याणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
याणस्य शिलासमुच्चयः

उत्तरकन्नडमण्डलं किञ्चित् मनमोहकं मण्डलम् अस्ति । पश्चिमघट्टे स्थितम् एतत् सर्वदा हरितै: वनैः, जलपातै:, गगनस्पर्षिभिः वृक्षै:, वैविध्यमयैः जीवराशिभि: पूर्णं भवति ।

अत्रत्या शिलाराशि: कर्णाटकस्य भूमे: विज्ञानस्य आरम्भस्य अध्यायान् वदति । सामान्यत: २५० कोटिवर्षेभ्यः पूर्वम् एष: भाग: सागरतले आसीत् । अनन्तरं पर्वतानां पङ्क्ति: भूत्वा पश्चिमघट्टस्य रूपं प्राप्नोत् ।

उत्तरकन्नडमण्डलस्य सिरसि-कुमटामार्गे त्रिंशत् किलोमीटर् दूरे आनेगोन्दिग्राम: अस्ति । तत: अग्रे बेळ्ळङ्गि, सण्डोळ्ळिग्रामं च पारयित्वा चतुर्दशकि.मी. टार्मार्गेण गत्वा कि.मि. द्वयं पद्भ्यां चलति चेत् ‘याण’ लभ्यते ।

अत्र गत्वा उपरि पश्यन्ति चेत् आकाशपर्यन्तं स्थितमिव तीक्ष्णशिलयो: शिखरद्वयं दृश्यते । एतौ एव प्रकृत्या निर्मिते तीक्ष्णशिले ।

एकं शिखरं “’भैरवेश्वरशिखरनाम्ना”’ अन्यत् ’“मोहिनीशिखरनाम्ना”’ च निर्दिशन्ति । मोहिन्या: रूपं धृत्वा विष्णुः भस्मासुरस्य संहारम् अत्रैव कृतवान् इति विश्वास: अत्र जनजनित: अस्ति ।

अत्र शिखरद्वयमपि सुधाशिलया रूपितमस्ति । जेडिमृत्तिकया प्रतिमा: कृताः इव अत्र सुधाशिलया बाणरूपिरचना: प्रकृत्या निर्मिताः सन्ति ।

सामान्यत: २५० कोटिवर्षत: निरन्तरं प्रकृते: विकोपं सम्मुखीकृत्य अपि एते शिखरे नष्टे न स्त: । कारणम् इत्युक्ते एतयो: औनत्यम् । भैरवेश्वरशिखरं षष्ठ्यधिकमीटर् उन्नतम् अस्ति । तस्य अध: भैरवेश्वरस्य मन्दिरम् अस्ति । विग्रहस्य उपरि चण्डिकातीर्थस्य अन्तर्जलं बिन्दुरूपेण स्यन्दति ।

सुधाशिला सुलभतया जले विलीना भवति । अत: वृष्ट्या तस्या: मृदुभाग: मन्दं मन्दं गच्छति । किन्तु सुधाशिलया सह मेग्निषियं द्रव्यं मिश्रितम् अस्ति इत्यतः केवलं मृदुभाग: गत्वा दृढभाग: तथैव अवशिष्यते । याणे एतादृश: भाग: एव बाण: इव तीक्ष्णां रचनां प्राप्तवान् अस्ति ।

एताः तीक्ष्णशिलाः भारते केवलं न, पूर्णपूर्वगोलस्य अद्भुतेषु अन्यतमाः इति प्रख्याताः सन्ति ।

एतेषां शिखराणां परित: खन्योद्यमार्थं प्रयत्नः प्राचलत् । तथैव यदि अभविष्यत् तर्हि अद्य एतस्य निसर्गस्य अद्भुतकलाकौशलम् अवशिष्टं न अभविष्यत् । किन्तु जागरितानां परिसरप्रेमिनां प्रतिरोधस्य कारणेन तत् कार्यं सफलं न अभवत् । अत: एषा विशिष्टा रचना अवशिष्टा अस्ति ।

"http://sa.wikipedia.org/w/index.php?title=याणम्&oldid=145795" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु