यु.आर्.अनन्तमूर्तिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

कन्नडे षष्ठः ज्ञानपीठप्रशास्तिविजेता यु.आर्. अनन्तमूर्तिमहोदयः (U.R. Ananthamurthy) । तस्य पूर्णं नामधेयं डा. उडुपि राजगोपालाचार्य अनन्तमूर्तिः । सर्वेषां कृते स्वस्य मातृभाषया एव प्राथमिकशिक्षणम् आवश्यकम् इति प्रतिपादयति अनन्तमूर्तिः। ’विदेशीयाः बहु भाषाः ज्ञातवन्तः वयं, अस्माकं निकटे विद्यमानाः अन्यप्रान्तीयभाषाः न जानीम” इति आश्चर्यं दर्शयति । जगतः अन्यभाषाणां काश्चन प्रमुखानां कृतीनाम् आंगलभाषया अनुवादः कर्तुं न शक्यः इति तस्य अभिप्रायः । कन्नडलेखकः भारतीयसाहित्यविमर्शकः च अनन्तमूर्तिः आत्मानं कन्नड- संस्कृत्याः "क्रिटिकल् इन्सैडर् " इति घोषयति। तस्य बहुचर्चितसस्कार कादम्बरी द्वारा भारतीयसाहित्यक्षेत्रे , चलनचित्ररङ्गे च नूतनं विवादम् एव सृष्टवान्।

जन्म[सम्पादयतु]

सः शिवमोग्ग मण्डले , तीर्थहळ्ळीसमीपे स्थिते मेळिगे ग्रामे जन्म प्राप्तवान् । द्वौ ज्ञानपीठप्रशस्तिविजेतौ (कुवेम्पु, अनन्तमूर्तिः च) तीर्थहळ्ळी उपमण्ड्ले जातौ । तस्य जन्म १९३२ तमे वर्षे डिसेम्बर् मासे २२ तमे दिनाङ्के अभवत् । तस्य मातापितरौ सत्यम्मा (सत्यभामा), राजगोपालाचर्यः च।

विद्याभ्यासः[सम्पादयतु]

दूर्वासपुरस्य साम्प्रदायिकसंस्कृतपाठशालायां विद्याभ्यासम् आरब्धवान् । अनन्तमूर्ते पठनम् अनन्तर तीर्थहळ्ळी, मैसूरुनगरे च अनुवर्तितम्। । मैसूरुविश्वविद्यालयतः आंग्लसाहित्ये एम्.ए.पदवीं प्राप्तवान् सः उन्नतविद्याभ्यासार्थं इंग्लण्ड्देशम् आगच्छत् । कामन्वेल्थ- विद्यार्थिवेतनं प्राप्य सः बर्मिग् ह्याम् विश्वविद्यालयतः आंग्लभाषा तथा तौलनिकसाहित्यम् इति विषये १९६६ तमे पि.एच.डि पदवीम् अलभत् ।

वृत्तिजीवनम्[सम्पादयतु]

१९७० तः मैसूरुविश्वाविद्यालयस्य आंग्लविभागे उपन्यासकः भूत्वा, प्राध्यापकः च भूत्वा कार्यं कृतवान् अनन्तमूर्तिः १९८७ तमे वर्षे केरलस्य कोट्टायं प्रदेशस्य महात्मागन्धिविश्वविद्यालयस्य उपकुलपतिः आसीत् । १९९२ -९३ तमवर्षपर्यन्तं न्याषनल् बुक् ट्रस्ट् आफ् इन्डिया संस्थायाः अध्यक्षः आसीत् । १९९२ तमे वर्षे सः केन्द्रसाहित्य-आकाडेमि- अध्यक्षः इति चितः अभवत् । गोकाकमहोदयस्य अनन्तरम् एतस्याः संस्थायाः अध्यक्षरूपेण चितः द्वितीयः कर्णाटकीयः एषः। अनन्तमूर्तिः देशविदेशानं बहुषु विश्वाविद्यालयेषु सन्दर्शकप्राध्यापकः आसीत् । जवहरलालनेहरुविश्वविद्यालये , जर्मनीदेशस्य तूबिङ्गेन- विश्वविद्यालये, अमेरिकदेशस्य ऐयोवाविश्वविद्यालये, टफट् -विश्वविद्यालये, कोल्हापुरस्य शिवाजिविश्वविद्यालये प्राध्यापकः आसीत् । लेखकः भाषणकारः अनन्तमूर्तिः देशस्य अन्तः बहिः च अनेकासु गोष्ठीषु भागम् अवहत् । १९८० तमे वर्षे सोवियत् रषिया, हङ्गेरी, पश्चिम-जर्मनी, फ्रान्स- देशान् गत्वा भारतीयलेखकानां सङ्घस्य सदस्यः अभवत् । मार्क्सवादेन प्रभावितः सः स्वस्य अभिप्रायाणां परीक्षणार्थं अत्र सर्वत्र उत्तमम् अवसरं प्राप्तवान्। कस्याश्चित् सोवियत् पत्रिकायाः परामर्शकसमितेः सदस्यः सन् १९८९तमे वर्षे मास्कोनगरं गतवान्। १९९३ तमे चीना देशं गत्वा भारतीय लेखकानां परिवारस्य नायकः अभवत् । न केवलं तावत् देशविदेशेषु अनेकवेदिकासु शताधिकान् उपन्यासान् दत्तवान् ।अनन्तमूर्तिः कन्नडस्य अनेकसाहित्यदिग्गजानां आकाशवाण्यां दूरदर्शने च सन्दर्शनम् अकरोत् । मैसूरुआकशवाण्यां गोपालकृष्ण- अडिगः, शिवरामकारन्तः, आर्. के नारायणः, आर्. के लक्ष्मणः, जनरल् कारियप्पः इत्यादि- महोदयानां साक्षात्कारं कृतवान् । शिवरामकारन्तः, गोपालकृष्णअडिगः, मास्तिवेंकटेश-अय्यङ्गारादीनां च साक्ष्यचित्रेषु दूरदर्शनस्य संन्दर्शको भूत्वा भागम् अवहत् ।

साहित्यम्[सम्पादयतु]

अनन्तमूर्तिः कन्नडस्य लेखकः , विमर्शकः इति च प्रसिद्धः अस्ति । १९५५ तमे वर्षे एन्देन्दू मुगियद कथे कथा सङ्कलनेन तस्य साहित्य- कृषिः आरब्धा । तस्य अन्यानि कथा सङ्कलनानि -मौनी, प्रश्नः, आकाशः-बेक्कु(मार्जालः) च । एताभिः सर्वाभिः कथाभिः युक्तं मूरु दशकद कथेगळु इति पुस्तकं १९८९ तमे वर्षे प्रकटितम् । ज्येष्ठः समाजवादी राजकारणी जे.एच्.पटेलस्य समीपवर्तिः अनन्तमूर्तिः , शान्तवेरीगोपलगौडः, लोहिया इत्येताभ्यां लेखकाभ्यां नितरां प्रभावितः आसीत् । तस्य लेखनेषु एतयोः प्रभावः नितरां दृश्यते । १९६५ तमे तस्य संस्कारनामिका प्रथमा कादम्बरी प्रकटिता । यदा सा प्रकटिता, तथा चलनचित्ररूपेण आगता तदा सर्वत्र विवादाः उत्पन्नाः। विवादास्पदा एषा कादम्बरी अनेकासु देशीयविदेशीयभाषासु भाषान्तरिता अस्ति । तस्य इतराः कादम्बर्यः भारतीपुर, अवस्थे, भव च ।आवाहने इति एकं नाटकम् अलिखत् । २५ पद्यानि मिथुन अज्जन हेगल सुक्कुगळु इति तस्य पद्यसङ्कलनानि। प्रबन्धसङ्गलनानि -प्रज्ञे, परिसरः पूर्वापरः समक्षमः च । आंग्लभाषया अपि सः अनेक प्रबन्धान् लिखित्वा देश-विदेशस्य साहित्य पत्रिकासु प्राकटयत् ।१९८१ तमे वर्षे राजकीय- सांस्कृतिक- साहित्यिकविषयान् अधिकृत्य रुजुवातु इति त्रैमासिकम् आरब्धवान् । अनन्तमूर्ति महोदयस्य अनेककथाः कन्नड साहिन्यविमर्शकानाम् अवधानम् आकृष्य चर्चास्पदाः, विवादास्पदाः च जाताः सन्ति । तासु सूर्यकुदुरे' नविलुगळु, बर, घटश्राद्ध, तायी, हुलिय हेङ्गरुळु च प्रमुखाः। संस्कारः , अवस्थे, बर, घटश्राद्ध इत्येतानि तस्य कादम्बरी-आधारितचलनचित्राणि। एतानि चित्राणि राष्ट्रिय-अन्ताराष्ट्रियस्तरे च प्रशस्तिं अलभन् । घटश्राद्धम् आधारीकृत्य "दीक्षा" इति हिन्दी चलनचित्रमपि आगतम् । संस्कार-घटश्राद्धचित्राभ्यां भारतसर्वकारस्य स्वर्णकमलप्रशस्तिः प्राप्ता अस्ति।

प्रशस्तयः[सम्पादयतु]

संस्कार- घटश्राद्ध- बरचित्रेभ्यः अन्युत्तमकथाः इति प्रशस्तिः अनन्तमूर्तिना प्राप्ता अस्ति । कर्नाटकसाहित्यअकाडेमीप्रशस्तिः, १९८४ तमे वर्षे कर्णाटकराज्योत्सवप्रशस्तिः ,१९९२ तमे वर्षे केन्द्रसाहित्यअकाडेमीप्रशस्तिः, १९९४ तमे वर्षे मास्तिप्राशस्तिः च तेन प्राप्ता अस्ति। १९९४ तमे वर्षे प्राप्ता ज्ञानपीठप्रशस्तिः सर्वासां प्रशस्तीनां कलशप्राया अस्ति ।

"http://sa.wikipedia.org/w/index.php?title=यु.आर्.अनन्तमूर्तिः&oldid=262853" इत्यस्माद् पुनः प्राप्तिः