मोहम्मद रफी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
मोहम्मद रफी ।
चित्रम्:Mohammed Rafi.jpg
भूमिका
जननम् 24 दिसंबर 1924
अमृतसर, पंजाब, भारत
मूलम् बनारस, भारतम्
मरणम् 31 जुलाई 1980
मुम्बई, महाराष्ट्र, भारत
सङ्गीतप्रकाराः चलच्चित्रलोकः
वृत्तिः गायकः, ।
वाद्या(नि) गिटार्, सुवंशी, पटहः, पियानो, की बोर्ड्,
सक्रिय वर्षाणि क्रि.श.१९४१तः १९८० ।

मोहम्मद रफी (हिन्दीभाषा-मोहम्मद रफ़ीمحمد رفیع - उद्रू भाशषा क्रि.श.१९२४तमवर्षस्य डिसेम्बर् मासस्य २४दिनाङ्कतः क्रि.श. १९८०तमवर्षस्य जलैमासस्य ३१दिनाङ्कतः अस्य जीवनकालः)चत्वरदशकवर्षाणि वृत्तिजीवने स्थितः ख्यातः भारतीयनेपथ्यगायकः ।[१]अनेन ५ राष्ट्रियपुरस्कारान् ६ पिल्म फेर् प्रशस्तयः च प्राप्ताः । अस्मै क्रि.श. १९६७तमे वर्षे पदमश्रीप्रशस्तिं भारतसर्वकारेण दत्तः ।[२] स्वस्य ४०वर्षाणां चलच्चित्रसङ्गीतजीवने २६०००चलच्चित्रगीतानि कण्ठदानं कृतवान् ।[३] अस्य गानेषु शास्त्रीयसङ्गीततः आरभ्य देशभक्तिगीतपर्यन्तं सन्ति । कवाली, भजनानि, मृदुमधुर प्रेमगीतानि च अस्य कण्ठयुतानि सन्ति । हिन्दीभाषायां उर्दू भाषायां च अस्य प्रभुत्वम् आस्ति अतः एदादृशः उपलब्धिः प्राप्तः । [४] हिन्दी, उर्दू, कोङ्खणि, भोजपुरी, ओरिया, पञ्जाबी, बङ्गाली, मराठी, सिन्धि, कन्नड, गुजरती, तेलुगु, माघि, मैथिली, अस्सामी,इत्यादिषु अनेकासु भाषासु भारतीयभाषाभिः एषः गीतानि गीतवान् । अपि च कानिचन पर्शियन्, स्प्यानिश्, डच् भाषायाः गीतानि अपि ध्वनिमुद्रितानि अभवन् ।

अन्तर्विषयाः

वृत्त्यारम्भवर्षाणि [सम्पादयतु]

मोहम्मद रफी तु हज्जी अलि मोहम्मदस्य षष्टः कनीयः पुत्रः । एषः पञ्जाबराज्यस्य (ब्रिटिशानां काले) अमृतसरसमीपस्य कोट्ला सुल्तान सिङ्ग् ग्रामे अजायत ।[५] रफेः बाल्ये तं सर्वेपि पिका इति सम्बोधयन्ति स्म । एषः ग्रामे फकीराणां गानानि अनुकृत्य गायति स्म ।[५]मोहम्मदस्य पिता क्रि.श. १९३५-३६तमे वर्षे लाहोरप्रदेशं गत्वा न्यवसत् । क्रमेण अस्य कुटुम्बः अपि तत्रैव अगच्छत् ।लाहोरस्य नूर मोहल्ला इति प्रदेशे पुरुषाणां क्षौरालयः अस्य कुटुम्बस्य अस्ति ।[६]अस्य जामाता अस्य क्षौरापणस्य स्वामी अस्ति । एषः मोहम्मदस्य सङ्गीतासक्तिम् अभिज्ञाय तस्मिन् क्षेत्रे कृषि कर्तुं प्रोत्साहितवान् ।[७][८] मोहम्मदः यदा १३वर्षीयः आसीत् तदा प्रथमवारं सर्वत्रिकस्थाने सङ्गीतगोष्ठिं कृतवान् । के.एस्.सैगल् इत्यस्य कार्यक्रमे गातुम् एषः अवकाशं प्राप्तवान् । [७]मोहम्मदः श्यामसुन्दरस्य मार्गदर्शने गुल् बलोच् इति पञ्जाबीभाषाचलच्चित्रार्थं प्रथमवारं नेपथ्यगायकत्वेन "सोनिये नी हीरिये नी " इति गानं गीतवान् ।[९] तस्मिन् एव वर्षे लाहोरस्य आकाशवाण्यां गातुं मोहम्मदः आमन्त्रितः [१०] क्रि.श. १९४१तमे वर्षे श्यामसुन्दरस्य चलच्चित्रे प्रथमवारं वृत्तिनिष्ठया कार्यं कृत्वा तस्य अग्रिमचित्रे अवकाशं प्राप्य " गावों की गोरी " इति चलच्चित्रत्रे एव ' बाम्बेसमवायस्य ' गानानि अपि गीतवान् । क्रि.श. १९४५तमे वर्षे लैला मज्नू चित्रे लघुभू्मिकामपि निरूढवान् । अत्र तेरा जल्वा इति गानस्य समूहगायकः अभवत् ।[११]

मुम्बैनिवासः [सम्पादयतु]

क्रि.श. १९४४तमे वर्षे मोहम्मदः सहोदरैः बाम्बे (ईदानीं मुम्बै) नगरम् आगत्य बेहण्डिबज़ार् प्रदेशे जननिबिडे वाणिज्यप्रदेशे लघुप्रकोष्ठं भाटकेन प्राप्य न्यवसत् । अत्र तन्वीर् नक्विवर्यः केषाञ्चन चलच्चित्रनिर्मापकानां परिचयं मोहम्मदाय कारितवान् । तेषु अबुर् रशीद् कर्दार्, मेहबूब् खान्, अबिनेता निदेशकः नज़ीर् इत्यादयः प्रमुखाः ।[६]मोहम्मदः चौपाटि इति प्रदेशे समुद्रम् अभिमुखः भूत्वा सङ्गीताभ्यासं करोति स्म । मुम्बैनगरे अपि श्यामसुन्दरः जि.एम्.दुरानि इति निर्मापकस्य परिचयं कारयित्वा तस्य चलच्चित्रे " अजि दिल् हो काबु मै तो दिलदार् कि ऐसि तैसी " गानं गापितवान् ।[१२]महात्मनः गन्धेः मरणानन्तरं हुसन्लाल भगतराम्, राजेन्द्रकृष्णन् इति निर्मापकयोः चलच्चित्रे ’सुनो सुनो ये हुनियावालो, बापूजि की अमर कहानी ’ इति गीगं गीत्वा जनप्रियः अभवत् ।[१२]भारतस्य तदानीन्तनः प्रधानमन्त्री गीतानि गातुं गृहम् आहूतवान् । क्रि.श. १९४९तमे वर्षे मोहम्मदः सङ्गीतनिदेशकेन नौशादेन सह मिलित्वा अनेकानि सुन्दरगीतानि सङ्गीतलोकाय अर्पितवान् । मोहम्मदरफेः प्रथमगानं नौशादेन सङ्गीतसंयोजितं "हिन्दुस्तान के हम है " इति । क्रि.श. १९४४तमे वर्षे ए.आर्. कर्दार् इत्यस्य "पेहले आप् " चित्रे अपि गीत्वान् । क्रि.श. १९४५तमे "गावों की गोरि " चित्रे " अजि दिल् हो काबू मे " इति गानं गीतवन् । मोहम्मदः एतत् एव गानं स्वस्य प्रथमं हिन्दीभाषागीतम् इति परिगणयति ।[१०] मोहम्मदः चलच्चित्रद्वये अभिनीतवान् । क्रि.श.१९४५तमे वर्षे " तेरे जल्वा जिस् ने देखा " चित्रे समूहगायकानां मध्ये, "लैला मज्नू " इति चित्रे अस्य अभिनयः अस्ति ।[१०] नौशादस्य अनेकेषु गानेषु समूहगायकरूपेण सहाय्यं कृतवान् । तेषु " मेरे सप्नों की राणी , रूहि रूहि, शहाजान्, इत्यादीनि प्रमुखानि । भारतविभाजनस्य अनन्तरं मोहम्मदः भारते एव स्थातुं निश्चितवान् । अतः कुटुम्बम् भारतम् एव आनीतवान् । मोहम्मदरफी अन्यगायकानां प्रभावलये आगतः । के. एल्. सैगल्, तलत् महमूदः जि.एम्.दुरानि इत्यादीनां शैलीम् अस्य गानेषु पश्यामः । उदाहरणार्थं " हम्को हस्ते देख् जमाना जलता है "" खबर् किसि को नही, वो किधर देखते " इत्यादीनि गीतानि।[१३]

प्रगतिः प्रसिद्धिः च [सम्पादयतु]

क्रि.श. १९५०तः १९७०तमवर्षपर्यन्तं मोहम्मदः नेपथ्यतायकः आसीत् । स्वस्य कालस्य अनेकैः स्वरसंयोजकैः सह अन्वयं प्राप्तवान् । तथापि विशेषतः नौशादेन सह विशेषः सम्बन्धः आसीत् । क्रि.श.१९५०-६०तमे काले विद्यमानैः प्रमुखगीतरचकरैः सह उत्तमं बान्धव्यं रक्षितवान् । ओङ्कारप्रसाद नैयरः, शङ्कर-जैकिशन्, एस्.डि.बर्मन् इत्यदिभिः स्वरकोविदैः सह अपि मैत्री आसीत् ।

नौशादस्य सहवासः [सम्पादयतु]

मोहम्मदः पितुः प्रशंसापत्रम् आनीय स्वस्य सन्दर्शनं कृतवान् इति स्वयं नौशादः वदति स्म ।[१४] क्रि.श. १९४४तमे वर्षे नौशादस्य सङ्गीतसंयोजनेन मोहम्मदेन गीतं प्रथम गानं तु पेहले आप इति चित्रस्य " हिन्दुस्तान के हम् है " इति गीतम् । क्रि.श.१९४६तमे काले मोहम्मद रफी आगमनात् पूर्वं नौशादस्य प्रियगायकः तलत् महमूदः आसीत् । ध्वनिमुद्रणावसरे महमूदः धूमपानं करोति इति कुपितः नौशदः "बौजु बावरा " चित्रस्य सर्वगीतानि मोहम्मदेन गापितवान् । [११] क्रि.श. १९४९तमे वर्षे "सुहानी रात् ढल् चुकी " इति गानं बहुप्रसिद्धम् अभवत् ।[१५] एवं नौशादस्य सहवासः मोहम्मद रफीं प्रमुखं नेपथ्यगायकम् अकरोत् । [१०] क्रि.श. १९५२तमे वर्षे 'बैजु बावरा ' " चलच्चित्रस्य ओ दुनिया के रखवाले,तरपत हरि दर्शन को आज् इति गीतानि रफिमहोदयस्य जनप्रियताम् अवर्धयत् [९] नौषादस्य रागसंयोजनेन मोहम्मदः १४९गानानि गीतवान् ।[१६]

आर्.डि.बर्मनस्य साहचर्यम् [सम्पादयतु]

एस्.डि.बर्मन् महोदयः मोहम्मदस्य कण्ठश्रियं देवानन्दस्य गुरुदत्तस्य च ध्वनेः अनुत्वात् उपयोजितवान् । [१७] मोहम्मद रफी महोदयः आर्. डि. बर्मन्वर्यस्य स्वरसंयोगेन क्रि.श. "प्यासा ",(क्रि.श. १९५७)"कागज् के फूल् ", क्रि.श. " तेरे घर के सामने " (क्रि.श. १९६२), " गैड् ", (क्रि.श. १९६५), " आराधना ", (क्रि.श. १९६९), " प्यासा " (क्रि.श. १९६९), अभिमान् (क्रि.श. १९७२) चलच्चित्राणां गीतानि गीतवान् । एस्. डि. बर्मन् अपि नौशादः इव अस्य कौशलस्य सम्पूर्णम् उपयोगं कृतवान् ।

शङ्कर-जैकिशनयोः निकटवर्तनम् [सम्पादयतु]

मोहम्मद रफी महोदयस्य शङ्करजैकिशनयोः सङ्गीतयुग्ममध्ये उत्तम बान्धव्यम् आसीत् । एतस्य सङ्गीतयुग्मस्य स्वरसंयोजने मोहम्मदः, शम्मी कपूरस्य, राजेन्द्रकुमारस्य अभिनयार्थं बहूनि गीतानि गीतवान् । अनेन प्राप्तसु ६ फिल्म फेर प्रशस्तिषु प्रशस्तित्रयं शङ्करजैकिशनयुग्मेन स्वरनिबद्धगीतानाम् एव । तेषु " तेरि प्यारी सूरत को ", "बहारो फूल् बरसावो ", " दिल् के झरोके में ", इति गीतानि तत्र अन्तर्गतानि । "या हू चहे कोयि मुझे जङ्गलि कहे ", गीतं सर्वत्र सर्वकालेषु सङ्गीतगोष्ठिषु श्रूयते । अस्य रागसंयोजकः अपि शङ्करजैकिशनयुग्मम् एव । मोहम्मद रफीवर्यः २१६वैयक्तिकगीतैः सहितम् आहत्य २४१ गीतानि शङ्करजैकिशनयुग्मरागसंयोजने गीतवान् । [१६] बसन्त बहार , प्रोफेसर् , जङ्ग्ली , सूरज् , ब्रह्मचारी , एन् इवनिङ्ग् इन् प्यारिस् , दिल् तेरा दिवाना , यकीन् , प्रिन्स् , लौ इन् टोकियो , बेटि बेटे , दिल् एक मन्दिर् , दिल् अपना और् प्रीत् पराई , गभान् ज्अब् किसि से होता है इत्यादीनि तेषु कानिचन चलच्चित्राणि ।

रवेः सङ्गः [सम्पादयतु]

मोहम्मद रफीवर्यः स्वस्य प्रथमां फिल्मफेर् प्रशस्तिं रविना स्वरनिबद्धं " चौदवी का चान्द हो " गीतस्य गानार्थं प्राप्तवान् । क्रि.श. १९६८तमे वर्षे "नील कमल " चलच्चित्रस्य " बाबुल् कि द्वायी लेती जा " गानार्थं राष्ट्रियचलच्चित्रप्रशस्तिः अनेन प्राप्ता । अस्य गीतस्य ध्वनिमुद्रणावसरे अस्य नेत्रयोः अश्रूणि अगलन् इति क्रि.श. १९७७तमे वर्षे अस्य बि.बि.सि. सन्दर्शने अयं स्वयम् उक्तवान् ।[१८] रविवर्यस्य संयोजनेन अनेन गीतानि चित्राणि नाम "चीना टौन " (क्रि.श. १९६२), "काज़ल् " (क्रि.श. १९६५), "दो बदन" (क्रि.श. १९६६) ।

मदनमोहनस्य सङ्गतिः [सम्पादयतु]

स्वरसंयोजकः मदनमोहनः अपि मोहम्मदं स्वस्य अतिप्रियः गायकः इति परिगणितवान् । मोहम्मदस्य वैयक्तिकगानं मदनमोहनेन रागनिबद्धे क्रि.श. १९५०तमवर्षस्य " आङ्के " इति चलच्चित्रे " हम् इष्क में बर्बाद हैं बर्बाद् रहेङ्गे " इति गीतम् । [१०] अस्य सहयोगेन नेकानि गीतानि लोकार्पितानि । तत्र केचन एवं भवन्ति । "तेरि आङ्खो के सिवा ", " रङ्ग् और् नूर् की बारात् ", "येह् दुनिया ये है मेहफिल्" इत्यादीनि ।

ओ.पि.नैयरस्य संसर्गः [सम्पादयतु]

क्रि.श. १९५०-६०तमे काले ओङ्कार प्रसाद नैयरः मोहम्मदरफी च मिलित्वा सङ्गीतनिर्माणम् अकुरुताम् । यदि मोहम्मदः न अभविष्यत् मम उपलब्धयः असाध्याः अभविष्यत् इति नैयरः अवदत् । फलकम्:Citequoteमोहम्मदरफिना सह नैयरः अनेकानि गीतानि स्वनिबद्धवान् । तेषु " ये है बाम्बे मिरी ज़ाज् " अतीव जनप्रियम् अभवत् । रफी अभिनेतुः गायकस्य किशोरकुमारस्य रागिणी इति चलच्चित्रार्थं "मन् मोरे बावरा "इति गीतं नैयरस्य निदेशेन गीतवान् । पश्चात् किशोरकुमारार्थम् एव " बागी ", "शेहज़ादा ", "शरारत् ", इति चलच्चित्रेषु गीतवान् । नैयरः मोहम्मदः आशा भोंसले च नैयरस्य युगलगीतानि गीतवन्तौ । एतत् युग्मं क्रि.श.१९५०-६०तमे काले " नया दौर् ", " तुम्सा नहि देखा ", "काश्मीर की कली " इत्यादिचित्रार्थं गीतानि अकरोत् । मोहम्मदः नैयरस्य स्वरसंयोजनेन आहत्य १९७तीतानि गीतवान् तेषु ५६वैयक्तिकगीतानि ।[१९] मोहम्मदरफी "ज्वानिया येह् मस्त् मस्त् " अपि च शीर्षकस्य गानं " यूं तो हमने लाख् हसी देखा है , तुम्सा नहि देखा " इति गीतं " तुम् सा नही देखा " इति चलच्चित्रार्थं गीतवान् । पश्चात् " काश्मीर् के कलि " चित्रार्थं " तारीफ् करू क्या उसकी जिस्ने तुम्हे बनाया" इत्यादीनि गीगानि गीतवान् । .[२०]

लक्ष्मीकन्तप्यारेलालयोः संसादः [सम्पादयतु]

लक्ष्मीकान्तप्यारेलाल इति सङ्गीतसंयोजकयुग्मेन सह अपि मोहम्मद रफी कार्यं कृतवान् । ततस्य युग्मस्य " क्रि.श. १९६२तमवर्षस्य प्रथमचलच्चित्रे मोहम्मदः "पारसमणि" मोहम्मदः गीतवान् । पश्चात् एतेषां संश्रयेण क्रि.श. १९६४तमे वर्षे " दोस्ती "चित्रस्य "चाहूंगा मै तुझे सांज् सवेरे " इति गीतम् । एतस्य फिलं फेर् प्रशस्तिः आगता । रफी अस्य युग्मस्य स्वरसंयोजने ३६९गीतानि गीतवान् ।[१६]तेषु १८६वैयक्तिकगीतानि । क्रि.श.१९५०-७०तमवर्षकाले मोहम्मदरफी अधिकनियोगे विद्यमानः गायकः आसीत् ।[२१]हिन्दीभाषायाः चलच्चित्रेषु अनेकेषाम् अभिनेतॄणाम् अभिनये मोहम्मदः गानानि गीतवान् । [२२] एषः क्रि.श.१९६५तमे वर्षे भारतसर्वकारस्य अत्युन्नतपुरस्कारं पद्मश्रीप्रशस्तिं प्राप्तवान् । क्रि.श. १९६०तमे वर्षस्य अन्तिमभागे मारिषस् द्वीपदेशं सन्दृश्य आङ्ग्लभाषायाः गीतगुच्छद्वयार्थं गीतवान् । तस्मिन् किञ्चित् "पाप् हिट्स् " इति गीतगुच्छम् । यस्मिन् ध्वनेः आरोहावरोहः विशेषः । एतस्यां कलायाम् अपि रफी प्रसिद्धः । आशा भोसले वर्याया सह युगलगीते "हेल्लो स्वीटी सेवेण्टीन् " इत्यस्मिन् अपि च गितादत्ता इत्यनया सह " ओ चले हो कहां दिल् के आईने मे " इति गीते च कण्ठस्य आरोहावरोहं प्रदर्शितवान् । [७]

विवादाः [सम्पादयतु]

प्रतिफलापेक्षा [सम्पादयतु]

क्रि.श. १९६२-६३काले रफीमहोदस्य प्रसिद्धिं परिगणय्य रजधनस्य परिमाणां प्रतिशतं पञ्च प्रार्थितवती । किन्तु सङ्गीतनिदेशकाः तत् नाङ्गीकृतवन्तः । यदि चलच्चित्रं गीतानां कारणेन सफलम् भविष्यति तदा प्रतिशतफ्रलं दातुं शक्यते इति निर्णयः अभवत् । कदाचित् चलच्चित्रम् धनार्जने असाफल्यं प्राप्नोति तदा तस्य दायित्वं केवलं निर्मातुः भवति नतु गायकस्य वा स्वरसंयोजकस्य । इति केषाञ्चन अभिप्रायः आसीत् । रफी वदति स्म गायकः गीतं न सृजति । स्वसंयोजकस्य आशयानुगुणं गीतस्य पुनः सृष्टिं करोति । तदनुगुणं प्रतिफलमपि स्वीकरोति । तत्पश्चात् कार्यबद्धता समाप्ता भवति इति । फलकम्:Citequote किन्तु लता मङ्गेश्कर् इति गायिकायाः वादः भिन्नः । एवं चेत् गायकानां फलयोगविषये अस्थिरताम् आनयति । इति विचिन्त्य तताः परं लता रफिना सह न गीतवती । किन्तु रफी तु लतया सह गातुम् उत्सुकः आसीत् । [२३][२४] एस्.डि.बर्मन् इति सङ्गीतनिदेशकः सन्धिं कारयित्वा एतयोः युगलगीतानि गापितवान् ।

गिन्निस् विश्वाभिलेखः [सम्पादयतु]

मोहम्मद रफी तु स्वस्य वृत्तेः अन्तिमदिनेषु लता मङ्गेश्कर् वर्यां गिन्निस् विश्वाभिलेखे परिचायनविषये विवादितः । क्रि.श. १९७७तमे वर्षे गिन्निस् विश्वाभिलेख सङ्घटस्य कृते पत्रमेकम् अलिखत् । यत्र लतायाः गानोपलब्धिविषये प्रश्नितम् आसीत् । क्रि.श. १९७९तमे वर्षे गिन्निस्सङ्घटनात् प्रत्युत्तरं प्राप्य निराशः सन् पुनः परिशीलनार्थं पत्रम् अलिखत् । किन्तु किमपि प्रत्युत्तरं न प्राप्तवान् । "[२५]

क्रि.श. १९७७तमे वर्षे बि.बि.सी.आकाशवाणीसन्दर्शने अहं २६०००गीतानि गीतवान् इति मोहम्मद रफी उक्तवान् ।[१८] किन्तु अस्य मरणोत्तरं क्रि.श. १९८४तमे वर्षे गिन्निस् विश्वाभिलेखस्य संस्था लता मङ्गीश्कर् एव अत्यधिकगीतानां सम्राज्ञी इति उदघोषयत् । फलकम्:Sic[२६] [२६] किन्तु लभ्याभिलेखानुगुणं मोहम्मदस्य गानानां सङ्ख्या ४५१६ हिन्दीभाषायाः चलच्चित्रगीतानि, ११२अन्यभाषाचलच्चित्रगानानि, ३२८चलच्चित्रेतरगीतानि इति । एतानि क्रि.शा. १९४५तः १९८०कले गीतवान् । क्रि.श. १९९१तमे वर्षे एतयोः नामनि गिन्निस् विश्वाभिलेखतः निष्कासित, अन्यसाधकस्य कारणेन ।[२६]

क्रि.श. १९७०तमे वर्षे यदा मोहम्मदस्य अनारोग्यम् आसीत् तदा अतिन्यूनसङ्ख्यया गीतानि गीतवान् । हज़् यात्राकाले न गायतु इति कैश्चित् आदिष्टः आसीत् इत्यपि श्रूयते । [२७] फलकम्:Who [२८] तस्मिन् एव काले किशोरकुमारस्य गीतानि जनप्रियानि अभवन् । "आराधना "इति चलच्चित्रस्य गीतानि मोहम्मदरफिना गीतव्यानि किशोरकुमारः गीतवान् । [२३][२९]अस्य चित्रस्य गीतानि एस्. डि. बर्मन् इत्यनेन स्वरनिबद्धानि । तस्य चित्रस्य " बागो में बहार है ", " गुन् गुना रहे हैं भंवरे " इति पुरुषकण्ठस्य गीतद्वयं रफिना गापितवान् । एतस्य ध्वनिमुद्रणपश्चात् एस्. डि. बर्मन् रुग्णः अभवत् । अतः तस्य पुत्रः आर्. डि. बर्मन् ध्वनिमुद्रणकार्यस्य दायित्वं स्वीकृतवान् । तदा " रूपतेरा मस्ताना, मेरे सप्नों की रानि कब " इति अवशिष्टगीतद्वयं किशोरकुमारेण गापितवान् । [१७] किन्तु क्रि.श. १९७१-७३काले मोहम्मदस्य योगदानं क्षितम् । [३०]

अन्तिमकालः [सम्पादयतु]

मोहम्मद रफी क्रि.श. १९८०तमवर्षस्य जुलैमासस्य ३१दिनाङ्के रात्रौ हृदयवैफल्येन दिवङ्गतः । [३१]अनेन गीतम् अन्तिमं गानं तु "श्याम् फिर् क्यूं उदास् है " (आस् पास् इति चित्रम्) यस्य लक्ष्मीकन्त-प्यारेलाल् इति सङ्गीतसंयोजकयुग्मेन स्वरसंयोजितम् । एतत् अस्य मरणात् कतिपयघण्टायाः पूर्वं ध्वनिमुद्रितम् ।[३२][३३]अस्य सयिद् रफी, खलील् रफी, हमीद् रफी, शाहिद् रफि इति चत्वारः पुत्राः परवीन्, नस्रीन्, यास्मिन् इतितिस्रः पुत्र्यः आसन् । अपि च १८ पौत्राः अभवन् । [३४] अन्तिमयात्रायां बन्धवः अभिमानिनः च १०सहस्रजनाः सम्मिलिताः असन् । [३५]मोहम्मद रफी कदापि दुर्व्यसनस्य दासः नाभवत् । मतीयश्रद्धालुः एषः करुणालुः अपि आसीत् । निसार् भाज्मी इति नातीवजनप्रियः कश्चित् सङ्गीतज्ञः पाकिस्तानतः आगतः । केवलम् एकं रूप्यकं स्वीकृत्य गीतवान् । चलच्चित्रनिर्मातुः अपि धनसहाय्यं कृतवान् । [३६]

वैयक्तिकजीवनम् [सम्पादयतु]

क्रि.श. १९४५तमे वर्षे दूरबन्धुं बशिरा माझी इति कन्यां स्वस्य ग्रामे एव परिणीतवान् । अस्य सयिद् रफी, खलील् रफी, हमीद् रफी, शाहिद् रफि इति चत्वारः पुत्राः परवीन्, नस्रीन्, यास्मिन् इतितिस्रः पुत्र्यः आसन् । अपि च १८ पौत्राः अभवन् ।[५][३७] एषः अनुशासितः पुरुषः आसीत् । गृहे ध्वनिमुद्रणशालायां च सर्वदा किञ्चन अनुशासनं पालयति स्म । दूमपानं मध्यपानं वा न करोति स्म । स्वस्य सङ्गीताभ्यासं प्रतिदिनं नियमितक्रमेण करोति स्म । कदाचित् केरम्, ब्याड्मिण्टन् क्रीडाः क्रीडति स्म ।

स्मरणीयांशाः [सम्पादयतु]

फलकम्:Trivia

  • क्रि.श. १९६०तमे वर्षे मुगल् ए आज़म् चलच्चित्रे मोहम्मद रफी "ये मोहब्बत् ज़िन्दाबाद् " इति गीतं १००जनां समूहगानेन सह गीतवान् ।[३८]
  • अयं लक्ष्मीकान्त-प्यारेलालयोः युग्मस्य स्वरसंयोजने अत्यधिकं नाम ३६९गीतानि गीतवान् ।[३८]
  • आशा भोंसले मन्ना डे इत्याभ्यां सह अधिकगीतानि गीतवान् ।[३८]
  • रफी अत्यधिकवारं फिलं फेर् प्रशस्तेः नामनिदेशने आगतः अपि च ६वारं प्रशस्तिं प्राप्तवान् ।[३८]
  • "मन् मोरा बावरा " रागिणी चित्रस्य एतत् गीतं गायतु इति किशोरकुमारः मोहम्मदं प्रार्थितवान् । एतत् अर्धशाश्त्रीयं गीतम् एतत् रफी एव केवलं गातुं शक्नोति इति एषः उक्तवान् ।[३९]
  • "अजब् है दास्ता तेरि ये ज़िन्दगी " इति गीतस्य पल्लविं किशोरकुमारः गीतवान् अवशिष्टभागं गातुं कष्टम् अनुभूतवान् । अतः शङ्कर-जैकिशनयुग्मस्य स्वरप्रस्तारेण मोहम्मदः पूर्णं गीतवान् ।[३९]
  • "अमर अक्बर अन्थोनि " चलच्चित्रस्य "हम्को तुम्से होगया है प्यार क्या करें "इति गीतं मोहम्मदरफि, किशोरकुमारः, लता मङ्गेश्कर मुकेशः च मिलित्वा गीतवन्तः ।[४०]
  • कश्चित् वधदण्डितः " ओ दुनिया के रखवाले. सुन् दर्द बरे मेरे नाले " इति अस्य गीतं श्रोतुमिच्छामि इति जीवनस्य अन्तिमेच्छां प्रकटितवान् । [४१]
  • रायपुर् इति स्थाने शङ्कर-जयकिशनयुग्मस्य गीतं पुनः गातुं जानाः अभ्यर्थनां कृतवन्तः । सहयोगं दातुं श्रान्ताः वाद्यकलाविदः अशक्ताः आसन् । तदा मोहम्मदः केवलं हार्मोनियं वादयन् पुनः पञ्चगीतानि निरन्तरम् अगायत् ।[४२]
  • आरभिकवर्षेषु फिलं फेर सङ्घटनं पुरुषमहिलाभेदेन विना एकाम् एव प्रशस्तिं यच्छति स्म । तदा एव ६वारं तां प्रशस्तिं प्राप्तवान् ।[४३]

प्रशस्तिपुरस्काराः [सम्पादयतु]

  • क्रि.श.१९४८ मोहम्मद रफी भारतस्य प्रथमप्रधानमन्त्रिणः जवाहरलाल नेह्रूवर्यस्य हास्तात् प्रथमस्वातन्त्रप्राप्तिदिनोत्सवे रजपदकं प्राप्तवान् ।[१०]
  • क्रि.श. १९६७ तमे वर्षे अस्मै पद्मश्रीप्रशस्तिः भारतसर्वकारेण प्रदत्ता ।
  • क्रि.श. १९७४तमे वर्षे अत्युत्तमगायकः इति प्रशस्तिः फिल्म् वर्ल्ड् इति पत्रिकया अस्य तेरी गलियों में ना रखेङ्गे, कद्म आज् के बाद् इति गीतस्य गानार्थम् अस्मै प्रदत्ता ।
  • क्रि.श. २००१तमे वर्षे रफिमहोदयः सहस्रमानस्य अत्युत्तमः गायकः इति प्रशस्तिः मुम्बै नगरे हिरोहोण्डा, स्टार् डस्ट् इति पत्रिकायोः सहयोगेन प्रदत्ता ।
अत्युत्तमनेपथ्यगायकः इति राष्ट्रियचलच्चित्रप्रशस्तिः
कालः गीतानि चित्रीकरणम् स्वरसंयोजकाः गीतरचनकाराः
क्रि.श.१९५७ जिह्ने ना नाज़् है हिन्द् पार् प्यासा सचिन् देव् बर्मन् सहिर् लुधियान्वी
क्रि.श.१९६४[४४] चाहूङ्गा मै तुजे दोस्ती लक्ष्मीकन्त-प्यारेलाल मज्रूह् सुल्तान् पुरि
क्रि.श.१९६६[४४] बाहारों फूल् बरसावो सूरज़् शङ्कर-जैकिशन् शैलेन्द्र
क्रि.श.१९६७[४५][४६] बाबुल् कि दुवाये नील् कमल् रविः साहिर् लुधियान्वी
क्रि.श.१९७७[८] क्या हुवा तेरा वादा हम किसी से कम नही आर्. डि. बर्मन् मज्रूह् सुल्तन् पुरि
अत्युत्तमनेपथ्यगायकः इति फिल्म फेर् प्रशस्तिः[४७]
कालः गीतानि चित्रीकरणम् स्वरसम्योजकाः गीतरचनकाराः
क्रि.श.१९६० चौदवी का चान्द् हो चौदवीं का चान्द् मुम्बै रविः शकील् बदायूनि
क्रि.श.१९६१ तेरी प्यारी प्यारी सूरत को ससुराल् शङ्कर-जैकिशन् शैलेन्द्रः
क्रि.श.१९६४ चाहूङ्गा मै तुझे दोस्ती लक्ष्मीकान्त-प्यारेलाल् मज्रूह् सुल्तान् पुरी
क्रि.श.१९६६ बहारो फूल् बरसावो सूरज् शङ्कर-जैकिशन् शैलेन्द्रः
क्रि.श. १९६८ दिल् के झरोङ्के में ब्रह्मचारी शङ्कर-जैकिशन् शैलेन्द्रः
१९७७ क्या हुवा तेरा वादा हम् किसी से कम् नही आर्. डि. बर्मन् मज्रूह् सुल्तान् पुरि

नामनिदिष्टानि :[४७]

कलः गीतानि चित्रीकरणम् स्वरसंयोजकाः गीतरचनकार
क्रि.श. १९६१ हुस्न्वले तेरा जवाब् नही घराना रविः शकील् बुदायुनि
क्रि.श.१९६२ यह गुलाबदन् यह गुलाबदन् प्रोफेसर् शङ्कर-जैकिशन शैलेन्द्रः
क्रि.श. १९६३ मेरे महबूब तुझे मेरे महबूब् नौशादः शकील् बुदायुनि
क्रि.श. १९६५ छू लेने दो नाजुक् होटों को काज़ल् रविः साहिल् लुधियान्वी
क्रि.श. १९६८ मै गांऊ तुम् सो जावो ब्रह्मचारि शङ्कर-जैकिशन शैलेन्द्रः
क्रि.श.१९६९ बडि मस्तानी है जीने कि राह लक्ष्मीकन्त-प्यारेलाल आनद भक्षि
क्रि.श. १९७० खिलोना जान कर् खिलोना लक्ष्मीकन्त-प्यारेलाल आनन्द भक्षि
क्रि.श. १९७२ हम को तो जान् से प्यारी नैना शङ्कर-जैकिशन हसरत् जैपुरि
क्रि.श.१९७४ अच्चा ही हुवा दिल् टूट् गया मा बहन और् बीवि शारदा खमर जलालाबै वेद्पाल् वर्मा
क्रि.श. १९७७ फर्दा है पर्दा अमर अक्बर् अन्तोनी लक्ष्मीकन्त-प्यारेलाल आनन्द भक्षि
क्रि.श.१९७८ आदमी मुसाफिर् है अप्नापन लक्ष्मीकन्त-प्यारेलाल आनन्दभक्षि
क्रि.श.१९७९ चलो रे डोलि उठावो कहार् जानी दुश्मन् लक्ष्मीकान्त-प्यारेलाल वर्मा मलिक्
क्रि.श. १९८० मेरे दोस्त् किस्सा यह है दोस्ताना लक्ष्मीकान्त-प्यारेलाल आनन्द भक्षि
क्रि.श. १९८० दर्द ए दिल् दर्द ए ज़िगर् कर्ज़ लक्ष्मीकान्त-प्यारेलाल आनद भक्षि
क्रि.श. १९८० मैने पूछा चन्द से अब्दुला राहुल देव बर्मन् आनन्द भक्षि

गङ्गालस्य चलच्चित्रपत्रकाराणां सङ्घस्य अत्युत्तमनेपथ्यगायकस्य प्रशस्तिभूषितगीतानि ।

कालः चित्रीकृतानि सङ्गीतसंयोजकः गीतरचनकारः
क्रि.श. १९५७ तुम्सा नहि देखा ओङ्कार प्रसाद नैयरः मज्रूह सुल्तान पुरि
क्रि.श. १९६५[४८] दोस्ती लक्ष्मीकान्त प्यारेलाल मज्रूह सुल्तान पुरि
क्रि.श. १९६६[४९] अर्ज़ा शङ्कर-जैकिशन हसर जैपुरी
सुरशृङ्गारप्रशस्तिविजितगितानि
कालः चित्रीकृतम् सङ्गीतसंयोजकः गीतरचनाकारः
क्रि.श. १९६४ चित्रलेखा रोशन् सहिर् लुधियान्वी [५०]

उल्लेखाः [सम्पादयतु]

  1. Harris, Craig. [[[:फलकम्:Allmusic]] Mohammed Rafi on Allmusic]. Allmusic. दिनांकः 22 January 2009.
  2. Padma Shri Awardees. india.gov.in. दिनांकः 22 December 2010.
  3. K. Pradeep. Rafi's unmatched track record. The Hindu. दिनांकः 2005-07- 29.
  4. Mohd. Rafi - Biography. दिनांकः 2010-12-25.
  5. ५.० ५.१ ५.२ Varinder Walia (२००३-०६-१६). Striking the right chord. The Tribune: Amritsar Plus. दिनांकः २००७-०४-२८.
  6. ६.० ६.१ Syed Abid Ali (2003-06-16). The Way It Was: Tryst With Bollywood. Daily Times, Pakistan. दिनांकः 2007-04-28.
  7. ७.० ७.१ ७.२ Mohammed Rafi. दिनांकः 2007-04-28.
  8. ८.० ८.१ Amit Puri. When Rafi sang for Kishore Kumar. The Tribune. दिनांकः २००७-०४-२८.
  9. ९.० ९.१ M.L. Dhawan (२००४-०७-२५). His voice made him immortal. Spectrum (The Tribune). दिनांकः २००७-०४-२५.
  10. १०.० १०.१ १०.२ १०.३ १०.४ १०.५ Hall Of Fame: Saatwan Sur. दिनांकः 2007-04-28.
  11. ११.० ११.१ Mohd Rafi - Biography. दिनांकः 2010-12-25.
  12. १२.० १२.१ http://www.rafisongs.org/2007/07/21/78616/the-king-of-melody-mohammed-rafi/index.html
  13. http://www.youtube.com/watch?v=j_8DGgVBV8g
  14. Naushad Remembers Rafi Saheb. दिनांकः 2010-12-25.
  15. http://chandrakantha.com/biodata/mohd_rafi.html
  16. १६.० १६.१ १६.२ Raju Bharatan (२००६-०८-२३). How fair were they to Mohammed Rafi?. Rediff.com. दिनांकः २००७-०४-२८.
  17. १७.० १७.१ Raju Bharatan (२००६-०८-२३). How fair were they to Mohammed Rafi? (Page 2). Rediff.com. दिनांकः २००७-०४-२८.
  18. १८.० १८.१ BBC Interview : Mohd. Rafi - Audio (You Tube). दिनांकः 2010-12-25.
  19. Raju Bharatan (२००६-०८-२३). How fair were they to Mohammed Rafi?: Page 5. Rediff.com. दिनांकः २००७-०४-२८.
  20. Mohd Rafi Sahab: A Legend has no substitute. दिनांकः 2010-12-25.
  21. Arthur J Pais (२००६-०८-२१). Did Mohammad Rafi get his due?. Rediff.com. दिनांकः २००७-०४-२८.
  22. mohammad rafy : everyonece wise
  23. २३.० २३.१ Raju Bharatan (२००६-०८-२३). How fair were they to Mohammed Rafi?: Page 3. Rediff.com. दिनांकः २००७-०४-२८.
  24. Raju Bharatan (२००६೦-०८-२१). How fair were they to Mohammed Rafi?: Page 4. Rediff.com. दिनांकः २००७-०४-२८.
  25. Raju Bharatan (२००६-०८-२३). How fair were they to Mohammed Rafi?: Page 6. Rediff.com. दिनांकः २००७-०४-२८.
  26. २६.० २६.१ २६.२ Raju Bharatan (२००६-०८-२३). How fair were they to Mohammed Rafi?: Page 7. Rediff.com. दिनांकः २००७-०४-२८.
  27. http://music.indobase.com/composers-playback-singers/mohammed-rafi.html
  28. http://www.rafisongs.org/२००७/०८/२६/७८६२१/mohammed-rafi-biograpohy/index.html
  29. Anil Grover (2005-07-29). Forever velvet. The Telegraph. दिनांकः 2007-04-28.
  30. Rajiv Vijayakar (2002). The mammoth myth about Mohammed Rafi. Screen. दिनांकः 2007-06-13.
  31. V. Gangadhar (२००५-०८-०५). The immortal Rafi. The Hindu Business Line. दिनांकः २००७-०४-२८.
  32. Salam, Ziya U. S. (July 22, 2001). Matchless magic lingers. The Hindu. दिनांकः 2009-04-09.
  33. mohammad raphy : the soul ful wise live on zee news 31st july 2008
  34. Mohammed Rafi Bioagraphy. दिनांकः 2010-12-25.
  35. "Rafi, Madhubala don't rest in peace here", The Times of India, 11 February 2010. Retrieved on 2010-02-14. 
  36. Mohd Rafi Bioagraphy. दिनांकः 2010-12-25.
  37. Mohd Rafi: A Legend has no substitute. दिनांकः 2010-12-25.
  38. ३८.० ३८.१ ३८.२ ३८.३ http://www.thecolorsofindia.com/mohd-rafi/facts.html
  39. ३९.० ३९.१ http://www.rafi.co.in/२००९/१०/೨೫/iinteresting-facts-about-rafi-sahab-and-kishore-da/೫೧೨೧೫೩/index.html
  40. http://www.bobbytalkscinema.com/recentpost.php?postid=postid082610082856
  41. http://www.mohdrafi.com/meri-awaaz-suno/a-wide-range-of-fans-for-one-song.html
  42. http://en.wikipedia.org/w/index.php?title=Mohammed_Rafi&action=edit&section=೧೯
  43. http://blogs.hindustantimes.com/capital-closeup/2009/07/29/the-incomparable-mohammad-rafi/
  44. ४४.० ४४.१ http://calcuttatube.com/mohammed-rafi-the-golden-voice-that-lives-on-and-on/44167/
  45. http://popcorn.oneindia.in/artist-awards/494/7/mohammed-rafi.html
  46. http://www.thecolorsofindia.com/mohd-rafi/awards.html
  47. ४७.० ४७.१ Template error: argument title is required. 
  48. 1965- 28th Annual BFJA Awards - Awards For The Year 1964. Bengal Film Journalists' Association. दिनांकः 14 December 2008. फलकम्:Dead link
  49. 1966: 29th Annual BFJA Awards - Awards For The Year 1965. Bengal Film Journalists' Association. दिनांकः 22 October 2009. फलकम्:Dead link
  50. His Voice swayed millions. दिनांकः 2010-12-25.

विशेषावलोकनम् [सम्पादयतु]

बाह्यानुबन्धाः [सम्पादयतु]

Organizations affiliated with Raffi:

Raffi's music:


"http://sa.wikipedia.org/w/index.php?title=मोहम्मद_रफी&oldid=229683" इत्यस्माद् उद्धृतम्