मैसूरुसंस्थानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ಮೈಸೂರು ಸಂಸ್ಥಾನ
Kingdom (Subordinate to Vijayanagara Empire until 1565).
Princely state under the suzerainty of the British Crown after 1799

1399–1950
Flag Coat of arms
राष्ट्रगीतम्
कायो श्री गौरी
Location of मैसूरु
  मैसूरुसंस्थानम्, 1784 AD (at its greatest extent)
राजधानी मैसूरु, श्रीरङ्गपट्टण
भाषाः कन्नडम्
धर्मः हिन्दुत्वम्, इस्लाम्-मतम्
Political structure Empire
महाराज
 - 1399–1423 (प्रथम) यदुराय
 - 1940–50 (अन्तिम) जय चामराज ओडेयर्
इतिहासः
 - स्थापना 1399
 - Earliest records 1551
 - विस्थापनम् 1950
भागत्वेन विद्यते भारतम्

ओडेयर्-वंशीयाः १४००तमे वर्षे मैसूरुसंस्थानस्य स्थापनम् अकुर्वन् । कर्णाटकस्य आधुनिकः इतिहासः यदुरायस्थापितात् मैसूरुसंस्थानात् आरभ्यते । एतत् साम्राज्यम् ओडेयर् राजवंशाजाः राजानः शासनं कृतवन्तः । क्रि.श. १५६५तमवर्षपर्यन्तं मैसूरुसंस्थानं सामन्तराज्यरूपेण आसीत् । क्रि.श.१५६५तमवर्षात् अनन्तरे काले ताळीकोटेयुद्धानन्तरं विजयनगरसाम्राज्यस्य पतनानन्तरं मैसूरुसंस्थानं स्वतन्त्रम् अभवत् । सप्तदशे शतके साम्राज्यस्य विस्तरणं सञ्जातम् । नरसराजओडेयरस्य चिक्कदेवराजओडेयरस्य च प्रशासनकाले एतत् संस्थानं विस्तृतं भूत्वा दक्खनप्रस्थभूमौ एव सर्वबलिष्टं साम्राज्यम् अभवत् । मैसूरुसंस्थानं दक्षिणकर्णाटकस्य तमिळ्नाडुराज्यस्य च कांश्चन भागान् अवाप्नोत् । हैदरालेः तस्य पुत्रस्य टिप्पुसुल्तानस्य च काले ओडेयर्-शासनस्य भङ्गः जातः ।हैदरालिः तस्य पुत्रः टिप्पुसुल्तानः च क्रि.श.१८शतके ओडेयर् राजानं सिंहासनात् अवतार्य मैसूरुसंस्थानस्य अधिकारं स्वायत्तीकृतवन्तौ । अस्मिन् काले मैसूरुसंस्थानेन बहूनि युद्धानि सम्मुखीकरणीयानि अभवन् । तेषु बहूनि फ्रेञ्चजनानां साहाय्येन ब्रिटिशजनैः सह अभवन् । कदाचित् ब्रिटिशश्सैन्येन कदाचित् मराठासैन्येन सह अपि युद्धानि अभवन् । १७९९तमे वर्षे प्रवृत्ते चतुर्थे मैसूरुयुद्धे टिप्पुसुल्तानः मरणं प्राप्नोत् । तदनन्तरम् ओडेयरवंशीयाः ब्रिटिशजनानाम् अधीनाः सन्तः किञ्चित् प्रमाणेन राज्याधिकारं पुनः प्राप्नुवन् । हैदर् अलेः प्रशासनकाले संस्थानस्य सेनाबलं बहुधा संवर्धितम् । पुत्रपित्रोः प्रशसनकाले अनेकानि युद्धानि संवृत्तानि । मराठाराजैः सह, आङ्ग्लान् विरुध्य, गोल्कोण्डनिजामानां विरुद्धं च युद्धानि अभवन् । अस्मिन् समये एव चत्वारि [[आङ्ग्ल-मैसूरुयुद्धानि[] अभवन् । आरम्भे द्वयोः युद्धयोः मैसूरुसंस्थानं विजयं, अनन्तरद्वयोः पराजयं च अवाप्नोत् । क्रि.श.१७९९तमे वर्षे सञ्जाते समरे यदा टिप्पुसुल्तानः मृतः तदा मैसूरुसंस्थास्य बहुभागः आङ्ग्लानां हस्तगतः । तदा मैसूरुराजाः आङ्ग्लानां सामन्ताः अभवन् । ओडेयर -राजानां प्रशासनं क्रि.श. १९४७तमवर्षे भरतस्य स्वातन्त्रप्राप्तेः पर्यन्तम् अपि आसीत् । क्रि.श. १७९९तः १९४७पर्यन्तं १४८ वर्षाणाम् ओडेयर् प्रशसनस्य अवधौ आङ्ग्लानां मैसूरुराज्यम् (इदानीन्तनं कर्णाटकम्) आधुनीकरणार्थं प्रसिद्धम् अभवत् । मैसूरु ओडेयर् राजानः सङ्गीतसाहित्यकलादिषु रुचिमन्तः आसन् अतः एतेषां संरक्षणं पोषणं संवर्धनं च अभवन् ।

मैसूरुसंस्थानस्य राजानः[सम्पादयतु]

1. यदुरायः - कालः क्रि.श. १२९९ – १४२३ ।
2. बेट्टद चामराज ओडेयरः - कालः क्रि.श. १४२३ – १४५९ ।
3. तिम्मराज ओडेयरः - कालः क्रि.श. १४५९ – १४२७ ।
4. हिरियचामराज ओडेयरः - कालः क्रि.श. १४२७ – १५१३ ।
5. हिरिय बेट्टद चामराज ओडेयरः - कालः क्रि.श. १५१३ – १५५३ ।
6. तिम्मराज ओडेयरः -
7. बोळचामराज ओडेयरः
8. बेट्टदचामराज ओडेयरः – त्रयाणाम् – कालः क्रि.श. १५५३ – १५७८
9. राज ओडेयरः - कालः क्रि.श. १५३८ – १६१८
10. चामराज ओडेयरः - कालः क्रि.श. १६१७ – १६३७ ।
11. राज ओडेयरः-द्वितीयः - कालः क्रि.श. १६३७ – १६३८ ।
12. रणधीर कण्ठीरव नरसराज ओडेयरः - कालः क्रि.श. १६३८ – १६५९ ।
13. दोड्डदेवराज ओडेयरः - कालः क्रि.श. १६५९ – १६७३ ।
14. चिक्कदेवराज ओडेयरः - कालः क्रि.श. १६५९ – १६७३ ।
15. चिक्कदेवराज ओडेयर् नृपस्य मूकपुत्रः - कालः क्रि.श. १७०४ – १७१४ ।
16. दोड्डकृष्णराज ओडेयरः – कालः क्रि.श. १७१४ – १७३४
17. अङ्कनहळ्ळि चामराज ओडेयरः / कृष्णराज ओडेयरः-द्वितीयः - उभावपि दत्तकपुत्रौ - कालः क्रि.श. १७३४ – १७६६ ।
18. नञ्जराज ओडेयरः - कालः क्रि.श. १७६६ – १७७० ।
19. बेट्टद चामराज ओडेयरः - कालः क्रि.श. १७७० – १७७६ ।
20. चामराज ओडेयरः - कालः क्रि.श. १७७६ – १७९६
21. कृष्णराज ओडेयरः-तृतीयः - कालः क्रि.श. १७९९ – १८१० ।
22. चामराज ओडेयरः - कालः क्रि.श. १८८१ – १९०२ ।
23. चतुर्थः कृष्णराज ओडेयरः- चतुर्थः- कालः क्रि.श. १९०२ – १९४० ।
24. जयचामराज ओडेयरः - कालः क्रि.श. १९४० – १९४७ । एषः राजा स्वातन्त्रभारते कर्णार्नाटकस्य तमिळुनाडुराज्यस्य च राज्यपालः भूत्वा सेवाम् अकरोत् ।
मैसूरु राजवसति1897 - 1912 निर्माण कालः

कर्णाटकस्य एकीकरणम्[सम्पादयतु]

मैसूरु संस्थानस्य जयचामराज् वेडेयर् राजा स्वातन्त्रोत्तरं मैसूरुराज्यं भारतस्य भागं भवितुम् अनुमन्तिं दत्तवान् । क्रि.श. १९५० तमे वर्षे मैसूरुराज्यं भारतस्य अङ्गम् अभवत् । कर्णाटकैकीकरणस्य प्रक्रिया १९तमे शतकस्य द्वितीयार्धे आरभ्य क्रि.श.१९५६तमे वर्षे पुनस्सङ्घटनेन परिसमाप्तम् । तादानीं कोडगु, मद्रास्, हैदराबाद्, मुम्बै राज्यानां केचनभागाः मैसूरुराज्ये अन्तर्गताः । क्रि.श. १९७३तमे वर्षे मैसूरुराज्यं कर्णाटकम् इति पुनर्नामाङ्कितम् ।

"https://sa.wikipedia.org/w/index.php?title=मैसूरुसंस्थानम्&oldid=432032" इत्यस्माद् प्रतिप्राप्तम्