मैसूरुमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मैसूरुमण्डलम्
ಮೈಸೂರು ಜಿಲ್ಲೆ
—  मण्डलम्  —
मैसूरुराजभवनम्
कर्णाटकराज्ये मैसूरुमण्डलम्
Coordinates: 12°13′N 76°29′E / 12.21°N 76.49°E / 12.21; 76.49Coordinates: 12°13′N 76°29′E / 12.21°N 76.49°E / 12.21; 76.49
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
विभागम् मैसूरुविभागम्
केन्द्रम् मैसूरुनगरम्
उपमण्डलानि मैसूरु, तिरुमकूड्लु नरसीपुरम्, नञ्जनगूडु, हेग्गडदेवनकोटे, हुणसूरु, पिरियापट्टणम्, कृष्नराजनगरम्
सर्वकारः
 • Deputy Commissioner हर्ष गुप्त, IAS
विस्तीर्णम्[१]
 • Total ६,८५४ Square km (२,६४६.३ Square mile)
जनसङ्ख्या (2001)[१]
 • Total २६,४१,०२७
भाषाः
 • अधिकृतभाषा कन्नडभाषा
भारतीयसामान्यकालमानम् (UTC+5:30)
वाहनपञ्जीकरणम् KA-09 ,KA-55
जालस्थानम् mysore.nic.in

मैसूरुमण्डलम् (Mysore district) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । भारतस्य दक्खन् प्रस्थभूमौ विराजते मैसूरुमण्डलम्कर्णाटकस्य सांस्कृतिकराजधानी इति ख्यातिः अस्य नगरस्य अस्ति । मण्डलस्य केन्द्रस्य च नाम समानम् अस्ति । अत्र अनेकाः राजप्रासादाः सन्ति अतः प्रासादनगरम् इत्यपि कथयन्ति ।

विस्तीर्णता[सम्पादयतु]

६२६९ च.कि.मी.मिता ।

स्थानम्[सम्पादयतु]

अस्य ईशान्यदिशि मण्ड्यमण्डलम्, आग्नेयदिशि चामराजनगरमण्डलम् , दक्षिणदिशि तमिऴनाडुराज्यम्, नैरुत्यदिशि केरलराज्यम्, पश्चिमदिशि कोडगुमण्डलम्, उत्तरदिशि हासनमण्डलम् , च सन्ति ।

उपमण्डलानि-७[सम्पादयतु]

मैसूरु, हेग्गडदेवनकोटे, हुणसूरु, कृष्णराजनगरं, नञ्जनगूडु, पिरियापट्टणं, तिरुमकूडलुनरसीपुरम्

नद्यः[सम्पादयतु]

कावेरी, लक्ष्मणतीर्थं, कपिला

इतिहासः[सम्पादयतु]

मैसूरुनगरस्य प्रतिष्ठापनं तु सामान्यतः ११ तमे शतके अभवत् इति विश्वासः । १४तम शतकस्य अन्ते ओडेयर् वंशजाः मैसुरुसंस्थानस्य प्रशासनम् आरब्धवन्तः । अस्य वंशस्य प्रथमः नृपः यदुरायः । अतः तस्य वंशस्य नाम यदुवंशः इति प्रथितम् । प्रथमं तावत् विजयनगरसाम्राज्यस्य एव भागः आसीत् । किन्तु विजयनगरस्य पतनस्य अनन्तरं मैसूरुसंस्थानं स्वतन्त्रं राज्यम् अभवत् । रणधीरकण्ठीरवनरसराज ओडेयर् राज्यविस्तारं कृतवान् । १८तमशतके ओडेयर् राज्ञां प्रभावः क्षीणः अभवत् । तदनन्तरं हैदरालि, टिप्पु सुल्तान् च क्रमशः राज्यभारं निरूढवन्तौ । तयोः साम्राज्यस्य राजधानी मैसूरुतः श्रीरङ्गपट्टणम् अभवत् । क्रि.श.१७९९ तमे वर्षे टिप्पुसुल्तानस्य पराजयस्य अनन्तरं ब्रिटिश्जनानां हस्तगतम् । ते पुनः ओडेयर् वंशीयान् एव सिंहासने आरोपितवन्तः । क्रि.श. १८३४ तमे वर्षे बेङ्गळूरुनगरं तेषां राजधानी अभवत् । भारतस्य स्वातन्त्र्यानन्तरं मैसूरु ओडेयर् संस्थानं भारतगणराज्ये विलीनम् अभवत् । क्रि.श. १९५०तमे वर्षे मैसूरुराज्यम् इति नाम अभवत् । कालान्तरे क्रि.श.१९५६तमे वर्षे पुनरेकीकरणस्य काले कर्णाटकराज्यम् इति पुनः नामाङ्कितम् ।

भौगोलिकता[सम्पादयतु]

मैसूरुनगरं समुद्रतटात् ७७०मी. औन्नत्ये अस्ति । बेङ्गळूरुनगरात् १४०कि.मी दूरे अस्ति । भूमिवायुमार्गाभ्यां शीघ्रसञ्चारव्यवस्था अस्ति । सामान्यं शीतलं वातावरणं सर्वदा हितकरं भवति । अस्य मण्डलस्य नैरुत्यभागे कावेरीजलानयनप्रदेशः कृषिसमृद्धः अस्ति । बण्डिपुर-अभयराण्यम् नागरहोळे अभयारण्यं च भागशः अस्मिन् मण्डले एव स्तः। सामान्यतः कार्तिकटोबर् मासे आचर्यमानः नवरात्रोत्सवः मैसूरुनगरस्य सांस्कृतिकम् आकर्षणम् अस्ति । दसरा नाम्ना दशदिनानि वैभवेन आचरन्ति ।

कृषिः[सम्पादयतु]

कृषिः एव जनजीवनस्य आर्थिकतायाः मूलस्रोतः । यद्यपि नदीजलानयनम् अस्ति तथापि वृष्टिम् आश्रित्य एव कृषिकर्म प्रचलति । सामान्यतः ३,२५,९०० कृषकाः अनवरतं कृषिकार्यनिरताः भवन्ति । देशस्य आहारोत्पादने ६.९५% योगदानं मैसूरुमण्डलस्य अस्ति । कलायाः , गोधूमः, रागी, इक्षुः, सूर्यकान्तिः, इत्यादयः अस्य मण्डलस्य प्रधानानि आहारोत्पादनानि भवन्ति ।

प्रेक्षणीयानि स्थानानि[सम्पादयतु]

सङ्गीतोत्सा

मैसूरे अतिप्राचीनः मैसूरुविश्वविद्यालयः केन्द्रीयम् आहारतन्त्रज्ञानसंशोधनकेन्द्रम्, केन्द्रीयरक्षणाविभागस्य आहारसंशोधनप्रयोगालयः, विश्वप्रसिद्धं मैसूरुराजभवनम्, श्रीचामराजेन्द्रजन्तुशाला, चामुण्डीपर्वतः, कारञ्जिकेरे, कुक्करहळ्ळीकेरे, बण्डिपुरं, राजेन्द्रविलासः, जगन्मोहनप्रासादः, जयलक्ष्मीविलासः, ललितमहल्, मानसगङ्गोत्री च। नञ्जनगूडु, सोमनाथपुरं, तलकाडु इत्येतेषु अपि प्रसिद्धानि स्थानानि सन्ति ।

१)मैसुरुनगरम्[सम्पादयतु]

मैसूरुप्रदेशे पूर्वं गङ्ग-चोल-विजयनगर-होय्सल-ओडेयरवंशीयानां प्रशासनम् आसीत् । नाल्वडि कृष्णराज ओडेयरः अत्यन्तम् प्रसिद्धः राजा आसीत् । मैसूरुनगरे नवरात्रिमहोत्सवः वैभवेण आचरितः भवति । विजयदशम्याः दिने आचर्यमाणः दसरामहोत्सवः मैसूरुदसरा इत्येव प्रसिद्धः । देव्याः चामुण्डेश्वर्याः सुवर्णमण्डपे उत्सवः भवति । स तु विश्वविख्यातः पर्वविशेषः। लक्षाधिकजनाः देशविदेशेभ्यः अस्मिन्नवसरे मैसूरुनगरम् आगच्छन्ति गजस्योपरि देव्याः चामुण्डेश्वर्याः विशेषयात्रा भविष्यति । नगरे विविधाः मनोरञ्जनकार्यक्रमाः प्रचलन्ति । राज्यसर्वकारेण उत्सवः आचर्यते । कर्णाटकराज्यस्य मुख्यमन्त्री उत्सवे भागं स्वीकरोति । मैसूरुसमीपे रङ्गनतिट्टुपक्षिधाम अस्ति । मैसूरुनगरे दर्शनीयानि अनेकस्थानानि सन्ति । तेषु जगन्मोहनप्यालेस्, चित्रशाला, मृगालयः, रेल्वेम्युसियम् ललितमहल् सेंटफिलोमीनाचर्च, मानसगङ्गोत्री, वस्तुसंग्रहालयः श्रीगन्धतैलकार्यागारः, दुकूलवस्त्रनिर्माणकार्यागारः, मैसूरुराजगृहं प्रमुखानि। मृगालये दिसद्द्स्रजातीयाः पशुपक्षिणः सन्ति । मैसूरुतः १२ कि.मी .दूरे कावेरीनद्याः कृते कन्नम्बाडीजलबन्धः निर्मितः अस्ति । कन्नम्बाडीजलबन्धेन कृष्णराजसागरजलाशयः निर्मितः अस्ति । तत्र वुन्दावनोद्यानम् विश्वप्रसिद्धम् अस्ति । कृतकजलपातः , जलविहारः, सङ्गीतमयानि उत्सांसि सुन्दरदीपालङ्कारः यात्रिकानाम् आनन्दं जनयन्ति । उद्याने विविधानि सुन्दराणि सस्यानि सन्ति । मैसूरनगरं राजगृहाणां नगरम् इति प्रसिद्धम् । अत्र राजमार्गाः इव मार्गाः सन्ति । वास्तुशिल्पानि अतीव सुन्दराणि । तीर्थक्षेत्राणाम् अपेक्षया मैसूरुनगरे प्रेक्षणीयानि अनेकानि स्थानानि सन्ति । राजगृहस्य आवरणे एव अनेके देवालयाः सन्ति । तेषु भुवनेश्वरी- तृणेश्वरगायत्री(१९४९)-श्वेतवराह-प्रसन्नकृष्णलक्ष्मीरमणदेवालयाः प्राचिनतमाः सन्ति । राजगृहे स्थितः आत्मविलासविनायकः अत्यन्तम् अद्भुतः क्वचिदेव दृश्यते च । आवारस्य बहिर्भागे दक्षिणपार्श्वे स्थितः बृहदाञ्जनेयमन्दिरं, सुब्बरायदासमन्दिरम् अतीव सुन्दरम् । ओण्टिकोप्पलु प्रदेशे स्थितं लक्ष्मीवेङ्कटरमणमन्दिरं (१९३७) ,चामुण्डीपर्वते स्थितः (महबलाचलः) भोगानरसिंहदेवालयः च दर्शनीयाः सन्ति । चामुण्डीपर्वतः (३४८९ पादपरिमितोन्नतः) अस्मिन् प्रदेशे स्थितस्य चामुण्डेश्वरीदेवालयस्य भव्यगोपुरं ६४० मीटर् उन्नतं , २००० वर्षप्राचीनं च । चामुण्डीपर्वतप्रदेशः आकर्षकः अस्ति । एतत् स्थानं पवित्रम् इति प्रसिद्धम् अस्ति । अत्र चामुण्डेश्वरी शक्तिदेवता रुपेण अस्ति । अत्र आगन्तुं १००० सोपानानां पादमार्गः (४.कि.मी मितः) अस्ति। २३ कि.मी. मितः सुसज्जितः वाहनमार्गः च अस्ति । पर्वते मार्गे २६ पादोन्नतः, २५ पादविस्तारवान् कृष्णाशिलायाः बृहन्नन्दीविग्रहः अस्ति। क्रिस्ताब्दे १६६४ तमे वर्षे निर्मितः एकशिलानिर्मितः दर्शनीयः नन्दिशिल्पः एषः । मैसूरुनगरे बहिर्भागे अधुनातनकाले स्थापितः गणपतिसच्चिदानन्दाश्रमः (अवधूतदत्तपीठम् इत्याख्यः) अद्भुतः अस्ति । विशालः प्रदेशः, सुन्दरराजगृहमिव वास्तुशिल्पम्, अधिदेवता दत्तात्रेयः इत्येतैः एतेन स्थानेन यात्रास्थलरुपं प्राप्तम् अस्ति । अत्रैव स्थित किष्किन्धामूलिकावनं बोनसायी उद्यानं विश्वे एव प्रसिद्धम् ।

२) नञ्जनगूडु[सम्पादयतु]

नञ्जनगूडु देवालयः

अस्य पौराणिकानि नामानि गरळपूरी, परशुरामक्षेत्रं, गौतमक्षेत्रं, दक्षिणकाशी इति च आसन् । अत्र श्रीनञ्जुण्डेश्वरः अथवा श्रीकण्ठेश्वरदेवालयः अस्ति । कपिलानदीतीरे एषः देवालयः अस्ति । एषः कर्णाटकराज्ये एव बृहद्धेवालयः इति प्रसिद्धः अस्ति । अस्य विस्तारः १६० पादपरिमितः *३८५ पादपरिमितः च अस्ति । महाद्वारगोपुरं १२० पादपरिमितम् उन्नतम् अस्ति । गोपुरे ३ मीटर् परिमितानि स्वर्णलेपितानि कलशानि श्रृंगद्वयं च सन्ति । स्तम्भानां विभागानुसारं २४७ अङ्गणविस्तारितम् मन्दिरम् अस्ति । गर्भगृहं परितः प्रदक्षिणापथम् अनन्तरं ९ स्तम्भानां सथामण्टपम् अस्ति । एषः देवालयः आदौ गङ्गवंशीयैः अनन्तरं चोळैः विजयनार- राजैः, मैसूरुओडेयरआदिभिः विस्तारितः अस्ति । देवालये स्थितानां विग्रहाणां सङ्ख्या अन्यत्र कुत्रापि न दृश्यते । अर्धसंख्याकाः विग्रहाः शिवलिङ्गानि।

३) सोमनाथपुरम्[सम्पादयतु]

एषः प्राचीनः अग्रहारः अस्ति अत्र १३ शतकीयः प्रसन्नकेशव अथवा लक्ष्मीकेशवदेवालयः अस्ति । एषः देवालयः विशालः अस्ति अस्य प्राङ्ग्णं २१५*१७७ पादपरिमितम् अस्ति । प्रवेशाय महाद्वारमस्ति । गर्भगृहम् परितः भवनेषु ६४ गुहाः इव रचनाः सन्ति । तासु प्रत्येकस्मिन् देवदेवतानां शिल्पं स्यात् इति अभिप्रायः । एषः देवालयः होय्सळशैल्या अस्ति । उन्नतं प्राङ्गणं नक्षत्राकारकम् अस्ति । एषः त्रिकूटाचलः। अस्य आवारेषु स्थितानि शिल्पानि अद्भुतानि मनमोहकानि च सन्ति । देवालये ३ गर्भगृहाणि सन्ति । एकस्मिन् वेणुगोपालः अन्यस्मिन् जनार्दनः, मध्ये केशवः च सन्ति । प्राचीनः केशवविग्रहः केनचित् चोरितः इदानीं नूतनविग्रहः स्थापितः अस्ति ।

मार्गः[सम्पादयतु]

  • मैसूरुतः ४२ कि.मी ।
  • वसतिः -के.एस्.टि.डि.सि प्रवासिनिलयं , होटेलमयूर , केशव च ।

४)तलकाडु -कावेरीतीरस्थम्[सम्पादयतु]

त्रिवेणीसङ्गमस्थानम् । सिद्धारण्यम्, दवलनपुरम्, गङ्गवाडी, गजारण्यक्षेत्रम् इत्यादिभिः नामभिःप्रसिद्धम् अस्ति । एतत् ऐतिहासिकं पौराणिकं धार्मिकं च क्षेत्रमस्ति । चारित्रिकदृष्ट्या तलकाडु गङ्गवंशीयानाम् राजधानी आसीत् । चोळानां काले अस्य राजराजपुरम् इति नाम आसीत् । अत्र पञ्चब्रह्ममयः परशिवमूर्तिः पञ्चमुखैः युक्तः अस्ति । सः एव वैद्येश्वरः मल्लिकार्जुनः, अर्केश्वरः, पातालेश्वरः मरळेश्वरः च। कीर्तिनारायणमन्दिरं (नडुबीदिनारायण) होय्सळराजानां काले विष्णुवर्धनेन निर्मितम् अतीव सुन्दरं मन्दिरम् अस्ति । देवः पद्मधारी दशपादपरिमितोन्नतः अस्ति । पीठस्य प्रभावळ्याम् दशावतारस्य शिल्पं सुन्दरम् अस्ति । पञ्चलिङ्गदेवालये स्थितानां पञ्चलिङ्गानां दर्शनम् इति उत्सवः द्वादशवर्षेषु एकवारं वैभवेण प्रचलति । तदा लक्षाधिकजनाः आगत्य उत्सवे भागं स्वीकुर्वन्ति । अत्रत्यः तलकाडुसिकताराशिः कर्णाटकस्य भूविस्मयेषु अन्यतमः अस्ति । एतत् क्षेत्रं भारतीयपुण्य- क्षेत्रेषु अग्रपंक्तौ योजितम् अस्ति । भारतीयशैववैष्णवयात्रास्थलेषु अन्यतमम् अस्ति

मार्गः[सम्पादयतु]

मैसूरनगरे वासः योग्यः । ततः बस्यानसौकर्यम् अस्ति ।

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

श्रेष्ठः अभियन्ता श्री मोक्षगुण्डं विश्वेश्वरय्यः स्वतन्त्रभारतस्य द्वितीयः राष्ट्राध्यक्षः सर्वपल्ली राधाकृष्णन् , ख्यातनामकविः बि.एम्.श्रीकण्ठय्यः , रङ्गकथाकारः आर्.के.नारायणः सि.डि.नरसिंहय्यः जावगल् श्रीनाथः, मङ्गलासत्यन्, वीणे शेषण्णः, वीणे सुब्बणणः, पिटिलुचौडय्यः, एम्.वि.गोपालस्वामी, जि.टि.नारयणगौड, दे.जवरेगौडः, हा.मा.नायकः, डा. एस्.एल्.भैरप्पः, श्री सुब्रह्मण्यराजे अरस्, श्री आर्.शामा शास्त्री, श्री मैसूरु अनन्त शास्त्री, मैसूरु अनन्तस्वामी, बिडारं कृष्णप्पः, एच्.एन्.कृष्णस्वामी अय्यङ्गार्, एन्.आर्.नारायणमूर्ति, सर्.मिर्जा इस्मायिल्, नजीर् साब्, दिवान् पूर्णय्यः, डा. एस्. चन्द्रशेखरः, एम्.एन्.श्रीनिवास इत्यादयः अत्र सेवां कुर्वाणाः प्रसिद्धिम् आपन्नाः ।

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


  1. १.० १.१ "Know India- Karnataka". Government of India. Retrieved 7 January 2011. 
"http://sa.wikipedia.org/w/index.php?title=मैसूरुमण्डलम्&oldid=240408" इत्यस्माद् पुनः प्राप्तिः