याज्ञवल्क्यः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
याज्ञवल्क्यं महाप्राज्ञम् आदित्यात् प्राप्तविद्यकम् ।
यजुर्वेदस्य द्रष्टारं वन्देहं गुरुपुङ्गवम् ॥

अतीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वम् यः पश्यति स्वयं वाक्यं स ऋषिः - इति वचनानुसारं तपसा ईश्वरस्य अनुग्रहेण वेदमन्त्राणां द्रष्टा अस्ति ब्रह्मर्षिः याज्ञवल्क्यः । अस्य पिता धर्मगुरुः इति प्रसिद्धः देवरातः । यागनिर्वर्तने सिद्धहस्तः एषः विशेषतया अग्नेः आराधकः आसीत् । याज्ञवल्क्यस्य माता साध्वी सुनन्दादेवी । दम्पती अनन्यश्रद्धया यज्ञेश्वरस्य आराधनेन याज्ञवल्क्यं पुत्ररूपेण प्राप्तवन्तौ । कार्तिकमासस्य शुक्लसप्तम्याम् अस्य जन्म अभवत् । गर्भपञ्चमे वयसि याज्ञवल्क्यस्य उपनयनसंस्कारः जातः ।

विद्याभ्यासः[सम्पादयतु]

याज्ञवल्क्यस्य गुरुः महर्षिः वैशम्पायनः । वैशम्पायनः भगवतः व्यासस्य शिष्यः । भगवान् व्यासः वेदान् ऋक्-यजुस्-साम-अथर्व इति चतुर्धा विभक्तवान् । तेषां प्रचाराय चतुरः शिष्यान् नियुक्तवान् । ऋग्वेदपाठकत्वेन पैलः, यजुर्वेदपाठकत्वेन वैशम्पायनः, सामवेदपाठकत्वेन जैमिनिः, अथर्ववेदपाठकत्वेन सुमन्तुः च तेन योजिताः । यज्ञविधिः आदौ यजुर्वेदः इति एकः एव आसीत् । (एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् । चातुर्होत्रमभूत्तस्मिन् तेन यज्ञमथाकरोत् ॥ - विष्णुपुराणम्) । व्यासः तत् चतुर्धा विभज्य चतुर्भिः याजकैः युक्तां चातुर्होत्रपद्धतिम् आनीतवन्तः । यजुर्वेदमन्त्रैः अध्वर्युः, ऋग्भिः होता, सामभिः उद्गाता, अथर्वमन्त्रैः ब्रह्म च यज्ञे भागं यथा वहेयुः तथा अकरोत् । महर्षिः याज्ञवल्क्यः यजुर्वेदवृक्षं सप्तविंशतिशाखाभिः विभज्य एकैकां शाखाम् एकस्मै शिष्याय अबोधयत् ।
याज्ञवल्क्यः नितरां बुद्धिमान् आसीत् । विनयशीलः सः अचिरादेव गुरुकुले सर्वेषां प्रीतिपात्रं जातः । अत्यल्पावधौ यजुर्वेदं सम्पूर्णतया अधीत्य तेजोयुक्तः जातः । गुरुः वैशम्पायनः कदाचित् अस्वस्थः जातः । तस्य स्वास्थ्यर्थं चरक-अध्वर्युः इत्यादयः ज्येष्ठशिष्याः तपः कर्तुं निश्चितवन्तः । याज्ञवल्क्यः गुरोः समीपं गत्वा अवदत् - 'तैः क्रियमाणं तपः प्रभावयुक्तं न स्यात् । अतः अहम् एकाकी तपः आचरामि' इति । वैश्म्पायनः - 'ज्येष्ठशिष्यानां विषये एवं कथनं न उचितम् । भवता तपः आचरणीयं नास्ति' इति स्वस्य असन्तोषं प्राकटयत् । अन्यदा राज्ञः स्वास्थ्याय आश्रमे आचरितस्य होमस्य प्रसादं स्वीकृत्य तस्य दानाय प्रासादम् अगच्छत् याज्ञवल्क्यः । तीर्थप्रसादयोः विषये राज्ञा दर्शिताम् उपेक्षाम् असहमानः याज्ञवल्क्यः पुनः गुरुणा सूचितोऽपि तत्र गमनं न अङ्ग्यकरोत् । एतैः कारणैः शिष्यविषये क्रुद्धः वैशम्पायनः 'गुरुकुलात् प्रतिगम्यताम् । अत्र अधीतं सर्वं परित्यज्य गम्यताम्' इति आदिष्टवान् । याज्ञवल्क्यः अधीतं समग्रं यजुर्वेदम् अवमत् । एतेन तदीयं तेजः अदृश्यतां गतम् ।
अग्रे पैलमुनेः शिष्यस्य भास्कलस्य समीपं गत्वा ऋग्वेदं, कोसलदेशस्य ऋषेः हिरण्यनाभस्य गुरुकुले सामवेदम्, आचार्यस्य आरुणेः समीपं गत्वा अथर्ववेदं च अधीतवान् । ततः सः महर्षेः उद्दालकस्य आश्रमम् अगच्छत् । शास्त्रोक्तधार्मिककर्मणां विषये अत्र गभीराध्ययनम् अकरोत् याज्ञवल्क्यः । शिष्यस्य बुद्धिशक्तिं सामर्थ्यं च दृष्ट्वा परमसन्तुष्टः उद्दालकः तेन ज्ञातां समग्रां विद्याम् अबोधयत् । यजुर्वेदज्ञानं यद् आत्मना परित्यक्तं तस्मिन् विषये याज्ञवल्क्यस्य मनसि बहु खेदः आसीत् । यजुर्वेदस्य अध्ययनं विना विद्याभ्यासः पूर्णः न भवति इति कारणतः सः वेदमातुः गायत्र्याः अनुग्रहप्राप्त्यै तपः आरब्धवान् । एतस्य कठिनतपसा सन्तुष्टा सा प्रत्यक्षीभूय 'वत्स ! सूर्यः आराध्यताम् । तस्य अनुग्रहेण भवदिष्टं सिद्ध्यति ।' इति अवदत् । ततः याज्ञवल्क्यः तीव्रतपसा सूर्यस्य आराधनाम् आरब्धवान् । तपसः प्रभावेण अद्भुतशक्तयः तस्मिन् गोचरतां गताः । गुरुः याज्ञवल्क्यस्य पितरौ आहूय अस्य विद्याभ्यासः सम्पन्नः इति असूचयत् ।

गृहस्थाश्रमप्रवेशः[सम्पादयतु]

ज्येष्ठानाम् अपेक्षानुगुणं याज्ञवल्क्येन ऋषेः कदिरस्य पुत्री कात्यायनी परिणीता । विवाहावसरे गुरुः वैशम्पायनः सपत्नीकः उपस्थाय 'अधुना भवान् अस्ति सर्वज्ञः । लोकः इदम् अङ्गीक्रियात्' इति प्रीत्या अनुगृहीतवान् । कात्यायनी वयसा यद्यपि अवरा तथापि स्वस्य वचन-व्यवहारैः याज्ञवल्क्यस्य योग्या पत्नी आसीत् ।

सूर्योपासनं सिद्धिश्च[सम्पादयतु]

सरस्वत्याः आदेशानुगुणं यजुर्वेदज्ञानस्य प्राप्त्यै याज्ञवल्क्यः तीव्रं सूर्योपासनम् आरब्धवान् । प्रतिदिनं ब्राह्मीमुहूर्ते उत्थाय नित्यकर्माणि समाप्य सूर्यमन्त्रस्य जपे मग्नः भवति स्म आमध्याह्नम् । सूर्याय अर्पितं पायसान्नमात्रं दम्पत्योः दिनस्य आहारः आसीत् । दिने दिने तस्य तपः तीव्रतां गतम् । कदाचित् सूर्यजपे मग्नेन तेन विलक्षणः आनन्दः अनुभूतः । सूर्यः अश्वाकारेण प्रत्यक्षः जातः । ततः मनुष्यदेहं प्राप्य सूर्यः अवदत् - 'आदौ सरस्वतीदेवी भवन्तं प्रविश्य वेदज्ञानस्य प्राप्त्यर्थम् आवश्यकीं शक्तिं दास्यति । ततः शरीरं मनः च पवित्रं भवति । ततः वेदज्ञानं प्राप्तुम् अर्हति ।' इति । सरस्वत्याः अनुग्रहेण शक्तिं प्राप्तवान् याज्ञवल्क्यः प्रकाशे विद्यमानस्य वेदस्य ज्ञानं प्राप्तवान् । तदीयं शरीरं मनः आत्मा च आनन्दानुभवेन पूर्णतां गताः । तेन साक्षात्कृताः मन्त्राः एव शुक्लयजुर्वेदः इति प्रसिद्धिं गतः । शुक्लयजुर्वेदे कर्मयोग-ज्ञानयोगसम्बद्धाः विषयाः विस्तृतरूपेण विवृताः सन्ति । तस्मात् शतपथब्राह्मणनामकं शतैः अध्यायैः युक्तं ब्राह्मणं रचितं जातम् । ईशावास्योपनिषत्, बृहदारण्यकोपनिषत् - एतदुभयमपि आत्मनः दैवविषये च उपदिशति । याज्ञवल्क्येन स्मृतिः रचिता । सा याज्ञवल्क्यस्मृतिः इति प्रसिद्धा ।

कुलपतित्वम्, ब्रह्मर्षित्वप्राप्तिश्च[सम्पादयतु]

महर्षिः उद्दालकः याज्ञवल्क्यम् उद्दिश्य 'वार्धक्यकारणतः गुरुकुलचालनं मम कष्टाय जातम् । इतःपरं भवान् अस्य गुरुकुलस्य कुलपतिः भवतु' इत्यवदत् । गुरोः आदेशम् शिरसा पालयता तेन कुलपतिपदम् अङ्गीकृतम् । तस्य कारणतः आश्रमस्य कीर्तिः सर्वत्र प्रसृता जाता । विदेहस्य राजा जनकः याज्ञवल्क्यस्य आश्रमम् आगत्य तस्य अनुग्रहपात्रं जातः । शुक्लयजुर्वेदस्य प्रचाराय तेन सभा आयोजिता । तत्र समुपस्थिताः सर्वे विद्वद्वरेण्याः वेदद्रष्टारः याज्ञवल्क्यद्वारा शुक्लयजुर्वेदं श्रुत्वा परमसन्तुष्टाः जाताः । अयं वेदः वाजिरूपेण आदित्येन उपदिष्टम् इत्यतः वाजसनेयी संहिता' इति, ईशावास्योपनिषत् वाजसनेयसंहितोपनिषत् इति च भवतु इति याज्ञवल्क्येन सूचितम् । सभायाम् उपस्थिताः दार्शनिकाः सर्वे याज्ञवल्क्यं ब्रह्मर्षिः इति सम्मानितवन्तः । तस्यां सभायाम् उपस्थिता मैत्रेयी याज्ञवल्क्यस्य शिष्या सती आध्यात्मसाधनं कर्तुम् इष्टवती । सा कात्यायन्याः अनुमतिं प्राप्य याज्ञवल्क्यस्य पुरतः स्वस्य आशयम् अवदत् । तां सः आध्यात्मसहधर्मिणीरूपेण परिणीतवान् ।

ज्ञानसत्रम्[सम्पादयतु]

जनकमहाराजः किञ्चन महद् ज्ञानसत्रम् आयोजितवान् आसीत् । तत्र उद्देशद्वयम् आसीत् । विभिन्नदिग्भ्यः आगताः विद्वांसः ऋषयः परस्परविचारविनिमयेन वैदिकविचाराणां प्रचारं कुर्युः इति । आगतेषु अत्युत्तमज्ञानी योग्यरीत्या सत्कृतः स्यात् इति च । तद्दिने बहवः ज्ञानिनः सम्मिलिताः । तत्र जनकेन घोषितं - 'अत्र यः अस्ति ब्रह्मज्ञानी सः अत्र आगत्य सर्वज्ञकिरीटधारणेन सम्माननं प्राप्य गोष्ठे बद्धाः सुवर्णनाणकहारैः अलङ्कृतशृङ्गाः सहस्र धेनवः स्वायत्तीकुर्यात्' इति । तदा विद्वत्सभातः सिंहगाम्भीर्येण उत्थाय आगतः याज्ञवल्क्यः शिष्यम् अवदत् - 'सामश्रव ! गोसमूहः आश्रमं प्रति नीयताम्' इति । तस्य ध्वनिः आत्वविश्वासपूर्णः आसीत् । भीतिः अहङ्कारः वा लेशमात्रेण अपि नासीत् । ततः बहुभिः पृष्टानां विविधप्रश्नानां कृते समुचितम् उत्तरं तेन दत्तम् । तस्मात् सर्वे समाहिताः जाताः । सः सर्वज्ञकिरीटधारणेन सम्मनितः जातः ।

संन्यासस्वीकारः[सम्पादयतु]

ज्ञानसत्रस्य अनन्तरं याज्ञवल्क्यः स्वस्य शिष्ययोः कण्व-मध्यन्दिनयोः कृते गुरुकुलदायित्वं प्रदत्तवान् । जीवने वैराग्यं प्राप्तवान् सः पत्न्यौ आहूय संन्यासस्वीकाराय अनुमतिम् अपृच्छत् । ब्रह्मवादिनी मैत्रेयी आत्मसाक्षात्कारमार्गम् उपदिश्यताम् इति प्रार्थितवती । सन्तुष्टः सः ताम् उपादिशत् । ततः संन्यासाश्रमस्वीकरणम् अकरोत् ।

नमोऽस्तु याज्ञवल्क्याय नमोऽस्त्वमिततेजसे ।
नमो ज्ञानस्वरूपाय परब्रह्मविदे नमः ॥
"http://sa.wikipedia.org/w/index.php?title=याज्ञवल्क्यः&oldid=275898" इत्यस्माद् पुनः प्राप्तिः