यदा सत्त्वे प्रवृद्धे तु...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदा उत्तमविदां लोकान् अमलान् प्रतिपद्यते ॥ १४ ॥

अन्वयः[सम्पादयतु]

सत्त्वे प्रवृद्धे तु यदा देहभृत् प्रलयं याति तदा उत्तमविदाम् अमलान् लोकान् प्रतिपद्यते ।

शब्दार्थः[सम्पादयतु]

देहभृत् = शरीरधारी
सत्त्वे = सत्त्वगुणे
प्रवृद्धे = विवृद्धे
प्रलयम् = मरणम्
याति = प्राप्नोति
उत्तमविदाम् = तत्त्वज्ञानिनाम्
अमलान् = शुद्धान्
लोकान् = प्रदेशान्
प्रतिपद्यते = अधिगच्छति ।

अर्थः[सम्पादयतु]

सत्त्वगुणे प्रवृद्धे म्रियमाणः पुरुषः निर्मलान् तत्त्वज्ञानिनां लोकान् प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]