हाकीक्रीडा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(यष्टिकन्दुक इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
हाकीक्रीडा
Field hockey.jpg
A game of field hockey in progress
परमनियामकगणः International Hockey Federation
विकटनाम(नि) Hockey
प्रथमक्रीडकः 19th century
Characteristics
सम्पर्कः Yes
वर्गीकरणम् Indoor–Outdoor
उपकरणम् Field Hockey ball, Field Hockey Stick, mouthguard, shinpads
ओलिम्पिक् 1908, 1920, 1928–present

यष्टिकन्दुकक्रीडा

विष्वक् कीर्तिमिता स्वराष्ट्र-वितता राष्ट्रान्तरैश्च स्तुता
सम्यक् कौशल-दर्शिनी कृतिमतां मोदावहा सर्वदा ।
‘हाकी’ -नामधरा वराऽथ रुचिरा स्त्री-पुम्मनःसु स्थिरा
क्रीडोत्कैः किल ‘यष्टि -कन्दुकमयी क्रीडा’ चिरं काम्यते ॥

अन्तर्विषयाः

[सम्पादयतु] ऐतिहासिकी पृष्ठभूमिः

कन्दुकं प्रति विश्वमानवस्याकर्षणमतीव प्राचीनकालादेव प्रवृत्तं प्रतीयते । हस्ताभ्यां पदभ्यां कन्दुक-क्रीडनान्याचरन्तः कदाचिदुपकरणैरपि क्रीडितुं विहितोत्साहा बालाः कठोरं कन्दुकं यष्टया ताडयित्वाऽपि खेलनमारभन्त । अस्याः क्रीडायाः प्रारम्भः कदा समजायतेति विषये न सन्ति सर्वेऽपि क्रीडेतिवृत्तविद ऐकमत्यधराः । परं सर्वेषामिदमस्त्यभिमतं यद् ‘दण्डेन क्न्दुकताडन-सम्बन्धिनीयं क्रीडा वस्तुतो विश्वस्य प्राचीनासु क्रीडास्वेकाऽवश्यमस्ति ।’ अतोऽस्याः कल्पनाऽऽदिकालादेव कर्तुं शक्यते । तदा प्रारम्भे केनापि मानवेन वृक्षस्य शाखोत्पाटय सन्त्रोटय वा भूमौ पतितं किमपि पाषाणखण्डं किमपि वस्तुविशेषं वा सन्तडयैकस्मात् स्थानादपरस्मिन स्थाने प्रक्षिप्तमभविष्यत् तेनैव स्वभावेनाग्रे ‘यष्टि -कन्दुक-क्रीड’ या रुपं धारितमभविष्यत् ।

केषाञ्चिद् विशेषज्ञानां मतमस्ति यत् सर्वतः प्रथमं यीशोर्जन्मनः २००० वर्ष् पूर्वं फारसदेशेऽनया क्रीडया साम्यं धारयन्ती काचन क्रीडा क्रीडयते स्म । तत एवेयमन्येषु देशेषु प्रासरत । फारसदेशानन्तरं प्रथमं यूनान-देशेनेयं क्रीडात्मसात् कृता । कियदभ्यश्चिदवर्षेभ्यः पूर्वं तत्र यीशुतः ३०० वर्षपूर्वं चित्रमेकं प्राप्तं यस्मिन द्वौ क्रीडकौ हाकीक्रिडाया (बुली सदृश्यां) आरम्भमुद्रायां दर्शितौ स्तः । तयोर्हस्तयोर्थे यष्टिके वर्तेते ते साम्प्रतिक -हाकी-समाने एवाभूताम् । मध्ययुगे फ्रान्सदेशीया यष्टि कन्दुकक्रीडासदृशमेवैकं क्रीडनं कुर्वन्ति स्म । यस्याभिधानं ‘हाहे’ (HOQUE) होकेट इत्यासीत् । तत्रास्य शब्दस्यार्थे ‘मेषपालकस्य यष्टिका’ इत्यस्ति । स्काटलैण्डवासिषु क्रीहेयं ‘शिण्टी’ (SHINTY) नाम्ना प्रशस्ताऽभूत् । तत्रेयं क्रीडा ८००-६०० वर्षेभ्यः पूर्वं प्रचलिताऽऽसीत् । शनैः शनैः रोमदेशेऽपि प्रावर्तत । रोमनसम्राज इंघ्लैण्डवासिन इमां ‘हरबी’ (HURBY) नाम्ना समबोधयन् ।

आधुनिक्या यष्टिकन्दुक- क्रीडायाः क्रीडनं सर्वप्रथमम् इंग्लैण्डे एकोनविशयां शत्यामभवत् । तददेशीये राष्ट्रिय-संग्रहालये तादृशिं चित्राणि समुपलभ्यन्ते यैरनुमीयते यद विजयिनो रोमन-सैनिका इमां क्रीडां चतुर्दश्यां शत्यां क्रीडान्ति स्म । तत्रत्या इमां ‘बोण्डी’ (BANDY)ति गदन्ति स्म । अस्या वास्तविकं नाम ‘हाकिक’ (HAWKIC) अथवा हाककिक (HOCKIC) प्रायः १८३३ ई. वत्सरे प्रवृत्तम् ।

अमेरिकाया आदिवासिनो हरिणस्य चरणास्थ्नो यष्टिकां तथा तदीयकृत्तेः कन्दुकं निर्माय क्रीडन्ति स्म । उत्तरामेरिकायां क्रीडेयं हिमे क्रीडयते स्म, यद्यपि तत्र यष्टेः प्रकारो भिन्नोऽभवत् । भारतेऽन्यासां कतिपयक्रीडानामिवेयं क्रीडाऽपि इंग्लैण्डत एव समागच्छत् । आंग्लसेनापदाधिकारिणः सर्वप्रथमं कलकत्तामहानगर्यां १६०५ तमे वर्षेऽक्रीडन । १६२५ ई. तोऽग्रे भारतीया अप्यस्यां रुचिमन्तोऽभवन् यद्यपि प्राचीना भारतीया ईदृशीमेव क्रीडामत्र ‘खडो -खुड्’ नाम्ना क्रीडन्ति स्म किञ्च पञ्चाम्बुप्रान्त्तेऽस्यां विशिष्य रुचिरवर्तत तथापि राष्ट्रिय- प्रतियोगितासु समावेशादियं कामपि विशिष्टां ख्यातिमर्जयन्ति सर्वत्र प्रासरत् । पंजाबप्रदेशस्य ‘संसारपुर’ ग्रामं त्वद्यापि ‘हाकी नर्सरी’ ति सम्बोधयन्ति ‘यतोऽनेके हाकीक्रीडकाः प्रसिद्धिं प्रापन् ।

[सम्पादयतु] क्रीडाङ्गणं क्रीडोपकरणानि च

[सम्पादयतु] क्रीडाङ्गणस्यायाम-विस्तार-रेखादिविधानानि

(क) क्रीडाङ्गणम् -हाकीक्रीडायाः प्राङ्गणं १०० गजमितमायतं ५५ तः ६० गजमितं च विस्तृतं भवति ।
(ख) रेखाः आयते रेखे पार्श्च -रेखे बाह्यरेखे वा (साईड-लाइन्स) तथा विस्तृता रेखाः सीमरेखाः (गोल लाइन्स) कथ्यन्ते । सर्वा अपि रेखाः ३ इंच-स्थूला भवन्ति । समस्तस्य क्षेत्रस्य मध्ये एका मध्येरेखा दीयते या क्षेत्र द्वाभ्यां भागाभ्यां विभनक्ति । एवमेव २५-२५ गजयोरन्तरालयोरपि द्वे रेखे विधीयेते ये क्षेत्रस्य चतुर्थाशं स्पष्टयतः ।
(ग) पताकादण्डाः (फैग पोस्ट) आदि -तदग्र-मद्य-तदग्रान्त्यरेखाणां द्वयोरपि प्रान्तभागयोः पताका -दण्डा निखन्यन्ते येषां प्रलम्बता ४ फुटमिता भवति ।
(घ) सीम-स्तम्भः (गोल पोस्ट)-सीमरेखयोर्मध्ये ४ गनमितेऽन्तराले द्वौ द्वौ स्तम्भौ निखन्येते ययोरुच्चता सप्त ७ फुटमिता भवति । एतेषां शिखरेष्वनेका यष्टिकाः संलग्ना भवन्ति यासां स्थूलता ३ इंचमिताः क्रियन्ते । उभयोरपि भागयोः सीमस्तम्भयोः पृष्ठे सुदृढे जालिके (नेट) बध्येते ।
(ङ) सीम-फलकम (गोल पट)सीमस्तम्भयोरन्तवर्तिनि भागे क्रीडाङ्गणं स्पृशदेकैकं काष्ठफलकं संयोज्यते, यस्योच्चता १८ इंचमिता भवति ।

(च) अर्धवृत्तम- (स्ट्राइकिंग सरकल) -उभयोरपि सीमस्तम्भयो १६ गजदूरत एकमर्धवृत्तं विधीयते, यद ‘डि’ इति कथ्यते । इदमेकया ४ गजायतया रेखया ३ इंचविस्तृतया रेखायाः १६ गजमितेऽन्तराले भवति । एतदनुसारमेव प्रत्येकं सीम्नः समक्षमेकं वृत्तं च क्रियते । सीमस्तम्भावस्य मध्ये भवतस्तथा सीमरेखां स्पृशतः । (छ) बुल्ली-स्थानम् -मध्यरेखायाः पूर्णतो मध्ये एकं लधु वृत्तं निर्मियते यत्र द्वयोरपि दलयोः नेतारावुपस्थाय क्रीडारम्भं कुरुतस्तत्स्यानम् ।

[सम्पादयतु] (२) क्रीडोपकरणानि

(क)कन्दुकः -हाकी क्रीडायाः कन्दुकः कठोरो भवति । श्वेतचर्मणा निर्मितस्यास्य भारः ५ १/२ औसतोऽधिको न भवेत् । अस्य परिधिः ६८/१३ इंचत आरभ्य ६३/४ इंचपर्यन्तः स्वीक्रियते । (ख) यष्टिः (हाकी-स्टिक) -अस्याः शिरोभागस्तीक्षणो न भवति तथा तत्र कीदृशमपि लोहवरणादिकं न क्रियते । प्रायेण २ इंचमिता स्थूलता समुचिता मन्यते । अधोभागो वलितः, पृष्ठभागो वर्तुलोऽग्रभागः समतलस्तथाऽस्याः समग्रो भारः १२ औसत २८ औस-पर्यन्त उत्तमो गण्यते । (ग) पादाच्छादकद्वयम् (पै ड)-सीम-रक्षकस्य पदयो रक्षार्थं पादाच्छादकयोः प्रयोगो भवति ययोर्विशिष्टनिर्मितेः कारणात् कन्दुकाघाताद् रक्षा भवति । (घ) उपानहौ -क्रीडकस्य पदयोर्ये उपानहौ भवतस्ते कीलकरहिते चर्मखण्डसंयुते च समुचिते मन्येते । - क्रीडकाः क्रीडा -विधयश्च

[सम्पादयतु] १. क्रीडकास्तेषां नियमाश्च

(क) क्रीडक - संख्या - हाकी-क्रीडा द्वयोर्द लयोर्मध्ये सम्पद्यते । प्रतिदलं क्रीडकसंख्या ११-११ भवति । एतेष्वेकादशक्रीडकेषु ५ अग्रक्रीडकाः (फारवर्ड), ३ अर्धपृष्ठक्रीडकाः (हाफबैक), २ पूर्णपृष्ठक्रीडकाः (फुल बैक) भवन्ति तथा १ सीमरक्षको (गोलकीपर) भवति । एकैकोऽत्र दलनायको भवति । (ख) क्रीडकानां व्यूह-रचना -क्रीडाक्षेत्रे पूर्वं मध्यभागे ५ अग्रक्रीडका स्तेषां पृष्ठे ३ अर्धपृष्ठक्रीडकास्तेषां पृष्ठे सीमस्थलस्योभयोः पार्श्वयोः २ पूर्णपृष्ठक्रीडकौ (रक्षकौ) मध्ये सीमस्थले च १ सीमरक्षकः’ इत्थं सर्वे क्रीडकास्तिष्ठन्ति ।

[सम्पादयतु] सर्वेषां कर्तव्यानि

दलस्य क्रीडकेषु परस्परं सामञ्जस्य मत्यावश्यकं विद्यते । सीमरक्षाकस्त्वरित निर्णयकारी, धैर्य-स्फूर्ति- प्रतिभासम्पन्नश्च भवेत् । जय -पराजययोः श्रेयस्तदुपर्येव भवति । रक्षकौ कन्दुकं सीम- प्रवेशाद् वारयतः । एतौ सीमरक्षकेण तथा पुरोवर्तिक्रीडकैः सह सर्वथा सहयोगं कुरुतः । एतयोः स्थानं रक्षापङिक्तरपि कथ्यते । ततोऽग्रे स्थिताः क्रीडका आक्रमण-पङीक्त-रक्षका भवन्ति । ते सीमभागे प्रविशन्तं कन्दुकमवरुदध्य पुरोवर्तिभ्यः प्रयच्छन्ति स्व-स्व-स्थाने स्थिताश्च रक्षणं कुर्वन्ति । कन्दुकं ताडयित्वा यथावश्यकं क्रीडकाय प्रापणमेवात्र कौशलमस्ति । (ग) क्रीडा-समयः - अस्याः क्रीडायाः समयःअ ७५ मिनटात्मको विद्यते । प्रारम्भात ३५ मिनटानन्तरं ५ मिनटात्मको विरामो भवति । मध्यविरामात् परं दलयोः क्षेत्रपरिवर्तनं विधीयते पुनश्च ३५ मिनटं यावत् क्रीडा प्रचलति

[सम्पादयतु] २ क्रीडा -विधयो नियमाश्च

===(क) क्रीडारम्भो बुल्ली=== -(BULLY) प्रक्रिया च -क्रीडारम्भातपूर्वं दलनायको मुद्रोच्छालनविधिना स्वपक्षार्थं क्रीडाक्षेत्र निर्णयति प्रथमं द्वयोरपि पक्षयोः क्रीडाकाः परस्परमभिमुखा भूत्वोपतिष्ठन्ते । कन्दुको मध्यरेखाया मध्यवृत्ते स्थाप्यते पश्चात् प्रत्येकं दलस्यैकैकः क्रीडार्थी स्वां स्वां यष्टिं भूम्या स्पृशति ततशैको विरोधिनो यष्टिं स्वयष्टेः समतलभागेन स्पृशति । इत्यं त्रिवारं विधायोभयोरप्येकः क्रीडकः कन्दुकं सन्ताड्य क्रीडामारभते । इयं बुल्ली-प्रक्रिया -(१) क्रीडारम्भे, (२) कन्दुकस्य सीमप्रवेशानन्तरं (३)मध्यावकाशोत्तरं, (४) त्रुटयनन्तरं च सम्पाद्यते । एतत् समयेऽन्ये क्रीडकाः ५ गजदूरस्था भवन्ति । अर्धवृत्तस्य ,मद्याद यदीयं क्रिया सम्पाद्यते तदा सीमरेखातः ५ गजमितमन्तरमावश्यकं विद्यते । अस्य नियमस्योल्लङ्घने सति बुली भूयोऽपि दीयते सावबोधं नियमखण्डने सति विरोधिने क्रीडकाय यथेच्छताडन-(फ्री-हिट) सौविध्यं दीयते । अर्धवृत्ते चैवं भवति चेद दण्ड-कोणव्यवस्था (पेनल्टी कार्नर) क्रियते ।

[सम्पादयतु] (ख) बुल्ली-ग्रहण-स्थानानि

क्रीडाङ्गणस्य विभिन्नेषु षट्त्सु स्थानेषु बुल्ली-गृहीतुं शक्यते । यथा - (१) मध्याग्राद् (२) दक्ष-बाह्यपार्श्वात्, (३) दक्षान्तः पार्श्वात्, (४) वाम-बाह्यपार्श्वात्, (५) वामान्तः पार्श्वाद् (६) दण्ड-स्थानाच्च् ।

[सम्पादयतु] (ग) यष्टि-प्रयोग-विधयः

क्रीडायां यष्टेः समतलभागस्यैव प्रयोगो भवति । कन्दुकमुत्प्लाव्य ताडनावसरे स्कूप(SCOOP) इति कथनमावश्यकमस्ति । ताडनसमये कन्दुकावरोधन-काले च यष्टेः स्कन्धादूर्ध्वगमनं नोचितम् । विरोधिनो यष्टेरग्रेवरोधोपस्थापनं तदीयां यष्टिं स्वयष्ट्या सङ्गम्फ्योपर्युत्यापनमथवा ताडनं दोषाय भवति

[सम्पादयतु] (घ) कन्दुक-प्रयोग विधयः

कन्दुकं सन्ताडय विपक्षिणः पर-सीम्नि प्रवेशयितुं चेष्टन्ते । सीम-प्रवेशाधिक्यादेव विजयप्राप्तिर्भवति । एकं दलं द्वितीयदले कन्दुकं गमयति तद्दलीयाश्च तमवरुद्धय पुनः सन्ताडय तस्य सीम्नि प्रवेशयितं यतन्ते । कन्दुकः पदयोर्मध्यभागाद् न निः सार्यते । उपराष्टाद यदि कन्दुक आगच्छेत् तदा यष्टया तम्वरोदधुं शक्नोति परं नियमानुसारमेव भूमावागच्छन्तं कन्दुकं कोऽपि क्रीडको ह्स्ताभ्यां रोदधुं शक्नोति परमन्येन शरीरावयवेन तथा न विधेयम् । कन्दुकं निगृहीतं चेद भूमौ समकोणेन प्रक्षेप्तव्यं येन क्रीडनं सम्भवेत् । कन्दुकस्य सर्वविधगतये यष्टेरेव प्रयोगः कर्तव्यः ।

[सम्पादयतु] (ङ) सीम-रक्षक-(गोल-कीपर)नियमाः

सीमरक्षकः शरीरस्य् केनाप्यवयवेन कन्दुकमवरोधमनुमतः । स तं ताडयितुमपि शक्तः परमित्थं तदैव कर्तुमनुमन्यते यदा कन्दुकस्तस्य क्षेत्रमागतः स्यात्

[सम्पादयतु] (च) सीम-प्रवेश-निर्णयः

यदा विरोधिनो यष्टेस्ताडानेन कन्दुकः सीमस्तम्भयोर्मध्यादायतवंशादधस्तात् सीमरेखां पारयति तदा सीम-प्रवेशो (गोल) मन्यते ।

[सम्पादयतु] (छ) निर्णायक-नियमाः

क्रीडायाः क्षेत्रस्य द्वयोरपि भागयोद्वौ द्वौ निणयिकौ भवतः । तयोरेकः समस्य विवरणं कन्दुकस्य सीम-प्रवेशगणनां च धारयति । निर्णायक एव सत्यपराधे त्रृटौ वा दण्डयति तथा यथोचितं निर्णयं प्रस्तौति । तस्य निर्णायपालनमावश्यकम् । यष्टिक्रीडायाः प्रतियोगितावसरे प्रत्येकं क्रीडकेन यष्टिद्वयं स्वसमीपे प्रयोगार्थं संरक्षणीयम् । येन क्रीडनकाले द्वितीयस्याः प्रयोगः शीघ्रं कर्तुं शक्येत । केचन क्रीडका मनाग् भारवतीं यष्टिं केचन च सामान्यभारशालिनीं यष्टिं स्वीकुर्वन्ति । स्व-स्वबाह्वनुसारं क्रीडा यष्टिः प्रयोक्तव्या । वस्त्राणि सङ्कुचितानि न भवेयुः उपानहावपि भाररहिते धारणीये, येन धावने सौविध्यं सम्पद्येत । क्रीडायाः क्षमता-वृद्धये प्रत्यहं धावन-रज्जुकूर्दन-यष्टिभ्रामण-हस्त-पाद ग्रीवासञ्चालनादिव्यायामाः कर्तव्याः । अस्याः क्रीडायाः प्रविधौ क्रमशः इमे शब्दाः प्रयुज्यन्ते ये विधिं सूचयन्ति -

(१) ग्रहणम् (होल्ड HOLD) -यष्टिकाधारणाय । (२) कन्दुक-ताडनम् (हिटिंग दि बाल Hitting the Ball )- कन्दुकं पदयोरग्रे संस्थाप्य कटिं मनाग् वलयित्वा कन्दुके स्थिरे सति ताडनं कर्तव्यम् । (३) कन्दुकावरोधः (स्टापिंग दि बाल् Stopping the balla) पुरतो वेगेनायान्तं कन्दुकमवरोदधुं वामं हस्तमूर्ध्वं दक्षहस्तञ्च यष्टेर्मध्ये संस्थाप्य भूमौ यष्टिः स्थापनीया । यष्टिरुर्ध्वं नोत्थापनीयाऽन्यथा कन्दुकोऽधस्ताद गमिष्यति (४) कन्दुकस्याग्रे प्रापणम् ( पुश Push) मणिबन्धस्य प्रयोगेणा भूमिभागादेव यष्ट्यां कन्दुकः शनैः शनैः सन्ताडयते । परस्मै सहयोगिक्रीडकाय यावति दूरे कन्दुकः प्रापणीयो भवेत्तदनुमानेन ताडनं विधेयम् । (५)

मन्द-आघातः (फिलक Feiek)-शिथिलमणिबन्धेनायं क्रियते । अस्य द्वौ प्रकारौ विद्येते -ऋजुर्विपरीतश्च । एतदाघातसमये कन्दुकं यष्टिं च पृष्ठे कृत्वा कलाच्या आघातेन क्रीडयते । विपरोताघाते (रिवर्स् फिल्क Reverse Flick) यष्टिं विपरीतां कृत्वा कन्दुको दक्षभाग आनीयते तथा वामहस्त्मुपरि दक्षिणं ततोऽग्रे निधाय यष्टयाधातः क्रियते । विरोधिनश्छलनाय प्रयोगोऽयं विधीयते । (६) सावबोधं कन्दुकोच्छालनं (स्कूप Scoop) अनेन विधिना विरुद्धक्रीडकं प्रतार्थ स्वसहयोगिने कन्दुकदानं भवति । विपक्षस्य रक्षाङिक्तत्रोटनमनेन क्रियते । (७) कुटिलगत्या कन्दुकनयनम् (ड्रिबलिंग् Drstaleling)पूर्ववदेव । (८) विरोधिनः सकाशात् कन्दुकमुन्मोच्य स्ववशे करणम् (टेकलिंग Tacklling) इति कथ्यते । (६) सहक्रीडकेभ्यः कन्दुकदानपूर्वकमग्रे वर्धनं (पासिंग Passing )निगद्यते । (१०) बुल्ली (Bully) वर्णितैव । (११) कोणः (कार्नर Corner) २५ गजमिताया रेखाया अन्तर्यदा रक्षकदलस्य कस्यापि क्रीडकस्य यष्टिं स्पृष्ट्वा कन्दुकः सीमरेखामुल्लङ्घयति तदा विपक्षदलाय कोणक्रीडा-व्यव्यस्था दीयते । अनया साक्षात् सीमप्रवेशो न भवति, अपि तु कन्दुकं किञ्चदवरुद्धय पश्चात् ताडयन्ति । (१३) दण्ड-कोणः (पेनल्टी कार्नर Penalty Corner) रक्षकदलस्य कोपि क्रीडको ‘डि’ मध्येऽथवा ज्ञानपूर्वकं २५ गजरेखाया अन्तर्भागे त्रुटिं करोति तदा दण्ड कोणक्रीडाव्यवस्था क्रियते । अन्येऽप्यस्य नियमाः सन्ति ते हि प्रायोगिकप्रक्रियाभिः परिचेतव्याः । इत्यमियं क्रीडाऽतीव रञ्जिका भवति -

नानाक्रीडासु साम्यं भवदपि सततं तत्र काञ्चिद् विशिष्टां
रीतिं संयोज्य नीत्याऽभिनवरचनया क्रीडकान् प्रेरयन्ति ।
तासु प्रीत्या जनानां मनसि मुदमतीवोर्जितां वर्धयन्ति
‘हाकी-क्रीडाऽधुनेयं प्रभवति भुवने सर्वसौख्य-प्रदात्री ॥

[सम्पादयतु] आधारः

अभिनवक्रीडातरंगिणी

"http://sa.wikipedia.org/w/index.php?title=हाकीक्रीडा&oldid=186140" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु