मौर्य साम्राज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।



मौर्यसाम्राज्यम्
{{{मानचित्रः}}}
कालक्रमः
कालः क्रि.पू. ३२२-१८५
पूर्ववम्शः {{{पूर्ववम्शः}}}
आगमिवम्शः {{{आगमिवम्शः}}}
प्रस्थापकः चन्द्रगुप्तमौर्यः
राज्यम्
शासनप्रकारः राज्यम्
प्रधानपुरी पाटलिपुत्रः
मुख्यभाषाः {{{मुख्यभाषाः}}}
मताः वैदिकधर्मः, बौद्धधर्मः जैनधर्मः च

मौर्यसाम्राज्यं प्राचीनभारतस्य एकं विशालं साम्राज्यम् आसीत्। एतत् साम्राज्यं क्रि. पू. ३२१ तमे वर्षे चन्द्रगुप्तमौर्येण स्थापितम्। अस्य राजधानी पाटलिपुत्रपुरम् आसीत्। चन्द्रगुप्तमौर्यः अलक्सान्द्रस्य व्यपगमनात् अनन्तरं नन्दराजं विजित्य सम्राडभवत्। सः ३२० तमे वर्षे यवनराजान् जित्वा पश्चिमोत्तरभारतं स्वायत्तीकृतवान्। एतस्याः वसुधायाः श्रेष्ठराज्येषु अन्यतमः अभवत्। चन्द्रगुप्तः कलिङ्गात् ऋते समस्तभारतं जितवान्। तस्य पौत्रः अशोकः कलिङ्गम् अपि अजयत्। कलिङ्गयुद्धात् अनन्तरम् अशोकः बौद्धधर्मं स्वीकृतवान्। अस्मिन् काले कौटिल्येन अर्थशास्त्रम् अपि लिखितम्। अशोकस्य सिंहस्थम्भः भारतगणराज्यस्य मुद्रिका विद्यते।

अन्तर्विषयाः

[सम्पादयतु] चाणक्यः चन्द्रगुप्तश्च

मुख्यलेखः: चाणक्यः

चन्द्रगुप्तमौर्यः (यवनभाषा|Σανδρόκυπτος) (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्‌। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्यस्य आदेशानुसारं सकलां भारतवर्षाम् अजयत्। सः शाक्यकुलीयः क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिं विजित्य तक्षशीलायाम् अभिषिक्तः जातः। अतः सः भारतस्य एकीकर्ता इति मन्यते। चन्द्रगुप्तस्य कथा एव मृच्छकटिके वर्णिता।

[सम्पादयतु] बिन्दुसारः

मुख्यलेखः: बिन्दुसारः

बिन्दुसारः द्वितीयः मौर्यसम्राट् आसीत्।(जन्म: क्रि.पू.३२०, राज्यभारकालः क्रि.पू.२९८-२७२)। सः चन्द्रगुप्तमौर्यस्य पुत्रः आसीत्। तस्य द्वौ पुत्रौ आस्ताम्। ते सुसीमः अशोकः च। अशोकः उज्जयिन्याः प्रशासकः सुसिमः तक्षशीलायाः प्रशासकः च आस्ताम्। सः अमित्रघातकः अजातशत्रुः इत्यादीनि अभिधानानि अलभत। यवनाः तम् "amitrochates" वा "allitrochates" इति अकथयन्।

[सम्पादयतु] अशोकः

मुख्यलेखः: अशोकः

अशोकः (क्रि.पू. २६९-२३२) समस्तभारतस्य सम्राट् आसीत्। सः मौर्यवंशस्य तृतीयः महाराजः आसीत्। सः कलिङ्गयुद्धे रुधिराविलं रणरङ्गं दृष्ट्वा हिंसां त्यक्त्वा बौद्धधर्मं स्वीकृतवान्। सः अनेकेषाम् अभिलेखनानाम् स्तूपानां च निर्माणं कृतवान्। न शोकं यस्य सः एव अशोकः। सः चक्रवर्ती इति अभिधानं लब्धवान्। सः प्रियदर्शी देवानाम्प्रियः इति नाम्ना अपि प्रसिद्धः। तस्य चरितम् अशोकवदनदिव्यवदनग्रन्थयोः कथितम्।

[सम्पादयतु] प्रशासनम्

अस्य साम्राज्यस्य चत्वारः विषयाः आसन्। ते टोशाली(पूर्वस्याम्) उज्जयिनी(पश्चिमे) तक्षशिला(उत्तरे) सुवर्णगिरिः(दक्षिणे) च आसन्। राजकुमारः विषयाधिपतिः अभवत्। सः महामात्यैः उपकृतः। पाटलीपुत्रः राज्यधानी आसीत्। मन्त्रीपरिषद् महाराजम् उपादिशत्। अस्य राज्यस्य प्रशासनतन्त्रं कौटिल्येन अर्थशास्त्रे वर्णितम्। अस्य राज्यस्य सेना तत्कालस्य बलवत्तमा गरिष्ठा च आसीत्। मौर्यसेनायाम् ६००००० पादसैनिकाः ३०००० अश्वाः ९००० गजाः च आसन्। महाराजस्य अनेके गुप्तचराः अपि आसन्। |

मौर्यमुद्रिका

[सम्पादयतु] राष्ट्रकर्मनिर्वाहः

मौर्यसाम्राज्यम् अतिक्षेमयुक्तम् आसीत्। करग्रहणस्य विधयः अर्थशास्त्रे वर्णिताः। अस्मिन् काले विदेशवाणिज्यम् अवर्धत। यवनराज्यानां कृते क्षौमसम्बारभोज्यानि इत्यादीनि वस्तूनि विक्रीतानि।

मौर्यरजतनाणकम्

[सम्पादयतु] धर्माः

मौर्यसाम्राज्ये वैदिकधर्मः प्रमुखः आसीत्। राजसभायाम् अनेके ब्राह्मणाः अवसन्। अशोकस्य बौद्धधर्मग्रहणात् अनन्तरम् अपि ब्राह्मणाः नृपतिना पूजिताः। अशोकः बौद्धधर्मं प्रासारयत्। सः स्तूपान् अपि स्थापितवान्। अशोकस्य पौत्रः सम्प्रतिः जैनधर्मं गृहीतवान्।

मौर्यप्रतिमाः
मौर्यशिल्पम्

[सम्पादयतु] स्थापत्यः

अशोकः अनेकान् स्तम्भान् अस्थापयत्। पट्नानगरस्य धूमशकटालयस्य समीपे पाटलिपुत्रस्य ध्वंशाः सन्ति। ते केचन गुहासु अपि मन्दिराणि निर्मितवन्तः।

[सम्पादयतु] नाशनम्

यवनराजस्य डेमेट्रियुसः दिनारा

सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गसाम्राज्यम् स्थापितवान्। पश्चिमोत्तरदिशि डेमेट्रियुस् नाम यवनराजः स्वराज्यं गृहीतवान्। अस्य राजधानी सगला आसीत्।

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु