यल्लाप्रगडसुब्बरावः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Yellapragada subbarao.jpg

(कालः – १२. ०१. १८९५ तः ०९. ०८.१९४८)


एषः यल्लाप्रगडसुब्बरावः (Yallapragada Subba Rao) बहूनाम् औषधानां संशोधकः । एषः अतिविरलेषु विज्ञानिषु अन्यतमः अपि । अयं भारतदेशस्य आन्ध्रप्रदेशराज्यस्य भीमवरम् इति प्रदेशे कस्मिंश्चित् निर्धनकुटुम्बे १८९५ तमे वर्षे जनवरिमासस्य १२ दिनाङ्के जन्म प्राप्नोत् । किन्तु एषः यल्लाप्रगडसुब्बरावः जीवनस्य बहुभागम् अमेरिकादेशे एव अयापयत् । दौर्भाग्यं नाम यद्यपि सः यल्लाप्रगडसुब्बरावः बहूनाम् औषधानां संशोधनम् अकरोत् तथापि तेषां मूल्यं तस्य जीवितकाले केनापि न ज्ञातम् आसीत् । एषः यल्लाप्रगडसुब्बरावः निर्धने कुटुम्बे जातः इति कारणात् तस्य अध्ययनार्थं व्ययीकर्तुं धनं न आसीत् । तस्मात् कारणात् सः बाल्ये एव विद्यालयं प्रति गमनम् अत्यजत् । सुदूरे विद्यमानां वाराणसीं प्रति अगच्छत् च । तत्र देवालयानां पुरतः फलविक्रयणं करोति स्म । तं विषयं ज्ञातवन्तः केचन तस्य सहृदः बान्धवाः तं वाराणसीतः प्रत्यानीय पुनः विद्यालयं प्रेषितवन्तः । तदनन्तरं सः यल्लाप्रगडसुब्बरावः अत्यन्तं परिश्रमेण अध्ययनं कृत्वा वैद्यपदवीं प्राप्नोत् । यदा तस्य द्वौ अपि सहोदरौ “उष्णप्रदेशस्य अतिसाररोगेण” मृतौ तदा एव “मया अग्रे औषधानां संशोधनं करणीयम्” इति मनसि सङ्कल्पम् अकरोत् ।


यल्लाप्रगडसुब्बरावस्य भारतदेशे अनुकूलकरी परिस्थितिः न आसीत् एव । अतः सः ऋणं कृत्वा अमेरिकादेशम् अगच्छत् । तत्र “हार्वर्ड्”-वैद्यकीयविद्यालयं प्राविशत् अपि । तत्र अमेरिकादेशे अपि सः यल्लाप्रगडसुब्बरावः व्ययस्य निर्वहणार्थं नीचस्तरस्य कार्याणि अपि अकरोत् । अनन्तरं “लेर्डले” नामिका औषधसंस्था तस्मै तस्य प्रियं कार्यम् अयच्छत् । रक्तहीनतयाः निवारणस्य “पिलिक् आसिड्”, गजपादरोगस्य निवारणार्थं “हेट्राजान्”, टिट्रासैक्लिन्-समूहस्य “आलियोमैसिन्” च अस्य यल्लाप्रगडसुब्बरावस्य एव संशोधनम् । तस्य स्मरणार्थम् एव भारतस्य प्रसिद्धाः औषधसंस्थाः “टिट्रासैक्लिनस्य” कृते “सुभामैसिन्” इत्येव नामकरणं कृतवत्यः । अस्य यल्लाप्रगडसुब्बरावस्य महत्त्वभूतं संशोधनं नाम स्नायूनां सङ्कुसनशक्तेः आकरस्य संशोधनम् । एषः यल्लाप्रगडसुब्बरावः तथा सैरस् फिस्क् च मिलित्वा “फास्फोक्रियाटिनिन्” तथा “अडिनोसीन्-ट्रै पास्फेट्” इत्याख्ययोः द्वयोः संयुक्तं वस्तु स्नायूनां सङ्कुचनार्थम् आवश्यकीं शक्तिम् उत्पादयति इति निर्णायकरूपेण प्रादर्शयताम् । एतत् संशोधनं जीवरसायनशास्त्रस्य अत्यन्तं मूलभूतं संशोधनम् आसीत् । एतत् संशोधनं विश्वाद्यन्तं सर्वेषाम् अपि विज्ञानिनां चित्तम् आकर्षत् । रक्ते रञ्जकम् अन्तिमरूपेण जीववस्तुकरणं भूत्वा यत् लयं प्राप्नोति तत् बहुकालतः अपि निगूढम् एव आसीत् । एषः यल्लाप्रगडसुब्बरावः रक्तप्रवाहे विद्यमानस्य रञ्जकस्य प्रमाणस्य मापनार्थं “केलोरिमीटर्” इत्याख्यम् उपकरणं संशोधितवान् ।


अयं यल्लाप्रगडसुब्बरावः अत्यन्तं स्थितप्रज्ञः, तावान् एव विनयी अपि । सः कदापि प्रचारं न इष्टवान् । १९२२ तमे वर्षे एतस्मै यल्लाप्रगडसुब्बरावाय तथा सैरस् फिस्काय च यः “नोबेल्” पुरस्कारः दातव्यः आसीत् सः पुरस्कारः अन्येभ्यः प्रदत्तः । तदर्थं वैज्ञानिकवलये महती अतृप्तिः प्रकटिता । तथापि एषः यल्लाप्रगडसुब्बरावः असमाधानं न प्रकटितवान् । स्वस्य सर्वस्य अपि संशोधनस्य कारणीभूताः मम सहोद्योगिनः इत्येव सर्वदा वदति स्म । एषः यल्लाप्रगडसुब्बरावः अर्जितं सर्वम् अपि धनं जनकल्याणार्थम् एव व्ययीकरोति स्म । जन्मसमये मया किमपि न आनीतम् । गमनसमये अपि किमपि नेतव्यं नास्ति । अतः मया किमपि सङ्ग्रहणीयं नास्ति । प्रतिवर्षम् अपि मम गणनापुस्तके आयः व्ययः च समानः भवेत् । किमपि न शिष्येत इति वदति स्म । सः यल्लाप्रगडसुब्बरावः १९४८ तमे वर्षे आगस्ट्-मासस्य ९दिनाङ्के ५३ तमे वयसि इहलोकम् अत्यजत् ।

"http://sa.wikipedia.org/w/index.php?title=यल्लाप्रगडसुब्बरावः&oldid=251459" इत्यस्माद् पुनः प्राप्तिः