महात्मा गान्धिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(मोहनदास करमचन्द गान्धी इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
महात्मा गान्धिः
पोरबम्न्दरुनगरे विद्यमानं गान्धिवर्यस्य जन्मगृहम्

महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (क्रि.श.१८६९-१९४८) गुजरात्राज्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदय: सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रत: आसीत् । स: वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।

अन्तर्विषयाः

[सम्पादयतु] बाल्ये सत्यप्रियतायाः पाठः

बालकः गान्धिः (क्रि.श.१८७६तमवर्षस्य चित्रम्)

बाल्ये एकदा मोहनदासगान्धिः ‘श्रवणपितृभक्तिः ‘सत्यहरिश्चन्द्रः’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “श्रवणकुमारः इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् । मोहनदासगान्धिः बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा प्रामाणिकः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदासगान्धिः कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् । भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनाम् आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।


[सम्पादयतु] दक्षिण-आफ्रिकादेशे गान्धिः

दक्षिण-आफ्रिकादेशे गान्धिः

एतस्मिन् समये दक्षिणआफ्रिकादेशे विवादे आङ्ग्लन्यायवादिने साहाय्यकरणस्य अवसरः प्राप्तः अभवत् । एतदर्थं भ्रात्रा अनुमतिं प्राप्य मोहनदासगान्धिः दक्षिणआफ्रिकादेशं गतवान् । तत्र कार्यकरणसमये रेलयानेन यात्रासमये यानात् निष्कासितः सन् अतीव दुःखितः अभवत् । दक्षिणआफ्रिकादेशे अनेके भारतीयाः श्रमिकाः पीडिताः आसन् । दादा अब्दुल् सेटनामकस्य विवादः परस्परं वार्तालापेन द्वयोः पक्षयोः इच्छानुसारं समाप्तम् आसीत् किन्तु भारतीयानां श्रमिकाणां समस्याः परिहर्तुं कार्यं कर्तुं गान्धिः तत्रैव स्थातव्यम् इति निर्धारं कृतवान् । एतदर्थं नेटाल्-इण्डियन्-काङ्ग्रेस इति संस्थां स्थापयित्वा कार्यरतः अभवत् । तत्र आन्दोलनद्वारा भारतीयानां कष्टपरिहारकार्ये यशस्वी अभवत् । तेन गान्धिमहाभागस्य विश्वे एव प्रसिध्दिः अभवत् । अहिंसारीत्या सत्याग्रहः सफलः आसीत् । क्रि.श.१९२५ तमे वर्षे मोहनदासगान्धिः भारतदेशं प्रत्यागतवान् ।

[सम्पादयतु] स्वातन्त्र्यान्दोलनस्य नेतृत्वम्

लवणसत्याग्रहस्य समापनावसरे दाण्डीनगरे गान्धिः (क्रि.श.१९३०, एप्रिल् ५ दिनाङ्कः)

भारतदेशे काङ्ग्रेससंस्था क्रि.श.१८८५ तमे वर्षे एव स्थापिता आसीत् स्वातन्त्र्यान्दोलनकार्यं करोति स्म । गान्धिः काङ्ग्रेससंस्थायाम् प्रविष्टः अहमदाबादसमीपे सत्याग्रहार्थम् आश्रमं स्थापयित्वा अत्यन्तसरलरीत्या वासं कर्तुम् इष्टवान् । सरलजीवनम् उदात्तचिन्तनं राष्ट्रसेवा स्वातन्त्र्यलाभाय कार्यकरणं गान्धिमहात्मनः कार्यम् अभवत्। अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः महात्मा गान्धिः सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः क्रि.श.१९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रीरुपेण श्रीजवाहरलालनेहरुः अधिकारं स्वीकृतवान् । महात्मा गान्धिः अधिकारं न स्वीकृतवान् । महात्मागान्धिः भारतपाकिस्तानविभागे विरोधम् प्रकटितवान् आसीत् । किन्तु भारतेन साकं पाकिस्तानदेशे अपि स्वातन्त्र्यं प्राप्तम् इति तु बहुजनानां दुःखकारणम् अभवत् । क्रि.श.१९४८ तमे वर्षे जनवरी ३० तमे दिने नाथूरामगोडसे इति कश्चित् भारतीयः मोहनदासगान्धिमहोदस्य हत्यां कृतवान् । भारतदेशे मोहनदासकर्मचन्दगान्धिमहोदयस्य जन्मदिनं गान्धिजयन्ती इति अक्टोबरमासस्य द्वितीये दिने आचरन्ति । तस्मिन् दिने रघुपतिराघव राजाराम पतितपावन सीताराम ॥ इत्यादिशान्तिप्रार्थनां कुर्वन्ति । श्रमदानं, पथसञ्चारः, गान्धिमहोदयस्य पुष्पाञ्जलिप्रदानं महात्मागान्धिमहोदयस्य कार्याणां स्मरणं, रक्तदानम् इत्यादयः नैकेकार्यक्रमाः प्रचलन्ति ।


