं प्रापत् । ‘जा क्रिसोफ्’-पुस्तके या नायिका आसीत्, तस्याः समस्या मीरायाः समस्यावत् आसीत् । ततः सा रोमारोला इत्यनेन लेखकेन लिखितां बीथोवन इत्यस्य जीवनीम् अपठत् । मीरा यदा बीथोवन इत्यस्य जीवनीं पठन्ती आसीत्, तदा सा पत्रेण रोलारोला इत्यस्य सम्पर्कं कृत्वा फ्रान्स्-देशं प्रति गमनेच्छां प्राकटयत् । तदनन्तरं सा फ्रान्स्-देशम् अगच्छत् च । रोमाराला आङ्ग्लभाषां, मीरा फ्रेन्चभाषां च न जानाति स्म । अतः उभयोः संवादः सन्देहास्पदः आसीत् । परन्तु अलौकिकव्यक्तीनां सम्भाषणे भाषा तु गौणविषयः एव । अलौकिकजनाः तु भावानाम् आदानप्रदानं कुर्वन्ति । अन्ततो गत्वा तयोः अलौकिकसम्भाषणम् अभवत् । मीरायाः आन्तरिकान्वेषणं स्वलक्ष्यं प्रापत् । रोमारोला मीरया सह यदा चर्चां करोति स्म, तदा सः महात्मनः उल्लेखम् करोति स्म । "महात्मनः जीवनीं पठ" इति रोमारोला मीराम् आदिशत् ।

साबरमती आश्रमे वासाय सज्जता[सम्पादयतु]

फ्रान्स्-देशात् इङ्ग्लैण्ड-देशं प्रतिगत्वा सा महात्मनः जीवनीम् अपठत् । मीरा यदा तां जीवनीं पठन्ती आसीत्, तदा तस्याः मनः अवदत्, “एषः एव सः जनः, यस्य अन्वेषणम् अहं कुर्वन्ती अस्मि” इति । जीवनीं पठित्वा तस्याः मनसि महात्मना सह मेलनस्य इच्छा उद्भूता । परन्तु महात्मना सह न कोऽपि परिचयः आसीत् तस्याः । अतः सा महात्मना सह पत्रमाध्यमेन सम्पर्कम् आरभत । एकस्मिन् पत्रे सा साबरमती आश्रमे निवासस्य इच्छामपि अलिखित् । मीरायाः पत्रस्य उत्तरं महात्मा अलिखित्, “आश्रमस्य जीवनं सुखमयं नास्ति । काठिन्येन परिपूर्णम् आश्रमस्य जीवनं शारीरिकश्रमयुक्तमस्ति । सर्वेभ्यः आश्रमवासिभ्यः शारीरिकश्रमः अनिवार्यः अस्ति । भारतस्य उष्णवातावरणे शीतप्रदेशीया त्वं कथं निवसिष्यसि इत्यपि चिन्तनीयः विषयः । अहमेतत् सर्वं त्वयि भयम् उपादयितुं न वच्मि, अपि तु त्वं सावधानेन निर्णयं स्वीकुरु इत्येव मे इच्छा” इति ।

महात्मनः पत्रं पठित्वा मीरा एकवर्षं यावत् इङ्ग्लैण्ड-देशे कठोरपरिश्रमम् अकरोत् । साबरमती आश्रमानुकूलं स्वजीवनं भवेत् इति तस्याः कठोरपरिश्रमस्य मुख्योद्देशः आसीत् । इङ्ग्लैड-देशे यः कठोरपरिश्रमः तया कृतः, तस्य फलरूपं सा २० पाउण्ड् आर्जयत् (कमाए) । तत् धनं सा महात्मने प्रैषयत् । ततः महात्मा तां पत्रम् अलिखत्, “त्वया प्रेषितं धनं प्राप्तम् । तस्योपयोगः तन्तुकरणयन्त्रस्य प्रसारार्थं भविष्यति । एकवर्षस्य कठोरपरिश्रमानन्तरं त्वं भारतम् आगन्तुमिच्छसि चेत्, तव स्वागतमस्ति” इति ।

मीरायाः भारतगमनस्य निर्णयं तस्याः पितरौ अजानीताम् । तौ अवदताम्, “हे पुत्रि ! त्वं विचिन्य एव निर्णयं कृतवती स्याः । अतः आवां तव निर्णयस्य विरोधं न कुर्वः । तव एषः निर्णयः सार्थकः भवेत् इति प्रार्थनां करिष्यावः । शुभास्ते पन्थानः” इति । ततः सा स्वगृहम् अत्यजत् । आजीवनम् एकवारमपि स्वगृहं प्रतिगन्तुं सा समयम् एव न प्रापत् । भारतमातुः सेवायै स्वजीवनम् समार्पयत् ।

भारतगमनम्, आश्रमवासश्च[सम्पादयतु]

भारतं सम्प्राप्य मीरा साबरमती आश्रमे महात्मानम् अमिलत् । चरणस्पर्शेन सह महात्मानं प्रणामम् अकरोत् । मीरायाः समर्पणं दृष्ट्वा महात्मा अवदत्, “अद्यारभ्य त्वं मम पुत्री असि । तव नाम अद्यारभ्य मीरा” इति । समनन्तरमेव महात्मा मीरायाः परीक्षार्थं तस्यै शौचालयस्वच्छतायाः कार्यम् अयच्छत् । भारतसेवायै दृढसङ्कल्पा मीरा निम्नभावं, घ्रृणाभावं विना अनुभूय स्वदायित्वम् अवहत् ।

आश्रमस्य दैनन्दिन्यनुसारं मीरा स्वकार्याणि करोति स्म । खादि-वस्त्रधारणं, तन्तुकरणयन्त्रचालनं, श्रमकार्यं च तस्याः जीवनस्य अभिन्नाङ्गम् अभवत् । स्वेच्छानां दमनं, परोपकारः, सरलजीवनं, भारतमातुः सेवा इत्यादयः नियमाः तया स्वशक्त्यनुसारम् पालिताः । आश्रमस्य व्यस्तजीवने, कठिनजीवने सा अनेकवारं रुग्णा अभवत् । शीतवातावरणे अभ्यस्ता (used to) मीरा कर्णावत्याः ४५-४८ अंशस्य उष्णवातावरणं सोढुम् असमर्था आसीत् । तथापि सा दृढेच्छाशक्त्या आश्रमे निवासम् अकरोत् । (तस्याः नाम्ना साबरमती आश्रमे अद्यापि एकं कुटीरं विद्यते मीराकुटीरम् इति ।)

आदिकालात् स्वयम्भूरीत्या चलन्तीं हिन्दुसंस्कृतिं प्रति मीरायाः सहजप्रेम समुत्पन्नम् । अनेकदिनानि सा हिन्दुसंस्कृत्याः अध्ययनम् अकरोत् । सा हिन्दुग्रन्थानाम् अध्ययनं, हिन्दुपद्धत्यनुसारं भोजनं, हिन्दुसंस्कृत्यनुसारं व्रतादीनि अकरोत् । ततः एकस्मिन् दिने सा महात्मानम् अकथयत्, “अहं हिन्दुधर्मम् अङ्गीकर्तुम् इच्छामी”ति । मीरायाः इच्छां श्रुत्वा महात्मा अवदत्, “त्वया योग्या क्रैस्त भवनीयम्” इति ।

महादेवभाई देसाई, मीरा च महात्मनः भुजे आस्ताम् । महात्मनः जीवनस्य बहूनि कार्याणि एतयोः योगदानेनैव अभवन् । एतौ द्वौ यदि नाभविष्यताम्, तर्हि महात्मनः बहूनि देशहितकार्याणि नाभविष्यन् ।

स्वातन्त्र्यसङ्ग्रामे मीरा[सम्पादयतु]

भारतमातुः सेवायै समर्पिता मीरा भारतस्वतन्त्रतायै अनेकेभ्यः आन्दोलनेभ्यः स्वयोगदानम् अयच्छत् । १९३२ तमे वर्षे महात्मना उद्घोषिते सविनयनियमभङ्गस्य आन्दोलने मीरा अपि सक्रियक्रान्तिकारिणी आसीत् । मीरायाः विरोधेन त्रस्ताः आङ्ग्लाधिकारिणः तां मुम्बई-महानगरे स्थितं कारागारं प्रैषयन् । तस्मिन् आन्दोलने मीरा अनेकाभिः स्त्रीभिस्सह आङ्ग्लविरोधीनि सूत्रोच्चारणानि करोति स्म । आन्दोलने महिलानां योगदानम् वर्धेत इति दायित्वं मीरायाः आसीत् ।

१९३२ तमे वर्षे महात्मना सह गोळमेजी-परिषदि भागम् ओढुम् इङ्ग्लैण्ड-देशम् अगच्छत् । इङ्ग्लैण्ड-देशे स्थितं स्वगृहं तु सा नाग्च्छत्, परन्तु तस्याः मानसपटले बाल्यकालस्य संस्मरणानि तरन्ति स्म । आश्रमस्य संयमितजीवनस्य पूर्वजीवनस्य च तुलनां कुर्वन्ती सा आश्रमजीवने अतिसन्तुष्टा आसीत् ।

१९३४ तमे वर्षे गान्धी-विचारप्रसारार्थं मीरा विदेशयात्रायै न्यर्गच्छत् । सा इङ्ग्लैण्ड-देशस्य, अमेरिका-देशस्य च प्रवासम् अकरोत् । महात्मनः मानवतावादिविचाराणां प्रसारार्थं सा विभिन्नेषु स्थानेषु भाषणानि अकरोत् । सभायाम् उपस्थिताः जनाः गान्धी-विचारसम्बद्धान् अनेकान् प्रश्नान् अकुर्वन् । मीरा सर्वेभ्यः योग्योत्तराणि अयच्छत् । सामान्यजनेषु गान्धी-विचारस्य प्रसारः एव तस्याः मुख्योद्देशः नासीत्, विदेशे स्थिताः बुद्धिजीविनः, चिन्तकाः, नेतारः अपि गान्धी-विचाराणां समर्थनं कुर्युः इत्यपि तस्याः उद्देशः आसीत् । अतः सा अनेकबुद्धिजीविसम्मुखं भाषणम् अकरोत् । यथा – हेलीफॉक्स्, विंस्टन् चर्चिल्, जनरल् स्मट्स्, सेम्युअल् । विदेशात् भारतं प्रतिगत्वा मीरा भारतस्य विभिन्नेषु स्थानेषु निवासम् अकरोत् । तेषु अधिकसमयं यावत् सा महात्मना महाराष्ट्रराज्ये स्थापिते वर्धा आश्रमे न्यवसत् ।

१९४२ तमे वर्षे त्यजतु भारतम्-आन्दोलने सा अनेकानि आङ्ग्लविरोधीनि कार्याणि अकरोत् । पुणे-महानगरे यदा महात्मानम् आङ्ग्लाः कारागारं प्रैषयन्, तदा आङ्ग्लाः मीरामपि तेन सह कारागारं प्रैषयन् । पुणे-महानगरस्य कारागारे तया रामायण-महाभारत-उपनिषदाम् अध्ययनं कृतम् । ततः १९४४ तमे वर्षे आङ्ग्लाः महात्मानं, कस्तूरबा इत्येनां, महादेवं च यदा कारागारं प्रैषयन्, तदा मीराम् अपि ते कारागारं प्रैषयन् । तस्मिन् आगाखान-कारागारे क्रमेण महादेवस्य, कस्तूरबा इत्यस्याः च मृत्युसमये मीरा तेयोः समीपमेव आसीत् । कस्तूरबा इत्यस्याः अन्तिमदिनेषु मीरा एव तस्याः सेवाम् अकरोत् । ततः कारागारात् बहिरागत्य मीरा हरिद्वार-नगरस्य कृषि-आश्रमे न्यवसत् । तस्मात् आश्रमात् सा पत्रमाध्यमेन महात्मनः मार्गदर्शनं स्वीकरोति स्म ।

१९४८ तमस्य वर्षस्य 'जनवरी'-मासस्य त्रिंशत्तमे (३०/१/१९४८) दिनाङ्के महात्मनः हत्या अभवत् । तेन मीरा मानसिकाघातेन ग्रस्ता अभवत् । ततः परं तस्याः जीवने किमपि नास्ति इति तया अनुभूतम् । विचलितमनसा तया अनेकानि दिनानि एवमेव यापितानि । आदिनं सा महात्मनः विषये चिन्तयन्ती आसीत्, तस्य उपदेशानां मननं च कुर्वन्ती आसीत् । तेन चिन्तनेन तस्याम् ऊर्जायाः उद्भवः भवति स्म । तया सह यत्किमपि अभवत्, तत् ईश्वरेच्छा आसीत् इति तया शनैः शनैः स्वीकृतम् । मुर्हुमुहुः तस्याः मानसपटले महात्मनः एकः उपदेशः समुद्भवति स्म यत्, “ईश्वरे श्रद्धां धरस्व । त्वं यत्र असि, तत्र स्थित्वा स्वदायित्वस्य वहनमेव ईश्वरेच्छास्ति” इति ।

मीरायाः भारतत्यागः[सम्पादयतु]

महात्मनः मृत्योः अनन्तरं मीरायाः दायित्वं महात्मनः आदेशानां पूर्तिः आसीत् । महात्मनः आदेशः आसीत्, भारतमातुः सेवा इत्येव । अतः मीरा ग्राम्यवासिनां कल्याणार्थं, गौरक्षणार्थं च स्वजीवनं समार्पयत् । परन्तु एकस्मिन् दिने न कमपि उक्त्वा सा भारतात् न्यर्गच्छत् । सा किमर्थं, कदा, कथं, कुत्र गता इति न कोऽपि अजानत् ।

इतिहासविदां मतमस्ति यत्, “भारतीयाः स्वदेशस्य क्रान्तिकारिणां सम्मानं नाकुर्वन् । भारतमातुः स्वतन्त्रतायै ये क्रान्तिकारिणः युवावस्थां समार्पयन्, तेषु बहूनां क्रान्तिकारिणां जीवने वृद्धावस्थायाम् अभावः, पराधीनता, एकाकित्वमेव आसीत् । तेषां समर्पणस्य, त्यागस्य, देशभक्त्याः यावान् सम्मानः आवश्यकः आसीत्, तावन्तं न कोऽपि अकरोत् । तदा कृतघ्नाः भारतीयाः यदि कृतज्ञाः अभविष्यन्, तर्हि मीरायाः देशत्यागस्य अवसरः नागमिष्यत्” इति ।

भारतत्यागानन्तरं मीरा कानिचन वर्षाणि चीन-देशस्य युनान-प्रदेशे न्यवसत् । चीनदेश-तः ऑस्ट्रिया-देशम् अगच्छत् । ऑस्ट्रिया-तः सा जर्मनी-देशम् अगच्छत् । एतावता न कस्यापि भारतीयस्य ज्ञानमासीत् यत्, “यः महात्मा भारतीयस्वतन्त्रायां मुख्यभूमिकाम् अवहत्, तस्य दक्षिणहस्तवत् या आसीत्, सा मीरा जीवन्ती अस्ति उत न” इति । परन्तु मीरा तु स्वदायित्वस्य सुचारुरीत्या वहनं करोति स्म । १९६९ तमे वर्षे तया जर्मनी-देशस्य एकस्मिन् नगरे महात्माजन्मशताब्दी उत्सवत्वेन आचरिता । महात्मनः विचाराणां प्रसारं कुर्वन्ती सा सर्वदा भारतस्य हितम् अचिन्तयत् । परन्तु भारतीयानां ज्ञानं नासीत् यत्, मीरा कुत्र अस्ति इति । जर्मनी-देशे आचरितः सः उत्सवः मीरायाः उपस्थितेः सूचकः आसीत् । अतः बनासरीदास चतुर्वेदी नामकेन एकेन लेखकेन मीरायाः विषये अन्वेषणं प्रारब्धम् । अन्वेषणे तेन ज्ञातं यत्, मीरा तु ऑस्ट्रिया-देशे एव निवसति, जर्मनी-देशं तु सा उत्सवायोजनार्थमेव गतवती आसीत् । ततः सः भारतसर्वकाराय मीरा कुत्र अस्ति ? तस्याः जीवने कियन्तः अभावाः सन्ति इत्यादिसूचनाः अयच्छत् । परन्तु तेन प्रदत्तायाः सूचनायाः न कोऽपि उपयोगः अभवत्, साहाय्यं तु कथं भवेत् ?

मीरायाः जीवनम् अभावैः परिपूर्णमासीत् । सा गान्धी-विचाराणां प्रसाराय सर्वदा कार्यरता भवति स्म, परन्तु वृद्धावस्थायां स्वास्थ्यस्य किमपि निश्चितं न भवति । सा बहुवारं रुग्णा अभवत्, परन्तु दृढमनोबलेन सा सर्वदा स्वस्था भवति स्म । सा स्वकर्तव्यपालने एव निरता आसीत्, परन्तु महाबलस्य कालस्य सम्मुखं न कस्यापि बलं तिष्ठति । तस्याः स्वास्थ्यम् असम्यक् अभवत् । १९८० तमे वर्षे सा सेवाग्राम-आश्रमस्य अध्यक्षं पत्रम् अलिखत्,

     प्रति, श्रीसेवाग्राम-आश्रमस्य अध्यक्ष,

     अहं मीरा नवतिवर्षिया अभवम् । अहम् ऑस्ट्रिया-देशस्य वियेना-महानगरस्य समीपं लघुग्रामे निवसामि । 
     आजीवनं गान्धी-विचारस्य प्रसाराय, भारतमातुः सेवायै च अहं स्वजीवनं समार्पयम् । परन्तु मम जीवनस्य अन्तिमे 
     कालेऽस्मिन् मम आजीविकायाः न किमपि साधनं विद्यते । अहं स्वम् असहायाम् अनुभवामि । मम स्वास्थ्यमपि 
     सम्यक् नास्ति । रोगं परिहर्तुं शल्यक्रियायाः आवश्यकता अस्ति इति शल्यचिकित्सकस्य कथनमस्ति । शल्यक्रियायै 
     चतुस्सहस्ररूप्यकाणाम् आवश्यकता अस्ति । भवान् साहाय्यं करोति चेत् मे उपकाराय ।

                                                                                 -      गान्धीपुत्री मीरा

मीरायाः पत्रं यदा सेवाग्राम-आश्रमस्य अध्यक्षः चीमनभाई शाह प्रापत्, तदा सर्वेषां ज्ञानमभवत् यत्, मीराबेन जीवन्ती अस्ति इति । परन्तु सेवाग्राम-आश्रमस्य पार्श्वे एतावत् धनं नासीत् । अतः चीमनभाई शाह गान्धी-स्मारक-निधि-संस्थां साहाय्यार्थं न्यवेदयत् । ततः किमपि प्रत्युत्तरं सः न प्रापत् । अन्ततो गत्वा सः भारतसर्वकारस्य पार्श्वे धनम् अयाचत । चीमनभाई शाह इत्यस्य पत्रं पठित्वा भारतसर्वकारेण २०,००० रूप्यकाणि मीरायाः शल्यक्रियायै प्रेषितानि । भारतसर्वकारेण ३,४०० रूप्यकाणां निवृत्तिवेतनम् (pension) अपि निर्धारितम् ।

पद्मविभूषणा मीरा[सम्पादयतु]

भारतसर्वकारेण मीरायाः साहाय्यं कृत्वा स्वदायित्वस्य निर्वाहः कृतः । परन्तु एतावता एव सर्वकारस्य दायित्वं पूर्णं न भवति । पूर्वस्मादेव क्रान्तिकारिणः प्रति स्वकृतज्ञतां यदि सर्वकारः प्रादर्शयिष्यत्, तर्हि मीरायाः धनयाचनायाः अवसरः एव न औद्भविष्यत् । देशजनाः यदा मीरायाः दुःखम् अजानन्, तदा तां प्रति सर्वे कृतज्ञताम् अन्वभवन् । जनानां भावनां ज्ञात्वा सर्वकारेणापि मीरायाः सम्मानस्य विषये चिन्तनं कृतम् । १९८१ तमस्य वर्षस्य 'नवम्बर'-मासस्य द्वाविंशतितमे (२२/११/१९८१) दिनाङ्के गान्धी-स्मारक-समित्या मीरायाः नवतितमस्य जन्मदिनस्य उत्सवः आचरितः । ततः १९८२ तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे (२६/१/१९८२) दिनाङ्के (प्रजासत्ताकदिने) भारतसर्वकारेण पद्मविभूषण-पुरस्कारेण तस्याः सम्मानः कृतः । ततः सा पुनः ऑस्ट्रिया-देशम् अगच्छत् ।

मृत्युः[सम्पादयतु]

महात्मनः आदर्शानुसारं जीवनं यापितवती सा जीवनस्य अन्तिमदिनेषु अमूल्यं पुस्तकम् अलिखत् । तस्याः उद्देशः आसीत् यत्, “भारतात् यत् आध्यात्मिकं ज्ञानं मया प्राप्तम् अस्ति, तज्ज्ञानं पाश्चात्याः प्राप्नुयुः” इति । १९८१ तमे वर्षे यदा सुन्दरलाल बहुगुणा ऑस्ट्रिया-देशम् अगच्छत्, तदा मीरा तस्य अन्तिमपुस्तकस्य विषये तेन सह चर्चाम् अकरोत् । ततः एकवर्षानन्तरं १९८२ तमस्य वर्षस्य 'जुलाई'-मासस्य विंशतितमे (२०/७/१९८२) दिनाङ्के ऑस्ट्रिया-देशस्य वियेना-महानगरस्य समीपस्थे एकस्मिन् ग्रामे मीरायाः निधनम् अभवत् ।

भारतस्वतन्त्रायाः अनन्तरम् अपि ये क्रान्तिकारिणः जीविताः आसन्, तेषाम् अमूल्ययोगदानेनैव भारतस्य स्थितिः योग्या अभवत् । अन्यथा आङ्ग्लाः तु देशे मार्गदर्शनहीनतायाः, अराजकतायाः च स्थितिं जनयित्वा गताः आसन् । सरदार वल्लभभाई पटेल, जयप्रकाश नारायण, डॉ. राजेन्द्र प्रसाद इत्यादीनां क्रान्तिकारिणाम् अमूल्ययोगदानेनैव भारतस्य स्थितिः सुदृढा अभवत् । तेषु क्रान्तिकारिषु मीरा अपि अन्यतमा । स्वातन्त्र्यानन्तरं जनेषु देशभक्त्याः भावः तया जनितः । भारतस्य सेवां कृतवत्यै तस्यै कोटिशः नमस्काराः ।

सम्बद्धाः लेखाः[सम्पादयतु]

महात्मा गान्धी

पद्मश्रीपुरस्कारः

साबरमती आश्रमः

हिन्दुधर्मः

हिन्दुसंस्कृतिः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.mkgandhi.org/associates/Mirabehn.htm

http://www.britannica.com/EBchecked/topic/1949330/Mirabehn

https://www.youtube.com/watch?v=Se0kpkJIhH8

http://www.gandhiserve.org/e/information/questions_and_answers/faq5/faq5.htm

http://www.winentrance.com/general_knowledge/mira-behn.html

http://www.indiavideo.org/text/mira-behn-1225.php

"http://sa.wikipedia.org/w/index.php?title=मेडलिन्_स्लेड्&oldid=281348" इत्यस्माद् पुनः प्राप्तिः