[सम्पादयतु] गान्धिदर्शनम्

महात्मनोगान्धिनः सम्पूर्ण चिन्तनं दैवीय-आदर्शैः परिपूर्णमस्ति । अतएवेदं स्वाभाविकमस्ति यत् महात्मा गान्धी व्यक्तिसमाजयोरुभयोः कृते धर्मस्य अनिवार्यतां स्थापितवान् । गान्धिमते धर्मस्यानिवार्यतायाः कश्चिद विकल्पो नास्ति । आस्तिकता, विश्वासो धर्मश्च गान्धिनः कृते अविभाज्यम् चरमं सत्यं वर्तते । “ हिन्दु –स्वराज” नाम्न्यां कृतौ तेनोद्दिष्टं यत् “कश्चिदपि जनः धर्मं विना जीवितस्तिष्ठतीति भवददृष्टावसम्भवमेवास्ति”।

गान्धिमते ईश्वरे जीवे च मिथः प्रगाढः सम्बन्धोऽस्ति । गान्धी कथयति यत् जीवः आत्मनः स्वं समुन्नय्य ईश्वरत्वम् आपद्येत । गान्धिनः कल्पनायाम् ईश्वरोऽनादिः निर्गुणो निराकारश्चास्ति । सः सर्वव्यापकः सर्वशक्तिमान् च वर्तते ।ईश्वरस्य मूलस्वरुपं ब्रह्मणि विलीनीकरणमात्रं विद्यते । एवञ्चेत् प्राणिनो मौलिकं कर्त्तव्यं वर्तते यत् सः ईश्वरे आस्थां विश्वासं च दृढयेत ।

गान्धिनो मनोवृत्तिरस्मिन् तथ्ये आधारिताऽस्ति यत् ईश्वरः सत्यात् पृथक् नास्ति । सः तु पुनः कथितवान् यत् सत्यमेव ईश्वरो वर्तते । “यंग इण्डिया” ग्रन्थे सः लिखति-“ यत्कृते ईश्वरः सत्यं प्रेमरुपं चास्ति स नीतिरुपः नैतिकतापूर्णश्चास्ति । अभयस्य पूर्णता केवलम् ईश्वरे एव् दृश्यते । ईश्वरस्तु जीवनस्य अनन्यं स्तोतोऽस्ति । स एवात्मा उच्यते” । प्राणी स्वस्मिन्नेव ईश्वरस्यान्वेषणं कुर्यात्, यतो हि स ईश्वरः प्राणिषु प्रत्येकं आत्मरुपेण तिष्ठति ।

गान्धिमते आत्मानुभूतेः उद्देश्यमपीदमेवास्ति यत् प्राणी ईश्वरस्य साक्षात्कारं कुर्यात् एवञ्चेश्वरेण साक्षात्कृतो भवेत् । तदानीमेव स सत्यं अर्थात् यथार्थं ज्ञातुं शक्नोति, अन्यथा न । सत्यानुभूत्यै गान्धी प्राणिनः आत्मनो दृढताया अपेक्षां कामयते । दृढात्मवान् एव जनः स्वान्तः स्थानि अनात्मतत्त्वानि जेतुं क्षमते । अनात्मतत्त्वानां निराकरणाय महात्मा गान्धी अन्तरात्मानं निर्देष्टुं उपदिशति । एवं गान्धिमतानुसारेण यदि प्रत्येकं जनः स्वान्तरात्मनः प्रेरणया कर्मणि अग्रेसरो भवेत् तदा निश्चितमेव सः धर्मानुपालनेऽपि तत्परो भविष्यति ।

सत्यमेवेश्वरोऽस्तीति चेत् सत्यस्य संज्ञाने सति प्राणी प्रकृतेर्नियमान् गतींश्च अवगन्तुम् क्षमते । यदा च प्राणी कर्त्तव्यपरायणो भूत्वा नैतिकतादिभिः सद्गुणैश्च सहितः कर्म करोति तदा तस्यायमादर्शः स्थिरीभवति यत् आत्मोन्नत्यै सततं वर्धयेदिति । एतादृश आदर्शः स्वान्तः प्रेरणयैव जायते । एवं गान्धिमते सत्यमेव आदर्शस्योपस्थापकोऽस्ति । सत्यं स्वस्मिन् परिपूर्णं नितान्तं सापेक्षं चास्ति । ईश्वरस्तु परमं सत्यं वर्तते, अपरिमितं सर्वव्यापकं परिपूर्णं च विद्यते । मानवस्य चिन्तनं तु सीमितं अपूर्णं च भवति । अस्यां स्थितौ ईश्वरान्वेषणं प्राणिनः पुनीतं शाश्वरञ्च कर्त्तव्यमस्ति ।

गान्धी महोदयः धर्मं ईश्वरप्राप्त्यै मार्गरुपं स्वीकरोति । तन्मतेन विविधा धर्माः ईश्वरं प्राप्तुमुपदिष्टा विभिन्ना मार्गा एव सन्ति । यतः सर्वेषां धर्माणां प्रयोजनं तु ईश्वरप्राप्तिरित्येकमेवास्ति तथापि प्राणिनः स्वधर्म एव उत्तमो भवति । गान्धिमते धर्मपरिवर्तनं अनावश्यकम् अनुचितं चास्ति यतो हि तेन ईश्वरे अनास्थाया अविश्वासस्य् वा पुष्टिर्भवति । अतः एतादृशं कार्यं अनैतिकम् अमानवीयञ्च प्रतीयते । धर्मान्तराणां याथार्थ्यं अवगन्तुं स्वधर्मपरित्यागः आवश्यको नास्ति । अतएव धर्मान्तरणस्यापेक्षया विविधधर्मेषु सामञ्जस्यं सहिष्णुता वा एव अधिकां सार्थकतामादत्ते ।

नैतिकता धर्मात् भिन्नास्ति । यतो धर्महीनोपि कश्चिद जनः नैतिको भवितुमर्हति । तथापि धार्मिकजनस्य धर्माचरणानां धर्मकृत्यानां च चरमप्रयोजनम् ईश्वरसाक्षात्कार एव भवति । अतः इदं वक्तुं शक्यते यत् धार्मिको जनः नैतिको भवति, किन्तु नैतिको भवति, किन्तु नैतिको जनः धार्मिको भवेदेवेति आवश्यकं नास्ति । धर्मप्रभावात् नैतिकः प्राणी आत्मानुभूतिदिशायां कृतप्रयासो जायते । स अस्यामेव दिशिस्व सद्गुणात्मकप्रवृत्तीनां विस्तारमपि करोति, किन्तु धर्मशून्यो नैतिकोऽपि प्राणी ईश्वरं साक्षात्कर्त्तुं नैरन्तर्येण प्रयासं कुर्यादेवेति बन्धनं नास्ति ।

यद्यपि आत्मकथायां गान्धिमहोदयः स्वयं स्वीकरोति यत् धर्मो नैतिकता चेति उभयमेव तत्त्वद्वयं यथार्थतो भिन्नं नास्ति । सः अस्मिन् परिप्रेक्ष्यें धर्मं परिभाषते –ते सर्वे प्रयासाः, सर्वे विचाराः, सर्वाः क्रियाः ईश्वरसाक्षात्काराय उद्देश्यं निर्धारयन्ति । अतः धर्मपदवाच्या भवन्ति । धर्म एव नैतिकताया रुपेण कर्मास्ति । अतः धार्मिकः कर्मण्यो भवति, न तु अकर्मण्य इति तस्य सिद्धान्तः । गान्धिप्रतिपादितः कर्मवादोऽपि मूलरुपेण धार्मिकमान्यताभिः प्रेरित आसीत् । कर्मण्यतायाः क्षेत्रे महात्मा गान्धी सर्वेषु स्तरेषु स्वगतिविधीनां माध्यमेन ईश्वरप्राप्त्यै सप्रयासोऽतिष्ठत् । एवञ्चेत् गान्धिदर्शने स्वधर्म एव कर्मयोग आसीत् । कर्मयोगस्य उद्देश्यमासीत्- मोक्षप्राप्तिरिति ।

मोक्षप्राप्तिः ईश्वरसाक्षात्कारेण भवति । ईश्वरश्च सत्यमेवासीत् । अतः तेनोक्तम् –न हि सत्यात् पर्ः ईश्वरः । सत्यस्य विषये गान्धिमहोदयस्य अयं दृष्टिकोणः वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमहोदयस्य अयं दृष्टिकोणः वस्तुगतयथार्थमाश्रित्य अवर्तत् । गान्धिमतेन ईश्वरः तर्कात् पर आसीत् । अतः तार्किकेण युक्तिकरणेन ईश्वरस्य प्रामाण्यं नैव स्थापयितुं शक्यते । गान्धी अकथयत् यत् ईश्वरस्य बोधस्तु सम्भवोऽस्ति किन्तु तस्य तार्किकं युक्तिकरणम् अनुचितमेवास्ति । एवं गान्धीमहोदयः बोधरुपेण विश्वासरुपेण अनुभूतिरुपेण एव ईश्वरास्तित्त्वं स्वीकरोति ।

गान्धिनः चिन्तने विभिन्नधर्माणां प्रभावो दृश्यते । जन्मतो भारतीय संस्कृतेः सम्बन्धवशात् वैष्णवधर्मस्य प्रभावो मूलरुपेण अवर्तत् । गान्धिनः परिवारोऽपि वैष्णवधर्मेण प्रभावित आसीत् । विशेषेण तत्पितरौ वैष्णवधर्मस्य नैतिकतादिभिर्जीवनमूल्यैः प्रेरितावास्ताम् । हिन्दुधर्मस्य प्रभाववशात् गान्धिचिन्तने मानववादस्य अवधारणा बलीयसी वर्तते, धर्मसहिष्णुतायाः कृतेऽपि अत्र् पर्याप्तं स्थानमस्ति । जैनधर्मस्य प्रभावात् अहिंसाया अवधारणा गान्धिदर्शने सर्वोपरी स्थानमलभत । जैनदर्शनप्रेरणया गान्धिना लिखितम् यत् पञ्चमहामन्त्रैरेव जीवनं सृजनशीलं परोपकारि च विधातुं शक्यते । एते पञ्च महामन्त्राः सन्ति- अहिंसा सत्यम् अस्तेयः ब्रह्मचर्यम् अपरिग्रहश्चेति । श्रीमदभगवदगीतायाःः उपनिषदां च कर्मवादस्य प्रभावोऽपि गान्धिदर्शने विद्यमानः अस्ति । बौद्धदर्शनस्य प्रभाववशात् गान्धी स्वयं साधनानां प्राथमिकतां शुद्धिं च सर्वोपरि स्वीकृतवान् । एवं गान्धिदर्शने चिन्तनस्य व्यापकता परिलक्षिता भवति ।

[सम्पादयतु] गान्धिदर्शनस्य प्रमुखाः सिद्धान्ताः

(१) ईश्वरः अस्ति । स च सत्यरुपं वर्तते ।
(२) धर्म एव जीवनस्य प्रेरणास्रोतः अतः, धर्म आचरणीयः । धर्मः हेयो नास्ति ।
(३) कृत्रिमा आवरणवादी च भौतिकता जीवनस्य कृते अनाहार्या अस्ति ।
(४) सर्वधर्मसमभाव एव यथार्थतः मानववादी अवधारणा वर्तते ।
(५) मनसा वाचा कर्मणा व्यवहारेण च अहिंसा अनुपालनीया ।
(६) कर्म एव प्राणिनः कृते श्रेयसो मूलम् ।
(७) पञ्च महामन्त्रा अनुष्ठेयाः ।
(८) एकादश महाव्रतानि अनिवार्यरुपेण आत्मोन्नत्यै पालनीयानि ।
(९) ईश्वरः सर्वत्र व्यापकोऽस्ति । स सर्वेषां समाजानाम् अपरिमितनैतिकतायाः स्रोतोऽस्ति ।
(१०) प्राणिनः प्रकृति-स्वभाव-विचाराणां रुपान्तरणं प्राथमिकमस्ति ।
(११) शाश्वतं सत्यं विज्ञातुं सङ्कीर्णतायाः परित्याग आवश्यकः ।
(१२) कर्मण्यताया विकल्पो नास्ति । अतः नि स्वार्थकर्त्तव्यबोधेन कर्त्तव्यतां आचरमाणः जीवनप्रयोजनं लभते ।
(१३) मानवमूल्यानि एव समाजोत्थानस्य कारकाणि सन्ति ।
(१४) विश्वबन्धुत्वेन एव मानवतायाः रक्षा सम्भवा ।


[सम्पादयतु] श्रीमदभगवदगीतोक्त सिद्धान्तानां पुनः प्रतिष्ठापना

महात्मा गान्धी गीतायाः स्वश्रद्धाम् अभिव्यक्तवान् । तन्मतानुसारेणा श्रीमदभगवदगीता आध्यात्मिक कर्मवादिपक्षयोः समीकृता कृतिरस्ति । श्रीमदभगवदगीतायाः सन्देशोऽयमस्ति यत् चरित्रनिर्माणं भवेत् दृष्टिकोणं व्यापकतां नयेत्, मानवश्च कर्त्तव्यवादी स्यात् । गीतायाः स्वोन्नयनस्य सृजनात्मका आयामा विद्यन्ते । अतः तत्र कर्मण्यताया उपदेश एव बलीयानस्ति । गीतोक्ता अनासक्तिः केवलं संकल्पेन संभवा नास्ति यथा हि महात्मा गान्धी प्रतिपादितवान् यत् वेदपाठी मनीषी जातुचित् सर्वज्ञो भवेत् किन्तु अनासक्तभावस्तस्मिन् वर्तते, एवेति वक्तुं न शक्यते, यतो हि अनेके तादृशा मनीषोणोऽपि जीवनस्य अपेक्षितानि मूल्यानि न अर्जितुं क्षमन्ते ।

गीतायाः अनासक्तभावः त्यागस्य आदर्शम् उपस्थापयति । यथार्थतः त्यागस्य प्रमाणमिदमेवास्ति यत् फलोपलब्ध्योराकाक्षा केनापि प्रकारेण न स्यादिति । कर्म तु अनिवार्य् स्वाभाविकम् आवश्यकं चास्ति तथापि दायित्वमिदमेवास्ति यत् कर्मणः परिणतेरुपरान्तमपि फलोपलब्धिभ्यां व्यक्तिरनासक्तो भवेत् । गान्धिमते अनासक्तं कर्म एव धर्मस्ते । धर्मश्च एकमात्रं भौतिकं जगत् अनुशास्ति । गीतायाः प्रतिपाद्यं सत्ये अहिंसायां च प्रतिष्ठितं प्रतीयते । तथा हि अनासक्तिः जीवनाधारश्चेत् हिंसासत्ययोः निरर्थकता स्वत एव सिद्धा स्यात् । यद्यपि गीतायाः मूलभूतम् उद्देश्यं अहिंसायाः स्थापना नासीत्, तथापि अनासक्तिरेव अहिंसायाः पोषिका अभवत् । एवं प्रकारान्तरेण अहिंसायाः प्रतिपादनं तत्र विद्यते ।

महात्मा गान्धी लिखति यत् अहिंसायाः स्थापना तु गीतायाः रचनाकालात् बहुवर्ष् यावत् पूर्वमेव संजाता आसीत् , किन्तु अहिंसा जीवनस्य शाश्वतमूल्यरुपेण प्रतिष्ठिताऽपि व्यवहारे सदाचाररुपेण गृहीता नासीत् । अस्मदेव कारणात् महाभारतयुद्धो बभूव । महाभारतकाले हिंसायाः प्रवृत्तिमवरोद्धं अहिंसायाः उपदेशाय गीतायाः परोक्षप्रतिपादनपद्धतिः भगवता श्रीकृष्णेन गृहीताः । श्रीकृष्णेन हिंसाया विरोधं दर्शयितुमेव संन्यासस्य् गरिमा तत्र प्रतिपादितः । संन्यासश्च तत्र कर्मण्यतायाः पर्यायरुपेणैव गृहीतः , न् तु कर्मपरित्यागरुपेणेति गान्धिमहोदयः स्वीकृतवान् गान्धिदर्शनस्येदं दृष्टिकोणमपि गीतायाःमवलम्बितमस्ति यत् अनासक्ति-त्याग-धर्मादीनामनुपालनम् अहिंसाया अनिवार्यताया अभावे कदापि नैव सम्भवति ।

गीतायाः विषये गान्धिनोऽवधारणा आसीत् यत् गीता एको धार्मिकः सन्देशोऽस्ति । युगयुगान्तरस्य असीमितताया अनुरुपं गीतायाः सत्त्वमपि शाश्वतं सनातनं चास्ति । इमं सन्देशं ते एव गृहीतुं क्षमन्ते, ये अबाधरुपेण आस्तिका वर्तन्ते । गीतायाः दृष्टिकोणविषये गान्धिमहोदयेनोक्तम् यत् श्रीमदभगवद्गीता गूढदर्शनस्याभिव्यक्तेः परे भूता अवर्तत । सा समाजाय सम्भावित-अप्रत्याशित –यथार्थ-प्रक्रियासु बोधयते । गीतायाः सन्देशः तत्त्वविदः स्थापना अस्ति, यस्य परिणामस्वरुपं गुणानामन्तः क्रियायाः भानं सम्भवति । मुक्तिबोधश्च स्थाप्यते । गान्धिमतेन गीतोक्तः कर्मपुनर्जन्मसिद्धान्तः सामयिकीनां प्रचलितानां सुपरिणाम आसीत् । वस्तुतस्तु मानवस्य जीवनं विकासात्मकस्य सत्त्वस्य पर्यायभूतमस्ति । गुणवत्तैव तत्प्रयोजनस्य प्रामाणिकताऽस्ति । कर्म मानवस्य चरित्रानुकृतिरस्ति । संस्कारस्य अथवा कर्मण इदमेव प्रामाण्यं वर्तते यत् भौतिके जगति कर्त्तृत्वमाप्य मानवः यत्किंचित् करोति तत्र किं च असम्यक् वर्तते । व्यक्तिः नवसृजन-विचार –प्रतिक्रियादिषु सर्वदा संलग्नो भवति । तस्य सृष्टेर्मूलं यथार्थतस्तदीया जीवन्तताऽस्ति । कर्ममार्गेणापि ईश्वरो लब्धुं शक्यः, अतएव महात्मना गान्धिना संकेतितं यत् व्यक्तिगतस्तरेऽपि परमेश्वर एवैकमात्रं परमसत्यमस्ति ।

ज्ञानयोगिनः कर्मयोगिनो वा सर्वतः अस्यैव सत्यस्य साधकाः सन्ति । कर्मप्रेरितः संघर्ष एव गीतायाः व्याप्तमस्ति । गान्धिनः दृष्टिकोणे योगः आत्मनियंत्रणस्य साधनरुपेण गीतायाः चर्चितः । योगस्य परिणामस्वरुपमेव मानवानां बौद्धिक- वैचारिक-भावनासु इच्छासु वा नियन्त्रणं अनिवार्यमस्ति । स्वधर्मस्य मूलमपि इदमेव यथार्थं बोधयति । गान्धिमतेन निष्कामकर्मणः प्रतिफलं आत्मशुद्धिमात्रमस्ति । आत्मशुद्धया आत्मज्ञातव्यतया चैव विवेकस्य मुक्तेर्वा प्राप्तिः संभाव्यते । मानवीयदायित्वानां पूर्त्त्यैव दैवीयानुभूतिर्जायते । कर्त्तव्यतैव मुक्तिबोधोऽस्ति । अनासक्तियोगस्योपलब्धिः सत्याहिंसयोरभावेऽसम्भावाऽस्ति । एवं गान्धिना श्रीमदभगवदगीतायाः नूतनाव्याख्या कृता । तद्विचारेण गीता मात्रं परभौतिक उदघोष एव नासीत्, अपितु जीवनदर्शनस्य यथार्थं मार्गदर्शनम् आसीत् ।

[सम्पादयतु] सम्बद्ध जना:

[[es:Mahatma Gandhi]

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु